आश्रम: – प्रथम: पाठ:

अस्माकं प्रदेशस्य सीतापुरजनपदे नैमिषारण्यं प्राचीनं तीर्थस्थलम् अस्ति।तत्र एकस्मिन् आश्रमे ऋषयः मुनयः गुरवः कवयः छात्राश्च निवसन्ति स्म। आश्रमस्थ विशाले परिसरे अश्वत्थ-वट-निम्बाशोक-वृक्षाणां गहना छाया भवति स्म। तत्र फलशालिनः आम्र-आमलक-पनस-पेरुवृक्षाः अपि विपुलाः आसन्। एभिः वृक्षैः तत्र पर्यावरण शुद्धमासीत्, येन शीतलाः वायवः मन्दं मन्दं वहन्ति स्म, काले-काले च मेघः वर्षति स्म ।

इदानीमपि तस्मिन्आश्रमे धेनवः बलीवर्दाः अश्वाः अन्ये च पशवः स्वच्छन्दं चरन्ति ।वृक्षेषु कपीनां कूर्दनं, चटकानांकूजनं, मयूराणां नर्तनं च दर्शकेभ्यः आनन्दं ददति ।

तस्याश्रमस्य समीपेगोमती नदी प्रवहति । तस्याःनिर्मलं जलं सर्वे आश्रमवासिनःपिबन्ति स्म । आश्रमे पशवःपक्षिणश्च विरोधं विहाय एकस्मिन् घट्टे पानीयम् पिबन्ति स्म, एकत्र वसन्ति स्म, तत्रैव खादन्ति स्म च । आश्रमे छात्राणां कृते एते नियमाः आसन-प्रातः सूर्योदयात् पूर्वम् उत्थातव्यं, नयां स्नानं कर्तव्यं, सन्ध्यावन्दनं करणीयम्, ईश्वरः नमनीयः सहैव खादनीयं ततः पठनाय कक्षायां गन्तव्यम् । एतान् आश्रमनियमान् सर्वे छात्राः पालनं कुर्वन्तः आसन् ।

सम्प्रत्यपि आश्रमोऽयं छात्रेभ्यः श्रेष्ठं संस्कारं प्रयच्छति । तत्र जातिगतं भेदभावं विना सर्वे निवसन्ति । स्वास्थ्य–संवर्धनाय व्यायामस्य, योगस्य प्राकृतिकचिकित्सायाश्च शिक्षणं प्रचलति । स च आश्रमः त्यागं तपस्यां परोपकारम् उदारतां च शिक्षयति ।

शब्दार्था:

प्राचीनं = प्राचीन।

अश्वत्थः = पीपल ।

नीम्बः = नीम ।

पनसः = कटहल ।

पेरुः = अमरूद ।

बलीवर्द: = बैल।

कूर्दनम् = कूदना।

चटकानाम् = चिड़ियों का ।

विहाय = छोड़कर।

सम्प्रत्यपि (सम्प्रति+अपि) = इस समय भी ।

आमलकः = आँवला ।

विपुला = अधिक ।

अभ्यासः

1- उच्चारणं कुरुत पुस्तिकायां च लिखत-
नैमिषारण्यम् अश्वत्थम् पक्षिणश्च। चिकित्सायाश्च। प्रयच्छति। उत्थातव्यम् सम्प्रत्यपि
आम्रामलकम्
2-एकपदेन उत्तरत
(क) आश्रमस्य समीपे का नदी प्रवहति ?
(ख) काले-काले कः वर्षति स्म ?
(ग) वृक्षेषु कस्य कूर्दनम् आनन्दं ददाति ?
(घ) आश्रमे भेदभावं विना के निवसन्ति ?
3- प्रश्नानाम् उत्तराणि लिखत
(क) आश्रमे स्वच्छन्दं के के विचरन्ति ? (ख) स्वास्थ्यसंवर्धनाय आश्रमे किं किं भवति ? (ग) छात्राणां कृते आश्रमे के के नियमाः आसन् ? (घ) आश्रमः किं किं शिक्षयति ?
4- उचितं मेलनं कृत्वा लिखत

क’‘ख’
यथा-सूर्योदयात् पूर्वम्उत्थातव्यम्
स्नानम्कर्तव्यम्
सहैवखादनीयम्
पठनाय कक्षायाम्गन्तव्यम्

5- अधोलिखित-पदानां सन्धि-विच्छेदं कुरुत

यथा- विरोधं विहाय विरोधम्विहाय
प्राचीनं तीर्थस्थलम्……..…….
पक्षिणश्च……..…….
छात्राश्च……..……..
6- उदाहरणानुसारं पदरचनां कुरुत
यथा- अपश्यत्पश्यति स्म ।
अलिखत्……….
अपिबत्……….
अगच्छत्………..
7- विचिन्त्य उत्तराणि लिखत
(क) फलदायकानां पञ्चवृक्षाणां नामानि लिखत ।
(ख) अनुस्वारसन्धियुक्तानि पञ्चवाक्यानि लिखत ।
(ग) जीवने वृक्षाणाम् उपयोगं लिखत ।
ध्यातव्यम्- स्म इत्यस्य प्रयोगः-
यदा वर्तमान–कालिकैः धातुभिः सह ‘स्म’ इत्यस्य प्रयोगः भवति तदा ते धातवः भूतकालिक-क्रियाणाम् अर्थान् प्रकटयन्ति ।
यथा-पठति स्म = पढ़ता था।
गच्छति स्म = जाता था।
वसन्ति स्म = रहते थे।
खादतः स्म = वे दोनों खाते थे।


वदतु संस्कृतम्
नमस्कारःनमस्कार।
नमस्ते/नमो नमःनमस्ते।
हरिः ओम्हेलो।
श्रीमन्/मान्येमहोदय / महोदय
धन्यवादःधन्यवाद।
स्वागतम्स्वागत।
क्षमां करोतु/क्षम्यताम्क्षमा कीजिए।
नास्ति चिन्ताकोई बात नहीं।
कृपयाकृपया।
आम्हां।
न/नहि नहीं।
उत्तमम् / अत्युत्तमम्अच्छा /बहुत अच्छा।
हार्दिक्यः शुभकामनाःहार्दिक शुभकामनाएं।
अभिनन्दनम्अभिनंदन।
पुनः मिलामःफिर मिलेंगे।
विशेष-एवमेव बालकेषु परस्परं वार्तालापस्य प्रावृत्ते: विकासं कारयत ।

संस्कृत-भारती कक्षा – 8

Leave a Comment