एत बालका: -At balkah – अष्टादश: पाठ:


एत बालकाः ! स्वयं चलाम । काठिन्यं दूरे करवाम ।। 1 ।।

एत नयाम नभस्तारकम् । दूरे कुर्मश्चान्धकारकम् ।।2।।

एत पर्वतानपि परिमाम । शक्तिसमुदयं नैव जहाम । । 3 ।।

एत सागरं प्रति गच्छाम । जीवनकलशं ननु विभराम ।। 4 ।।

एतातुलितां शक्तिं लब्ध्वा, पौरुषेण खलु भाग्यं बद्ध्वा ।

एत विदध्म तपो नवीनम्, पूरयेम वाञ्छाकमनीयम् ।। 5 ।।

सेवामहै जनांश्च निकामम् । लोभं विना सुधापाः कामम् ।। 6 ।।
एत जयेम मनांसि जनानाम् जीवनमिह सफलं बालानाम् ।। 7 ।।

एत विकुर्मो भ्रान्तिसमूहम् । दर्शयेम नवमार्गारोहम् ।। 8 ।।

एत मङ्गलं बहु वितरेम । विश्वमनल्पं लघु कलयेम।। 9।।


शब्दार्थाः

एत = आओ।

नयाम = ले आयें।

अन्धकारकम = अंधकार को ।

परिमाम = नाप लें।

जहाम = त्याग करें।

विमराम = पूर्ण करें, भरें।

अतुलिताम् = अतुलनीय, अपरिमित ।

लब्वा = प्राप्त कर।

बद्ध्या = बाँधकर |

विदध्य = विधान करें।

पूरयेम = पूर्ण करें।

बाञ्छाकमनीयम् = इच्छित सुन्दर कामना की।

सेवामहै = सेवा करें।

निकामम्= पर्याप्त, यथेच्छ ।

सुधाषा: = अमृतपान करने वाले।

कामम् = कामना के अनुसार।

इह = यहाँ।

विकुर्मः = दूर करते हैं।

दर्शयेम = दिखायें।

नवमार्गारोहम् = नये मार्ग पर चलना।

अनल्पम् = सम्पूर्ण |

कलयेम = बनायें।


अभ्यासः


1- उच्चारणं कुरुत पुस्तिकायां च लिखत-
विदध्म अन्धकारकम् वाञ्छा पौरुषेण नभस्तारकम् सेवामहै

2- एकपदेन उत्तरत-

(क) काठिन्यं किं करवाम ?
(ख) वयं किं परिमाम ?
(ग) किं दूरे कुर्मः ?
(घ) किं विभराम ?

3- पूर्णवाक्येन उत्तरत

(क) काठिन्यं दूरं कर्तुं वयं किं करवाम ?
(ख) वयं किं नैव जहाम ?
(ग) तपः कृत्वा किं पूरयेम ?
(घ) भ्रान्तिसमूहं दूरं कृत्वा वयं किं दर्शयेम ?

4- रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत

(क) जनानां मनांसि जयेम।
(ख) मङ्गलं बहु वितरेम ।
(ग) वयं नभस्तारकं नयाम ।

5- मञ्जूषातः क्रियापदानि चित्वा वाक्यानि पूरयत-

यथा– अहं काठिन्यं दूरे करवाम
(क) त्वं नभस्तारकम्..नय..।
(ख) सः सागरं प्रति..गच्छतु.।

Leave a Comment