भव्या भागीरथी – नवम:पाठ:

हिमाद्रेः सम्भूता विहरसि तदङ्के हिममये, ततो भूमिं याता विचरसि सुहासा समतले । पुनासि त्वं लोकान् प्रवहसि समुद्रं प्रति सदा, अहो दिव्ये गङ्गे! भवतु सुखदं नस्तव जलम्।।1।।

न जाने किं पुण्यं फलितमधुना नो भगवति, प्रियो देशो जातः तव जलकणैर्नष्टकलुषः । हरिद्वार काशी तव तटमहत्त्वं कथयतः,
प्रयागस्तीर्थानां पतिरतुलनीयस्तव तटे ।।2।।

जनानां धात्री त्वं सुमधुर-फलान्नानि ददती, विशालां सिञ्चन्ती मधुमयजलैर्भारतभुवम् ।
अये शुभ्रे गङ्गे ! विलसिततरङ्गे ! त्रिपथगे! तवोत्सङ्गे धन्याः शिशव इव खेलन्ति मनुजाः । । 3 ।।

पयस्ते कुल्याभिर्व्रजति बहु दूरं सुमधुरम्, ततः सिक्तं क्षेत्रं भवति हरितं चापि ललितम् । गभीरे ते नीरे तरणिषु सुखं यान्ति पथिकाः, वयं भूयो भूयो जगति तव कृत्यैरुपकृताः ।। 4 ।।

अये पुण्ये गङ्गे !जगति जननं चेन्मम पुनः, भवेत् क्रीडाभूमिः पुनरपि शुभा भारतधरा । सदा सेवे नीरं सुरनदि ! तवेदं सुखकरम्, न मेऽन्या स्यादीहा तव तटविहारे विहरतः ।। 5 ।।


शब्दार्थाः


हिमाद्रेः = हिमालय पर्वत से ।

सम्भूता = निकली हुई।

सुहासा = सुन्दर हँसती हुई।

पुनासि = पवित्र करती हो ।

धात्री = धारण करने वाली।

त्रिपथगे = तीन मार्गों से जाने वाली (स्वर्गलोक, पृथ्वीलोक तथा जाती है। पाताललोक मे बहने वाली) गङ्गा ।

उत्सङ्गे = गोद में।

कुल्याभिः = नहरों से।

व्रजति = जाती है।

ईहा = इच्छा।

यान्ति = जाते हैं।

तरणिषु = नौकाओं में।

चेत् = यदि ।

अभ्यासः

1- उच्चारणं कुरुत पुस्तिकायां च लिखत-
हिमाद्रेः फलान्नानि कुल्याभिर्व्रजति तदङ्के जलकणैर्नष्टकलुषः मधुमयजलैर्भारतभुवम् क्रीडाभूमिः तवोत्सङ्गे कृत्यैरुपकृताः

2- एकपदेन उत्तरत-

(क) गङ्गा कुतः सम्भूता ?

(ख) तीर्थानां पतिः कः ?

(ग) गङ्गायाः पयः काभिः बहुदूरं व्रजति ?

(घ) गङ्गायाः गभीरे नीरे तरणिषु के सुखं यान्ति ?

(ङ) भागीरथी कान् पुनाति ?

3- पूर्णवाक्येन उत्तरत-

(क) गङ्गातटे कानि प्रसिद्धानि नगराणि ?

(ख) गङ्गा-जलात् सिक्तं क्षेत्रं कीदृशं भवति ?

(ग) गङ्गा कीदृशैः जलैः भारतभुवम् सिञ्चति ?

(घ) भागीरथ्याः उत्सङ्गे के शिशवः इव खेलन्ति ?

4- अधोलिखित-पदेषु सन्धि-विच्छेदं कुरुत-

मेऽन्या = ………+………

तवोत्सङ्गे = ………+….……

मधुमयजलैर्भारतभुवम् =…….+…….

तवेदम् =…….+……..


5- संस्कृतभाषायाम् अनुवादं कुरुत-

(क) गंगा सभी नदियों में श्रेष्ठ है।

(ख) इसका जल शीतल एवं पवित्र है।

(ग)पर्यटक गंगा में नौका विहार करते हैं।

(घ) गंगा-तट पर बैठकर लोग तप करते हैं।

(ङ) वाराणसी में गंगा का तट बहुत सुन्दर है।

6- रेखाङ्कित-पदानि आधृत्य प्रश्न- निर्माणं कुरुत –

(क) गङ्गा हिमाद्रेः सम्भूता ।

(ख) गङ्गा लोकान् पुनाति ।

(ग) हरिद्वारं काशी तव तटमहत्त्वं कथयतः ।

(घ) पयस्ते कुल्याभिः व्रजति ।

एतदपि जानीत-

जलाशयानां नामानि-

सिन्धुः = समुद्र
नदी=नदी
कुसरित=छोटी नदी
कुल्या=नहर
पल्लवलम्=पोखरा
अल्पसरम्=तलैया
तडागः=तालाब
कूपः = कुँआ
निर्झरः=झरना
कासारः = झील

Leave a Comment