अस्माकं पर्वाणि – तृतीय: पाठ

(दीपावली प्रकाशस्य महोत्सवः अस्ति । इदं पर्व कार्तिक्याम् अमावस्यायां संघटते। अस्मिन् दिने भगवान् रामचन्द्रः चतुर्दशवर्षमितं वनवासं पूर्ण कृत्वा रावणं जित्वा अयोध्यां प्रत्यागच्छत् । तदा प्रभृति इदं पर्व प्रचलति । अमुष्मिन् महापर्वणि रात्रौ महालक्ष्मीपूजनं भवति । वयं च देवीं धनधान्यादिकं याचामहे । सर्वे जनाः स्वकीयान् गृहान् दीपमालया सज्जयन्ति। सायं वीथीस्वापणेषु मार्गेषु गृहेषु च सर्वत्र दीपानां प्रकाशं पश्यामः । अहो! कियत् चाकचिक्यं प्रतिभवनेषु विद्युद्दीपानाम् ।
पर्वसु दीपावली प्रमुखं पर्वणिः वर्तते। अस्माकं देशे अन्यानि पर्वाणि अपि सन्ति । रक्षाबन्धनम्, विजयादशमी, होली इत्यादीनि ।

कार्तिकमासस्यैव पूर्णिमाया गुरुनानकदेवस्य जयन्ती भवति । अस्यामेव तिथौ गुरुनानकदेवस्य जन्म अभवत्। सिक्खधर्मावलम्बिनः जनाः अस्मिन् दिने विशिष्टायोजनं कुर्वन्ति । तैः सह तेषाम् इष्टमित्राण्यपि इद पर्व मानयन्ति । ते परिवारजनान् गुरुद्वारं नयन्ति । तत्र शिर: नत्वा ‘गुरुग्रन्थ साहिब’ इति नामधेयं स्वकीयं धर्मग्रन्थं शृण्वन्ति, मित्रैः सह संलपन्ति आनन्दं च लभन्ते ।
अमुष्मिन् पर्वणि सिक्ख महानुभावा: सर्वेभ्यः समागतेभ्यः जनेभ्यः मधुरप्रसाद वितरन्ति । भजनकीर्तनादि-कार्यक्रमेण सह ते शोभायात्राम् अप्यायोजयन्ति ।

ईसाईजनानां पर्व क्रिसमस नामकम् अस्ति । इदं पर्व
दिसम्बरमासस्य पञ्चविंशतितमे दिवसे भवति । अमुष्मिन् दिवसे परमकारुणिकः ईसामसीहः अजायत् । जनाः ‘गिरजाघर’ इति पवित्रस्थलेषु प्रार्थनां कुर्वन्ति । सान्ताक्लाजः शिशुभ्यः उपहारान् प्रयच्छति ।

‘ईद-उल-फितर’ मुस्लिमसमाजस्य पर्व अस्ति । अमुष्यायोजनं रमजानमासस्य समाप्तौ भवति । रमजानमासे मुस्लिमजनाः एकमासं दिवा उपवासं (रोज़ा) कुर्वन्ति । केवलं रात्रौ एव मिलित्वा खादन्ति । सम्बन्धिनां मित्राणां च गृहं गच्छन्ति । परस्परं वर्धापयन्ति। सुपरिचितेभ्यः मिष्टान्नादिकं वितरन्ति । नवानि वस्त्राणि धारयन्ति च ।

