दुर्गापूजा (Durga-Pooja) – षोडशः पाठ:

सम्पूर्ण संसारे सर्वेष्वपि देशेषु उत्सवाः प्रचलन्ति। एतामेव परिपाटीम् अनुसृत्य भारतवर्षे विविधाः उत्सवा भवन्ति तेषु एषा दुर्गा पूजा महोत्सवः मुख्यतमा अस्ति।

दुर्गा
दुर्गा की नौ रूपों में पूजा की जाती है। ये नौ देवियाँ हैं- शैलपुत्री, ब्रह्मचारिणी. चंद्रघंटा, स्कंदमाता, कूष्माण्डा, कात्यायनी, कालरात्रि (काली), महागौरी और सिद्धिदात्री।

दुर्गापूजा हिन्दूनां महोत्सवः अस्ति। शरत्काले आश्विन मासे इयं पूजा सम्पूर्णे भारते श्रद्धया आनन्देन च सम्पादिता भवति। शरत्काले भगवत्या महापूजा भवतीति नियमम् अनुसृत्य समस्तेऽपि भारते धर्मनिष्ठाः आस्तिकाः जनाः नवरात्रमहोत्सवे भगवत्या समार्चनं कुर्वन्ति ।
दुर्गापूजायाः विषये अनेकाः कथाः प्रचलिताः सन्ति। श्रूयते यत् रावणेन सह प्रवृत्ते महासंग्रामे यदा श्रीरामचन्द्रेण विजयावाप्तिः न अलभत्। तदा शक्तिसंचयार्थं तेन नवरात्रेऽस्मिन् समाराधिता भगवतीं दुर्गाम् अकरोत्। ततो श्रीरामचन्द्रस्य भक्ति-भावनया प्रसन्नया तया यो वरम् अददात् तद्बलेनैव रावणस्य समूलं विनाशं कृतवान्। लंकायाः च विजयं प्राप्तवान्। तस्य विजयस्य स्मरणाय प्रतिवर्षं दिवसेऽस्मिन् भगवती श्री अपराजितां दुर्गां पूजयन्ति । यस्या पूजनेन मानवस्य कुत्रापि पराजयों न भवति । सर्वत्र सर्वदा च विजयस्य प्राप्त्याः मानवाः प्रसन्नताम् एव अनुभवति।
अस्मिन्नवसरे अनेकेषु स्थानेषु प्रतिवर्षं रामलीलायाः प्रदर्शनं भवति। पूजायाः अन्तिमः दिवसः ‘विजयदशमी’ इति कथ्यते जनाः।
अपरे वदन्ति जनाः यत् अस्यां दशम्यां तिथौ देवी अपराजिता दुर्गा महिषासुरनामकं राक्षसं हतवती। अतः सर्वत्र दुर्गायाः महिषमर्दिनी प्रतिमा प्रतिष्ठिता पूजिता भवति । देवीप्रतिमाः पूजास्थलानि चोत्तमरीत्या सज्जितानि भवन्ति। जनाः दुर्गायाः स्तवान् पठन्ति हवनं च कुर्वन्ति। बहुषु स्थलेषु संगीतनृत्यादयः मनोरंजकाः कार्यक्रमाः आयोजिताः भवन्ति। जनाः नूतनानि वस्त्राणि धारयन्ति। विविधानि मधुराणि खादन्ति खादयन्ति च।
बंगप्रान्ते अस्या महत्वम् अन्यविधम् एव अस्ति। बंगभूमिः प्रायः विद्यते भगवत्या आद्यशक्तेः समाराधने संलग्नाः भवन्ति। ते अष्टम्यां सरस्वती-महालक्ष्मी शोभितायाः दुर्गायाः प्रतिमाः समर्चयन्ति गृहे-गृहे । अनन्तरं च दशम्यां महता समुत्सवेन विसर्जनं कुर्वन्ति जले।
हिन्दुमत्यानुसारेण दुर्गा आदिशक्तिः जगज्जननी चास्ति। तस्या प्रसादेन अधर्मः नश्यति धर्मः जयति च। एतया पूजया जनेषु आत्मविश्वासः उत्साहः धार्मिक-भावना भातृभावश्च संवर्धिताः भवन्ति। विजयस्य प्रतीकम् अस्ति इयं दुर्गा पूजा ।

