पाठ 15 भागीरथी महिमा Dignity of bhagirathi

भागीरथी महिमा

गंगा भारतस्य सर्वासु नदीषु पवित्रतमा श्रेष्ठा च नदी अस्ति। इयं हिमालयस्य गंगोत्री-स्थानात् निर्गच्छति । तदा अस्याः स्रोतः लघुः भवति । पश्चात् अनेके निर्झराः अस्यां नद्याम् आमिलन्ति, यैः गंगायाः जलस्य प्रवाहः तीव्रः भवति । पर्वतस्य प्रान्तेभ्यः निःसृत्य गंगा हरिद्वार-नामके स्थाने समतलं भूभागं प्रविशति, तत्र हरिद्वारतीर्थे प्रतिवर्षं लक्षाणि पुरुषाः गच्छन्ति, गंगायाः शीतले जले स्नानं कुर्वन्ति। ते अमृतसमं जलं पीत्वा सुखम् अनुभवन्ति, निजभाग्यस्य प्रशंसां च कुर्वन्ति ।

IMG 20240224 093114 पाठ 15 भागीरथी महिमा Dignity of bhagirathi

गंगायाः उत्पत्ति-विषये इयं कथा प्रचलिता अस्ति यत् भागीरथः नाम नृपः स्वपूर्वजानाम् उद्धाराय तपस्याम् अकरोत्। तपस्यायाः प्रभावेण सः गंगाम् स्वर्गात् भूतलम् आनयत्। अतएव गंगाम् भागीरथी अपि कथयन्ति ।

गंगायास्तटे लक्ष्मणझूला, ऋषिकेशः, हरिद्वारम्, प्रयागः, वाराणसी च एतानि प्रधानानि तीर्थस्थानानि सन्ति, यत्र प्रतिदिनं सहस्राणि जनाः श्रद्धया स्नानं कुर्वन्ति, गंगाम् पूजयन्ति च। गंगायाः प्रवाहात् निस्सारिता: कुल्याः क्षेत्राणि सिंचन्ति, येन भूमिः उर्वरा भूत्वा प्रभूतम् अन्नम् उत्पादयति । धन्य एषा पुण्या महानदी गंगा ।

शब्दार्थाः

स्रोत = पानी का चश्मा (source),

 पूर्वजः = बुजुर्ग (forefathers), 

भूतलम् = पृथ्वी (earth), 

निर्झर: = निकलकर झरना (waterfall), 

कुल्या = नहर (canal), 

प्रवाह: = बहाव (flow),

 उर्वरा = उपजाऊ (fertile), 

निःसृत्य (rising), 

प्रभूतम् = खूब (too much), 

प्रशंसा = बड़ाई (praise), 

पुण्या = पवित्र (holy),

 उत्पत्ति = पैदाइश (birth)।

अभ्यास

1.निम्नलिखित प्रश्नों के संस्कृत में उत्तर दीजिए-

(a) गंगायाः भारताय के लाभाः सन्ति ?
(b) भूतले गंगा कः आनयत् ?
(c) जना: गंगायाः जले कथं स्नानं कुर्वन्ति ?
(d) गंगायास्तटे कानि तीर्थानि सन्ति ? नामानि कथयत ।

2.निम्नलिखित अनुच्छेदों का हिन्दी में अनुवाद कीजिए-

(a), गंगा भारतस्य सर्वासु………प्रशंसां च कुर्वन्ति ।
(b) गंगायाः उत्पत्ति-विषये………अपि कथयन्ति ।

3.निम्नलिखित शब्दों का वाक्यों में प्रयोग कीजिए-
स्रोतः,  प्रान्तेभ्यः,  लक्षाणि,  उद्धाराय,    श्रद्धया।
4.संस्कृत में अनुवाद कीजिए-

(a) भागीरथ तपस्या करके गंगा को भूतल पर लाये ।
(b) गंगा एक परम पवित्र नदी है।
(c) गंगा के जल में बहुत गुण हैं
(d) गंगा हिमालय के गंगोत्री स्थान से निकलती है।
(e) प्रतिदिन लाखों मनुष्य गंगाजल में स्नान करते हैं।

5.’गम्’ धातु के भूतकाल (लङ् लकार) में सभी पुरूषों व सभी वचनों में रूप लिखिए।

Leave a Comment