दीपमालिकोत्सवः (Festival of Deepawali) – नवम: पाठ: (9)

समुद्रमंथने लोक के कल्याण के लिए सुर और असुरों ने शेष नाग को रस्सी बनाकर, मंदारपर्वत को मथनी बनाकर समुद्र का मंथन किया था। जिससे विष, लक्ष्मी, अमृत आदि चौदह रत्न निकले थे जिससे इस श्लोक से जाना जा सकता है- लक्ष्मी: कौस्तुभ पारिजातकसुरा, धनवन्तरिश्च चन्द्रमा ।गावः कामदुधा सुरेश्वरगजो, रम्भादि देवांगना।अश्व सप्तमुखो विषं हरिधनुः शंखोऽमृतं चाम्बुधे ।रत्नानीह चतुर्दश प्रतिदिनं, कुर्युः सदा मंगलम्।

पुराण पटले वैदिकसाहित्ये वा विविधानाम् उत्सवानां वर्णन दूकगोचरतां भवति। संस्कृतसाहित्ये तु प्रायः सर्वेषु नाटकेषु महोत्सवानां वर्णनं दृश्यते। मानवानां स्वभावतः एव महात्सवप्रियतां समवलोक्य सुरभारती विलासेन कालिदासेन कथितम्-

।। उत्सवप्रिया भवन्ति मानवाः ॥

भारतीयेषु उत्सवेषु दीपमालिकायाःस्थानंश्रेष्ठम्अस्ति ।शरदकालीनमिदं पर्व: सर्वं सानन्दं मानयन्ति । अयम् उत्सवःसर्वेषाम् उत्सवानां प्रमुखो उत्सवः अस्ति।

प्राचीना रामायणी कथा। रघुकुलमणिना भगवता रामचन्द्रेण रावणं समरे निपात्य पुनः स्वीया अयोध्यापुरीं प्रत्या गच्छत् तदा तदागमनप्रसन्नैः अयोध्यावासिभिः सर्वाण्येव स्वीकयानि गृहाणि दीपानां मालिकाभिः समुद्भाषितानि। एतत्विषयेऽपरेयं किम्वदन्ती अपि अस्ति यत् परस्परं सहयोगं समालम्ब्य समुद्रमंथने प्रवृत्तैः सुरासुरैः अस्मिन् एव दिवसे भगवती महालक्ष्मीः सागरमध्यान् निःसरन्ती समालोकिता। वस्तुतः अस्या एव किम्वदन्त्या प्रामाणिकता प्रतीयते यतः कार्तिक शुक्लपक्षे त्र्योदश्यां धनवन्तरे: चतुर्दश्यां सुरभि समुत्पत्ति वर्णिताः अस्ति। तदनन्तरम् अमावस्यायां भगवत्या महालक्ष्म्या आविर्भाव वर्णनमस्ति । अतएव दीपमालिकोत्सवः पञ्चदिवसात्मकः भवति ।उत्सवदिवसात् पूर्वमेव जनाः गृहाणि स्वच्छीकुर्वन्ति, चित्रै पुष्पमालाभिश्च भूषयन्ति। ते नवीनानिवस्त्राणि धारयन्ति । अस्मिन् काले आपणानां शोभा अपि दर्शनीया। प्रसन्नवदनाः जनाः विविधं वस्तुजातं क्रीणन्ति । मिष्ठान्न आपणेषु विविधानि मिष्ठान्नानि तद् यथा-रसगोला, हैमी, कुण्डलिन्यः शोभन्ते । विपणिषु सर्वत्र प्रमुदितः जनशंकुलः दृश्यते ।रात्रौ जना विद्युद्दीपैः, तैलदीपैः, मोमवर्तिकाभिः च गृहाणि आलोकयन्ति । यदा प्रतिगृहं प्रतिभवनं च दीपाः प्रज्वलिता भवन्ति, तदा दृश्यम् अत्याकर्षणम् अनुपमम् च दृश्यते । दीपोत्सवे जनाः लक्ष्मीपूजनं कुर्वन्ति, सुख-समृद्धिं च काम्यन्ते । ते बन्धु-बान्धवस्य मिष्ठान्नानि वितरन्ति, स्वयमपि स्वादूनि व्यञ्जनानि च खादन्ति । प्रहृष्टाः बालकाः बालिकाश्च विस्फोटकान् स्फोटयन्ति। परं अद्यत्वे अत्र संयमेन आचरितव्यम् यतः विस्फोटकानि वातावरणं विषाक्तेन धूम्रेण प्रदूषयन्ति येन केचित् जनाः विशेषतः बालाः वृद्धा: च रुग्णाः भवन्ति । वस्तुतः सकला प्रकृतिः एव वायु प्रदूषणेन प्रभाविता भवन्ति ।अपि च स्फोटकानां निर्माणे बाल-श्रमिका: नियुक्ताः । बाल्यकाले विषाक्त पदार्थैः तेषां स्वास्थ्यहानिः जायते। यदा कदा प्राणहानिः अपि भवति । नैतद् वाञ्छनीयम्। अतः विस्फोटकान् वर्जयेत्।अयं हि आनन्दस्य उत्सवः, जनानां जीवने आनन्दं वितरतु । इयं दीपमालिका अज्ञानस्य तमः नाशयतु, सुख-समृद्धेः आलोकं सर्वतः प्रसारयतु। ‘सर्वे भद्राणिपश्यन्तु।’