शब्दार्थाः

अनुसृत्य = अनुसरण करके following

शरत्काले = शरत् ऋतु में in autumn

श्रद्धया = निष्ठा से विश्वास से with strong faith

सम्पादिता (सम् + पद) = मनायी जाती है celebrated, organised

आस्तिका जनाः = ईश्वर में आस्था रखने वाले लोग the piousmen

अनेकाः कथाः = अनेक कथाएँ many tales

विजयावाप्तिः = विजय की प्राप्ति the getting of victory

शक्तिसंचयार्थं = ताकत प्राप्त करने के लिए for getting energy

भक्ति भावनया = भक्ति की भावना के द्वारा/से with the feeling of the devotion

समूलं विनाशं = सम्पूर्ण (जड़ सहित) विनाश complete destruction

रामलीलायाः = राम के चरित्र का the character of Rama

अनुभवति = अनुभव करता है feels

दशम्यां तिथौ = दसवीं तिथि को/पर on the tenth day

महिषमर्दिनी = महिषासुर को मारने वाली killer of Mahishasura

प्रतिष्ठिता (प्र + स्था ) = विधिवत् स्थापित ceremoniously installed

चोत्तमरीत्या सज्जितानि (च + उत्तमरीत्या सज्जितानि) = और उत्तम विधि से सजाए हुए and in a befitting decorated manner

धारयन्ति = धारण करते हैं wear, put on

मधुराणि = मिठाइयाँ sweets

अन्यविधम् = सरी विधि से from other manner

संलग्नाः भवन्ति = संलग्न होते हैं are attached

आदिशक्तिः = शुरूआती ताकत the primal strength

जगज्जननी = संसार की माता mother of the world

भातृभावश्च संवर्धिताः = भाईचारा भी बढ़ते रहे cure increasing brotherhood also।

कार्य-कालम्

1.निम्नलिखित प्रश्नों के संस्कृत में उत्तर दीजिए- (Answer the following questions in Sanskrit)

(क) दुर्गा पूजा कदा भवति ?

(ख) कस्याः प्रसादेन श्रीरामः रावणस्य समूलं विनाशं कृतवान्?

(ग) प्रतिमाः कुत्र विसर्जिताः भवन्ति ?

(घ) देवी दुर्गा कं हतवती ?

(ङ) देवीप्रतिमा कीदृशानि सज्जितानि भवन्ति ?

2.निम्नलिखित वाक्यों का संस्कृत में अनुवाद कीजिए-
(Translate the following sentences into Sanskrit)—

(क) भारत त्योहारों का देश है।

(ख) इसकी पूजा सम्पूर्ण भारत में श्रद्धा और आनन्द से होती है।

(ग) पूजा के अन्तिम दिन सिद्धिदात्री की पूजा होती है।

(घ) देवी दुर्गा विजय की प्रतीक है।

(ङ) मनुष्य दुर्गा की स्तुति करते हैं।

3.निम्नलिखित विशेषणों को पाठानुसार उचित विशेष्यों से संयुज कीजिए—
(Match the following adjectives with suitable nouns as used in the lesson)

विशेषण ➡️ विशेष्य
दशम्याम् ➡️ कथा
मनोरंजकाः ➡️ तिथौ
प्रतिष्ठिता ➡️ प्रतिमा
जगज्जननी ➡️ कार्यक्रमाः
अनेकाः ➡️ दुर्गा

4.वाक्य प्रयोग के द्वारा युग्म शब्दों का अंतर स्पष्ट कीजिए-
(Differentiate the words of pairs by using them in sentences)—

शब्द युग्म वाक्य प्रयोग
(क) धर्मः ………….
अधर्मः …………

(ख) जय: ………….
पराजयः ………….

(ग) खादन्ति …………
खादयन्ति …………

(घ) गच्छन्ति ………….
आगच्छन्ति ………….

(ङ) पूजति ………..
पूजयति ………..

Leave a Comment