अमोघं तद् बलिदानम् – षोडश: पाठ: Amogham tad balidanm

जम्मू-कश्मीरराज्यस्य कारगिलक्षेत्रे 1999 तमे वर्षे मईमासतः भारतीयसेना युद्धं करोति स्म। देशस्य तद्भागे अन्तःप्रविष्टानाम् अतिक्रमणकारिणां निरसनाय असौ यत्नः क्रियते स्म ।
अस्मिन भूभागे बहुपूर्वमेव शत्रुभिः व्यवस्थितरीत्या अतिक्रमणं विचिन्त्य आरब्धम् इति तदा ज्ञातम् । जनवरीमासे एव भारतीय गुप्तचरविभागीयैः जम्मूकश्मीरराज्यस्य कारगिलवलये स्थितायाः सीमानियन्त्रणरेखायाः समीपे पाकिस्तानस्य किमपि विमानं दृष्टम् आसीत् । अस्माभिः तद्विषये गम्भीरतया न चिन्तितम्। चतुर्णां मासानाम् अनन्तरं ज्ञातं यत् अष्टशताधिकाः पाकिस्तानीयाः सैनिकाः, अफगानिस्तानीयाः आतंकवादिनश्च अतिक्रमणं कृत्वा कारगिल- मष्कोह-द्रास-वलयेषु स्थितान् निर्जनपर्वतप्रदेशान् वशीकृतवन्तः इति। युद्धे भारतीयसैन्यबलेन अतुलनीयः पराक्रमः प्रदर्शितः । स्वशौर्येण शत्रुहस्तगतानि नैकानि सैन्यस्थलानि मुक्तानि। विषमपरिस्थितौ भीषणे च युद्धे भारतीय सैन्यबलं विजयम् प्राप्तवान् । अस्मिन् वीरतापूर्णे अभियाने अनेके सैनिकाः वीरगतिं प्राप्तवन्तः । सैनिकानां प्राणोत्सर्गं नत्वा चत्वारः अस्मदीयाः वीरसैनिकाः ‘परमवीरचक्रेण’ सम्मानिताः एते सन्ति-1-कैप्टन मनोज कुमार पाण्डेयः 2-सुबेदार योगेन्द्र सिंह यादवः 3-कैप्टन विक्रम बत्रा 4- राइफलमैन संजय कुमारः ।
शान्तिप्रियाः भारतीयाः इत्यत्र नास्ति संशयः । परम् आत्मरक्षणे वयं न कदापि अलसाः इति प्रधानमन्त्रिणा अन्यैश्च उद्घोषितम्। वयं देशरक्षणार्थं स्वप्राणान् पणीकृत्य कार्यं कृतवन्तः कुर्वतश्च सर्वान् योद्धृन् सगौरवं स्मरामः वयम्। तेषाम् आत्मबलिदानं व्यर्थ यथा न भवेत् तथा सर्वैः अपि प्रयतनीयम् ।


शब्दार्थाः


निरसनाय = हटाने के लिए।

अतिक्रमणम् = सीमा से आगे बढ़ जाना ।

प्रेषणम् =भेजना।

स्वशौर्येण = अपने शौर्य से ।

शत्रुहस्तगतानि = शत्रु के हाथ में गये हुए।

आत्मरक्षणे = अपनी रक्षा में।

पणीकृत्य = दाँव पर लगा कर ।

अमोघम् = अचूक, सफल ।

अभ्यासः


1- उच्चारणं कुरुत पुस्तिकायां च लिखत-

व्यवस्थितरीत्या सीमानियन्त्रणरेखायाः प्राणोत्सर्गम्
अतिक्रमणकारिणां भारतीयसैन्यबलेन विषमपरिस्थितौ

2- एकपदेन उत्तरत-

(क) कारगिलस्थलं कस्मिन् राज्ये अस्ति ?

(ख) भारतीयगुप्तचरविभागीयैः कस्य देशस्य विमानं दृष्टमासीत् ?

(ग) शान्तिप्रियाः के सन्ति ?

(घ) सगौरवं वयं कान् स्मरामः ?

3- पूर्णवाक्येन उत्तरत-

(क) करगिल-युद्धं कस्मिन् वर्षे अभवत् ?

(ख) पाकिस्तानस्य विमानं कुत्र दृष्टमासीत् ?

(ग) आरम्भे पाकिस्तानं किं न अङ्ग्यकरोत् ?

(घ) केषाम् आत्मबलिदानं व्यर्थ न भवेत्?

4- रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

(क) भारतीयसेनायाः पाकिस्तानसेनया सह युद्धम् अभवत् ।

(ख) नियन्त्रणरेखायाः समीपे पाकिस्तानस्य विमानं दृष्टमासीत्।

(ग) शान्तिप्रियाः भारतीयाः भवन्ति ।

(घ) सैनिकानाम् आत्मबलिदानं व्यर्थं न स्यात्।

5- मञ्जूषातः पदानि चित्वा वाक्यानि पूरयत-

(क) सैनिकानाम् आत्मबलिदानं व्यर्थम् न भवेत् ।

(ख) परम् आत्मरक्षणे वयं न कदापि अलसाः इति प्रधानमन्त्रिणा अन्यैश्च उद्घोषितम् ।

(ग) शान्तिप्रियाः भारतीयाः इत्यत्र नास्ति संशयः ।

6- संस्कृते अनुवादं कुरुत –

(क) सीमाओं की रक्षा कौन करता है ?

(ख) हिमालय की ऊँची चोटियाँ बर्फ से ढँकी रहती हैं।

(ग) भारतीय शान्तिप्रिय होते हैं।

(घ) कारगिल युद्ध में भारत की जीत हुई।

7- निम्नांकितेषु पदेषु उपसर्ग चित्वा लिखत-

पदम्उपसर्गः
प्रविष्टःप्र
अभिलषतिअभि
प्रतिकूलम्प्रति
प्रयत्नम्प्रय
स्मरणीयम् – वाक्यांशानां कृते एकशब्दः

यं जेतुं न शक्यते सः – अजेयः


यस्मिन् आक्रमणं कर्तुं न शक्यते सः – अनाक्रान्तः

यस्य शत्रुः न जायते सः – अजातशत्रुः

यः स्वल्पं भाषते सः – अल्पभाषी

यस्य अन्तं नास्ति सः – अनन्तः

यत् सदृशं कोऽपि द्द्वितीयः नास्ति सः – अदिवतीयः

एतदपि जानीत-

संस्कृतसाहित्ये विशिष्टयोगदानाय वाचस्पतिपुरस्कारः दीयते ।

संस्कृत-भारती कक्षा – 8 Sanskrit Bharti


Leave a Comment