पाठ 16 हास्यालापा: A talk of jokes

पाठ 16 हास्यालापा:

IMG 20240224 095113 पाठ 16 हास्यालापा: A talk of jokes

(अनेके बालकाः बालिकाः च उपविष्टाः हास्यालाप कुर्वन्ति ।)

प्रमोद :-कमला ! किमपि हास्यं व्यंग्यं वा कथय ।
कमला-श्रुणुत-कमला कमले शेते, हरः शेते हिमालये ।क्षीराब्धौ च हरिः शेते, मन्ये मत्कुण – शंकया।।

(सर्वे हसन्ति ।)

कमला- प्रमोद ! अधुना त्वं कथय ।
प्रमोदः-उष्ट्राणां विवाहेषु गीतं गायन्ति गर्दभाः ।
परस्परं प्रशंसन्ति अहो रूपम्, अहो ध्वनिः।।

(सर्वे पुन: हसन्ति)

कमला:-प्रमोद ! – एकम् अन्यं श्लोकम् आकर्णयत्-
परान्नं प्राप्य दुर्बुद्धे ! मा शरीरे दयां कुरु ।
परान्नं दुर्लभं लोके शरीराणि पुनः पुनः । ।

(सर्वे अट्ठाहासैः हसन्ति)

कमला :- विनोद ! – त्वमपि किंचित् वद् ।
विनोदः – श्रुणुत ! – वैद्यराज ! नमस्तुभ्यं यमराज-सहोदरम् ।
यमस्तु हरति प्राणान् वैद्यः प्राणान् धनानि च ।।

(सर्वे साट्ठाहासं हसन्ति)

शब्दार्थाः

सहोदर: = भाई (brother). 
क्षीराब्धि = क्षीर समुद्र (sea of milk),
 उष्ट्र: = ऊँट (camel)
गर्दभ=गधा (ass),
 मत्कुणः = खटमल (bug), 
शेते= सोती है (sleeps), 
हास्यालापाः = हँसी की बातचीत (a talk of joke),  परान्नम् = दूसरे का अन्न (another's food), 
प्रशंसन्ति = प्रशंसा करना (to praise), 
व्यंग्यम् = टेढ़ी बात (indicated by implication)।

अभ्यास

1.कण्ठस्थ कीजिए-
कमला कमले शेते, हरः शेते हिमालये ।
क्षीराब्धौ च हरिः शेते, मन्ये मत्कुण- शंकया ।।

2.निम्नलिखित श्लोक का अनुवाद कीजिए-

उष्ट्राणां विवाहेषु गीतं गायन्ति गर्दभाः । परस्परं प्रशंसन्ति अहो रूपम्, अहो ध्वनिः ।।

3.रिक्त स्थानों की पूर्ति कीजिए-
उष्ट्राणां………..गीतं………गर्दभाः ।
परस्परं प्रशंसन्ति अहो………अहो।।

4.निम्नलिखित शब्दों का वाक्यों में प्रयोग कीजिए-
दुर्बुद्धे………………………..।
सहोदर:………………………।
प्रशंसन्ति…………………….।
क्षीराब्धिः…………………….।

5.संस्कृत में अनुवाद कीजिए-
(a) विष्णु जी क्षीर सागर में सोते हैं।
(b) शिवजी हिमालय पर सोते हैं।
(c) संसार में परान्न दुर्लभ है।
(d) लक्ष्मी जी कमल पर सोती हैं।

Leave a Comment