शब्दार्थाः

दृक्गोचरतां भवति = दृष्टिगोचर होता है is looked

सुरभारती विलासेन = सरस्वती का साधक the worshiper of Saraswati

शरदकालीनमिदं = शरद ऋतु का यह This, belonging to Autumn

निपात्य = पछाड़कर defeating

प्रत्यागच्छत् वापस आया, लौटा returned

किम्वदन्ती = कहावत, अफवाह, उड़ती खबर proverbs

सुरासुरैः = देवता और दैत्यों द्वारा by the gods and the demons

प्रामाणिकता = सबूत proof

पञ्चदिवसात्मकः = पाँच दिनों तक till five days

आपणानाम् = दुकानों की of the shops

कुण्डलिन्य: = जलेबियाँ jalebis

जनशकुलः = लोगों की भीड़ crowd of people

विद्युद्दीपैः = बिजली के बल्बों से with electric lights

अत्याकर्षणम् = अत्यन्त आकर्षक very attractive

स्वादूनि = स्वादिष्ट tasty

अद्यत्वे = आजकल now-a-days

रुग्णाः = बीमार ill

नैतद् वाञ्छनीयम् = यह अच्छी बात नहीं this is not desirable

स्फोटयन्ति = फोड़ते हैं burst

आलोकम् = रोशनी light

विस्फोटकान् = पटाखे crackers

कार्य-कालम्

1.निम्नलिखित प्रश्नों के संस्कृत में उत्तर दीजिए- Answer the following questions in Sanskrit.

(क) ‘उत्सवप्रियाः भवन्ति मानवा:’ इति केन कथितम्?

(ख) कं निपात्य रामचन्द्रः अयोध्यापुरीं प्रत्यागच्छत् ?

(ग) सुरासुरैः कस्मिन् दिवसे महालक्ष्मीं सागरमध्यान् निःसरन्ती समालोकिता?

(घ) दीपमालिकावसरे आपणानां शोभा कथय ।

(ङ) दीपामालिकायाः कः संदेश: ?

2.रिक्त स्थानों की पूर्ति कीजिए-Fill in the blanks.

(क) …….. साहित्ये तु प्रायः सर्वेषु नाटकेषु महोत्सवानां वर्णनं दृश्यते ।

(ख) प्रसन्नैः ………. सर्वाण्येव स्वीकीयानि गृहाणि दीपानां ………. समुद्भाषितानि।

(ग) तदनन्तरम् अमावस्यायां भगवत्या महालक्ष्म्या ……..वर्णनमस्ति ।

(घ) विस्फोटकानि वातावरणं ….….. धूम्रेण प्रदूषयन्ति येन केचित् जनाः विशेषतः बालाः वृद्धाः च रुग्णाः भवन्ति।

(ङ)बाल्यकाले ……… स्वास्थ्य हानिः जायते।

3.निम्नलिखित वाक्यों का हिन्दी में अनुवाद कीजिए-Translate the following sentences into Hindi.

(क)उत्सवप्रियाः भवन्ति मानवाः ।

(ख)अयम् उत्सवः सर्वेषाम् उत्सवानां प्रमुखो उत्सवः अस्ति।

(ग)वस्तुतः अस्या एव किम्वदन्त्या प्रामाणिकता प्रतीयते ।

(घ) मिष्ठान्न-आपणेषु विविधानि मिष्ठान्नानि तद् यथा-रसगोला, हैमी, कुण्डलिन्यः शोभन्ते।

(ङ) सर्वे भद्राणि पश्यन्तु।

4.निर्देशानुसार शब्द रूप लिखिए-Write the word form according to the instructions.

(क) वायुः ➡️ विभक्ति-चतुर्थी

(ख) मोमवर्तिका ➡️ विभक्ति-तृतीया

(ग) चित्रम् ➡️ विभक्ति-सप्तमी

(घ)विषम् ➡️ विभक्ति-प्रथमा

(ङ) मिष्ठान्नम् ➡️ विभक्ति-षष्ठी

(क) संधि कीजिए- Join the words.

(i)स्वयम् + अपि

(ii)न + एतत्

(iii) दीप + उत्सवे

(iv)विद्युत् + दीपैः

(v)अति + आकर्षणम्

(vi)वर्णनम् + अस्ति

(ख) संधि-विच्छेद कीजिए- Disjoin the words.

(i)पुष्पमालाभिश्च

(ii)महोत्सवानाम्

(iii) दीपमालोत्सवः

(iv)शरदकालीनमिदम्

(v)श्रेष्ठमस्ति

(vi) सुरासुरैः

(ग) अर्थ लिखिए- Write the meanings.

(i)निपात्य

(ii)समालम्ब्य

(iii) सानन्दम्

(iv) स्वादूनि व्यञ्जनानि

(v)किम्वदन्ती

(vi) विस्फोटकान्

(घ) विलोम शब्द लिखिए-Write the opposite words.

(i) प्रायः

(ii) श्रेष्ठम्

(iii) निःसरन्ती

(iv)प्रामाणिकता

(v) मिष्ठान्नम्

(vi) रुग्णा जनाः

6.निम्नलिखित गद्यांश का अर्थ लिखिए-Write the meaning of the following passage.

एतत्विषयेऽपरेयं किम्वदन्ती अपि अस्ति यत् परस्परं सहयोगं समालम्ब्य समुद्रमंथने प्रवृत्तैः सुरासुरैः अस्मिन् एव दिवसे भगवती महालक्ष्मीः सागरमध्यान् निःसरन्ती समालोकिता। वस्तुतः अस्या एव किम्वदन्त्या प्रामाणिकता प्रतीयते यतः कार्तिक शुक्लपक्षे त्र्योदश्यां धनवन्तरे: चतुर्दश्यां सुरभि समुत्पत्ति वर्णिताः अस्ति। तदनन्तरम् अमावस्यायां भगवत्या महालक्ष्म्या आविर्भाव वर्णनमस्ति । अतएव दीपमालिकोत्सवः पञ्चदिवसात्मकः भवति।

Leave a Comment