पाठ 3 मूर्खाय उपदेशों न दातव्य:Don’t teach the foolish

नर्मदातीरे एकः विशालः वृक्षः आसीत् । तत्र अनेके खगाः नीडानि रचयित्वा सुखेन अवसन् ।
एकदा महती वृष्टिः अभवत् । तस्मिन्नेव काले कश्चित् वानर: वृष्टिजलेन आर्द्रः कम्पितश्च सन् तत्र आगच्छत्। सः तस्य वृक्षस्य अधः उपाविशत् । शीतेन कम्पमानं तं वानरं दृष्ट्वा खगाः कष्टमन्वभवन्। ते तं वानरं करुणया अवदन्-“भो वानर ! त्वं कष्टम् अनुभवसि । त्वं किमर्थं स्वगृहं न रचयसि ?”

तेषां खगानां वचनानि श्रुत्वा सः वानरः
कुद्धोऽभवत् अचिन्तयत् च – “एते खगाः माम् उपहसन्ति।” तदनन्तरं सः वृक्षमारूह्य तेषां खगानां नीडानि खण्डशः कृत्वा भूमौ अक्षिपत् ।

उक्तञ्च-

उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये । पयः पानं भुजङ्गानां केवलं विषवर्धनम्।।

शब्दार्थाः

मूर्खाय = मूर्ख के लिए (to the fool), 
दातव्य:: = देना चाहिए (should be given), स्ववित्वा=बनाकर (having made),
 महती =भारी (heavy), 
वृष्टिः = वर्षा (rain), 
आर्द्र = गीला (drenched), 
कम्पितः =काँपता हुआ (trembling), 
अधः = नीचे (under), 
उपविश् = बैठना (sit), 
शीर्तेन = ठंड से (with cold), 
कम्यमानम् =काँपते हुए (trembling), 
कष्टम् = कष्ट (discomfort), 
अनुभवरिक = अनुभव करना (experience), किमर्थम् = क्यों (why)
, रचय् = बनाना (make), 
क्रुद्ध = क्रोधित (angry), 
उपहास = किसी पर हँसना (laugh at), 
आरहा = चढ़कर (having climbed), 
खण्डशः कृत्वा = टुकड़े करके (having turn into pieces), 
प्रकोपाय = क्रोध (rage), 
फ्य: पानम् - दूध पीना (drink milk),
 विषवर्धनम् = विष बढ़ाने के लिए (to increase poison), 
भुजङ्गानाम् = सांपों के लिए (for the snakes)।

अभ्यास

1.निम्नलिखित प्रश्नों के संस्कृत में उत्तर दीजिए-
(a) वृक्षे के अवसन् ?
(b) खगाः किं दृष्ट्वा कष्टमन्वभवन् ?
(c) खगाः वानरं किम् अकथयन् ?
(d) वानरः किम् अचिन्तयत् ?

2.रिक्त स्थानों की पूर्ति कीजिए-

वसन्ति,  अपश्यत्,  आरूह्य,   वृष्टिजलेन,   उपविशति

a) सुनीलः कम्पमानं वानरम्…………।
(b) छात्रा:……..आर्द्राः अभवन् ।
(c) बाल: वृक्षम्………….तस्य शाखायाम् उपविशत् ।
(d) नीडेषु खगाः…………।
(e) एकः वानरः वृक्षस्य अधः……………।

3.संस्कृत में अनुवाद कीजिए-
(a) तुम अपना घर क्यों नहीं बनाते ?
(b) बन्दर ने पक्षियों के घोंसले फेंक दिए ।
(c) अध्यापक क्रोधित हो गए।
(d) उसने कष्ट का अनुभव किया।
(e) पक्षी वहाँ सुख से रहते थे।

Leave a Comment