शब्दार्थाः

संघटते = पड़ता है।

अमुष्मिन् दिने = इस दिन ।

चतुर्दशवर्षमितम् = चौदह वर्ष पर्यन्त।

प्रत्यागच्छत् =वापस आए।

वीथीषु = गलियों में/मार्गों में।

तदा प्रभृति इदम् = तभी से यह ।

याचामहे = माँगते हैं।

नयन्ति = ले जाते हैं।

नत्वा = झुका कर ।

आपणेषु : दुकानों में।

चाकचिक्यम् = चकाचौंध ।

उपहारान् = भेंट

नामधेयेषु = नामक ।

परमकारुणिकः = अत्यन्त दयावान् ।

अजायत् = जन्म लिये।

प्रयच्छति = देता है।

उपवासं कुर्वन्ति = उपवास करते हैं (रोज़ा)।

सुपरिचितेभ्यः = परिचित लोगों के द्वारा।

वर्धापयन्ति = बधाई देते हैं।

नवानि = नये ।

अभ्यासः


1- उच्चारणं कुरुत पुस्तिकायां च लिखत
कार्तिक्याम् ईद-उल-फितर ईसामसीहः
विशिष्टायोजनम् इष्टमित्राण्यपि सुपरिचितेभ्यः
चतुर्दशवर्षमितम् सज्जयन्ति अलङ्कृतवान् सान्ताक्लाजः मिष्टान्नादिकम्

2- एकपदेन उत्तरत

(क) दीपावली कस्य पर्व अस्ति ?
(ख) कार्तिकमासस्य पूर्णिमायां तिथौ कस्य जयन्ती भवति ? (ग) सिक्खमहानुभावाः समागतेभ्यः जनेभ्यः प्रसादरूपेण किं वितरन्ति ?
(घ) ईसाईजनानां रमणीयं प्रमुख पर्व किमस्ति ?
(ड.) मुस्लिमसमाजस्य किं पर्व अस्ति ?


3- पूर्णवाक्येन उत्तरत –
(क) रामः अयोध्यां कदा प्रत्यागच्छत् ? (ख) गुरुनानकदेवस्य जन्म कदा अभवत् ?
(ग) जनाः ‘गिरिजाघर’ इति पवित्रस्थलेषु किं कुर्वन्ति ? (घ) रमजानमासे मुस्लिमजनाः किं कुर्वन्ति ?


4- रेखांकित-पदानि आधृत्य प्रश्ननिर्माणं कुरुत
यथा- दीपावली प्रकाश्य पर्व अस्ति । (क) दीपावली महापर्वणि रात्रौ लक्ष्मीपूजनं भवति । (ख) सिक्खधर्मावलम्बिनः गुरुग्रन्थसाहिब इति धर्मग्रन्थं शृण्वन्ति। (ग) ईसाईजनानां रमणीयं पर्व क्रिसमसनामकम् अस्ति ।


5- समासविग्रहं कुरुत –

यथा-लक्ष्मीपूजनम्लक्ष्म्याः पूजनम्।
सिक्खधर्मः…………
पीताम्बरम्………….
चोरभयम…………..
6- मञ्जूषातः पदानि चित्वा वाक्यानि पूरयत-
(क) सिक्खधर्मावलम्बिनः परिवारजनान् गुरुद्वारम् नयन्ति
(ख) सान्ताक्लाजः शिशुभ्यः उपहारान् प्रयच्छति ।
(ग) रमजानमासे मुस्लिमजनाः एकमासम् दिवा उपवसन्ति।
7- संस्कृते अनुवादं कुरुत

(क) दीपावली प्रकाश का पर्व है।
(ख) हम सब धन-धान्य की याचना करते हैं।
(ग) सिक्खजन गुरुग्रन्थसाहिब को नमस्कार करते हैं।
(घ) ईसाई लोग क्रिसमस के दिन गिरजाघरों में प्रार्थना करते हैं।
विचिन्त्य लिखत
अस्माकं समाजे अन्ये के के उत्सवाः भवन्ति, तैः उत्सवैः समाजस्य कः लाभ ? इति लिखत ।
स्मरणीयम्

मिष्टान्नानां नामानि
मोदकःलड्डू
रसगोलकम्रसगुल्ला
दुग्धपूपिकागुलाब जामुन
पिण्डःपेड़ा
चक्रिकाबर्फी
संयावकम्गुझिया
कौष्माण्डकम्पेठे की मिठाई
मधुमष्ठःबालूशाही
कुर्चिकारबड़ी
मिष्टपाकःमुरब्बा

Leave a Comment