अहं संगणक: अस्मि – Ahm sanganakh asmi – एकोनविंशति: पाठ:

संगणकः – छात्राः!

छात्रा: – (श्रुत्वा) अये! कस्य स्वरः !

संगणकः भोः बालकाः! अहम् अत्र अस्मि ।

छात्रा: – (द्रष्टुं निकटे च गत्वा) तव नाम किम् अस्ति ?

संगणक: – मम नाम संगणकः। अहं गृहे गृहे निवसामि । किं न जानासि ?

एक: छात्र: – नहि, त्वम् अत्र विद्यालये निवससि । मम गृहे तु न निवससि ।

संगणक: – आम्। अधुना तव गृहे न निवसामि । यदा मया सह तव परिचयः भविष्यति, तदा तव गृहे अपि भविष्यामि ।

एक: छात्र: – सत्यं वदसि । परिचयं बिना गृहे प्रवेशः न भवितुम् अर्हति । भोः संगणक! तव पूर्णः परिचयः क:?

सर्वे छात्राः – तव परिचयः कः ? तव परिचयः कः ? छात्राः कोलाहलं कुर्वन्ति ।

संगणक: – भो छात्राः । अलं कोलाहलेन शृणुत । यूयं ध्यानं दत्वा तूष्णीं च भूत्वा श्रोतुम् इच्छथ। तदा (सर्वे छात्राः तूरणीं तिश्ठन्ति ।)

छात्राः – श्रीमन् संगणकमहोदय! वयं ध्यानेन श्रोष्यामः ।

संगणक: – सूचनानां संग्रहः, तासां व्यवस्था, पुनः क्षिप्रमेव प्रदानम् एव मम कार्यम् । अतः सर्वत्र अहम् अस्मि। अहं-विद्यालयस्य परीक्षाकार्ये अंकपत्रनिर्माणे, प्रमाणपत्र-निर्माणे च योगदानं कर्तुं समर्थः अस्मि। अहम् अन्तर्जालमाध्यमेन (इन्टरनेटमाध्यमेन) सूचनावर्षणं करोमि ।

छात्रा: – संगणक ! इण्टरनेटमाध्यमेन किं भवति?

संगणकः – अन्तर्जालमाध्यमेन विश्वम् एकनीडं भवति । गृहे एव रेलयानस्य वायुयानस्य च आरक्षणं, वस्तूनां क्रयविक्रयौ, ईमेलद्वारा संदेश-प्रेषणं, वेबकैमद्वारा सशब्द-सचित्रं सन्देश-प्रेषणं च भवति । भोः बालकाः! किं किं न भवति? क्षणेनैव सूचना आयाति याति च ।

छात्रा: – अहो अद्भुतः! अयम् अन्तर्जालव्यवस्था ।

(बालकाः संगणकं परिक्रामन्ति गायन्ति च ) संगणकस्त्वं संगणकस्त्वम्, नूनं तव सुविकासः । यत्र तत्र सर्वत्र दृश्यते, अहर्निशं तव लासः । ।

शब्दार्था:


भवितुम् = होने के लिए।

तूष्णीं भूत्वा = मौन होकर।

संगणकः = कम्प्यूटर ।

शृणवन्तु = सुनो।

क्षिप्रम = तुरन्त।

सूचनावर्षणम् = सूचनाओं की वर्षा ।

नीडम् = घर।

इन्द्रजालः = जादू ।

परिक्रामन्ति = परिक्रमा करते हैं।

निमिष-मात्रेण = क्षणमात्र

अहर्निशम् = दिन और रात।


अभ्यासः


1- उच्चारणं कुरुत पुस्तिकायां च लिखत-
श्रुत्वा द्रष्टुं नार्हति शृण्वन्तु इण्टरनेटमाध्यमेन
एकनीडं श्रोष्याम: श्रोतुम् संगणकस्त्वम् क्षिप्रमेव वेबकैमद्वारा

2- एकपदेन उत्तरत-

(क) काः कोलाहलं कुर्वन्ति ?
(ख) परिचयं बिना कुत्र प्रवेशः न भवति ?
(ग) कः सर्वत्र अस्ति?
(घ) केन माध्यमेन विश्वम् एकनीडं भवति?

3- शुद्ध रूपं लिखत-

यथा– पठतुम् पठितुम्

(क) खेलीतुम् ………

(ख) खातुम् ………

(ग) हसतुम् ………

4- दत्तैः शब्दैः वाक्यानि पूरयत-

(क) तव नाम..किम्..अस्ति।
(ख) अये!.कस्य स्वर:।
(ग) त्वं..कुत्र..निवससि ?
(घ)..क:..कोऽत्र भोः?

5- विलोमानां परस्परं मेलनं कुरुत-

यथा- ह्यः श्व:
तीव्रः मन्दः
श्वेतः श्यामः
आदौ अन्ते

6- संस्कृते अनुवादं कुरुत-

(क) मैं विद्यालय में रहता हूँ।
(ख) चुप होकर ध्यान से सुनो।
(ग) प्रमाण-पत्र में योगदान करता है।

7- संगणकः इति विषये निबंध लिखत ।

एतदपि जानीत-

फेसबुक – आमुखपटलम् ।

इन्स्टाग्राम – झटिति ।

वेबिनार – आभासि – संगोष्ठी ।

ट्विटर – अभिकूजनम् ।

लिंक्ड – संश्लिष्टम् ।

टेलिग्राम – प्रेष्यः लघुसन्देशः

Leave a Comment