गीतावचनामृतानि – पञ्चदश: पाठ: Geetavachanamritani

त्वमादिदेवः पुरुषः पुराणः,
त्वमस्य विश्वस्य परं निधानम् ।
वेत्तासि वेदयं च परं च धाम,
त्वया ततं विश्वमनन्तरूप ।। 1 ।।

यदा यदा हि धर्मस्य ग्लानिर्भवति भारत । अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ।। 2 ।।

परित्राणाय साधूनां विनाशाय च दुष्कृताम् । धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ।।3।।

सुखदुःखे समे कृत्वा, लाभालाभौ जयाजयौ । ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ।।4।।

वासांसि जीर्णानि यथा विहाय,
नवानि गृह्णाति नरोऽपराणि ।
तथा शरीराणि विहाय जीर्णा –
न्यन्यानि संयाति नवानि देही ।।5।।

नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः ।
न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ।।6।।

कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ।मा कर्मफलहेतुर्भूः मा ते सङ्गोऽस्त्वकर्मणि।।7।।


शब्दार्थाः



परम् = सबसे बड़े ।

वेत्ता = जानकार।

वेद्यम् = जानने योग्य।

ततम् = फैलाया।

ग्लानिः = हानि।

अभ्युत्थानम् = बढ़ना, वृद्धि।

संस्थापनार्थाय = स्थापना के लिए ।

सङ्ग = आसक्ति ।

अकर्मणि = अकर्म में।

दुष्कृताम् = पापियों के।

आत्मानम्= अपने आपको।

सृजामि = पैदा करता हूँ, प्रकट करता हूँ।

परित्राणाय = रक्षा करने के लिए।

सम्भवामि =उत्पन्न होता हूँ।

कर्मणि = कर्म में |

कदाचन = कभी ।

जीर्णानि = पुराने ।

विहाय = त्यागकर, छोड़कर।

वासांसि =कपड़े।

संयाति = जाता है, प्रवेश करता है।

देही = आत्मा (जो शरीर में रहे)।

दहति = जलाता है।

आपः = जल ।

क्लेदयन्ति = गीला करता है।

शोषयति = सुखाता है।

युज्यस्व = तैयार हो जाओ।

अवाप्स्यसि = पाओगे, प्राप्त करोगे ।

शस्त्राणि = हथियार ।

छिन्दन्ति = काटते हैं।

युज्यस्व = तैयार हो जाओ।

अन्वय:


1- हे अनन्तरूप! त्वं आदिदेवः, पुराणः पुरुषः (असि) त्वम् अस्य विश्वस्य परं निधानम् (असि) त्वं वेत्ता वेद्यं च (असि) त्वं परं धाम (असि) (हे अनन्तरूप!) त्वया विश्वं च ततम् ।

2- हे भारत! यदा यदा हि धर्मस्य ग्लानिः (भवति) अधर्मस्य अभ्युत्थानं भवति तदा अहम् आत्मानं सृजामि।

3- (अहं) युगे युगे साधूनां परित्राणाय, दुष्कृतां विनाशाय, धर्मसंस्थापनार्थाय च सम्भवामि।

4- लाभालाभौ, जयाजयौ, सुखदुःखे समे कृत्वा ततः युद्धाय युज्यस्व । एवं पापं न अवाप्स्यसि।

5 यथा नरः जीर्णानि वासांसि विहाय अपराणि नवानि (वासांसि) गृह्णाति तथा देही जीर्णानि शरीराणि विहाय नवानि (शरीराणि) संयाति ।

6- शस्त्राणि एनं न छिन्दन्ति, पावकः एनं न दहति । आपः एनं न क्लेदयन्ति, मारुतः एनं न शोषयति

7-कर्मणि एव ते अधिकारः फलेषु कदाचन मा । त्वं कर्मफलहेतुः मा भूः । अकर्मणि ते सङ्गः अपि मा अस्तु ।

अभ्यासः


1- उच्चारणं कुरुत पुस्तिकायां च लिखत-
पुरूष: अभ्युत्थानमधर्मस्य विश्वमनन्तरूप धर्मसंस्थापनार्थाय सङ्गोऽस्त्वकर्मणि कर्मफलहेतुर्भूः वेत्तासि सृजाम्यहम्

2- एकपदेन उत्तरत-

(क) पुराणः पुरुषः कः ?
(ख) अस्माकं कुत्र अधिकारः अस्ति ?
(ग) केषां परित्राणाय ईश्वरः सम्भवति ?
(घ) शस्त्राणि कं न छिन्दन्ति ?

3- पूर्णवाक्येन उत्तरत-

(क) परमात्मा आत्मानं कदा सृजति ?
(ख) कम् आपः न क्लेदयन्ति ?
(ग) जीर्णानि शरीराणि विहाय कः संयाति ?
(घ) पावकः कं न दहति ?

4- निम्नाङ्कित-पदेषु सन्धिं कृत्वा तस्य नाम लिखत-

सन्धिःनाम
बालकः+अवदत्बालकोऽवदत्पूर्वरूपसन्धिः
नरः+अपराणि………….……….
वेत्ता+असि…………..……….
कर्मणि+एव………….………..
ग्लानिः+भवति……………………
सृजामि+अहम्……………………
5-अधोलिखित-पदेषु शब्दं विभक्तिं वचनं च लिखत-
पदम्शब्द:विभक्तिःवचनम्
त्वम्युष्मद्प्रथमाएकवचनम्
साधूनाम्…….……………….
धर्मस्य…….……….………
फलेषु…….……….……….
आत्मानम्……..……….……….
शरीराणि…….……….……….

6- अधोलिखित-विशेष्यैः सह विशेषणानि योजयत –
विशेष्यम्विशेषणम्
शरीराणिजीर्णानि
पुरुषःपुराणः
निधानम्परं
7- संस्कृतभाषायाम् अनुवादं कुरुत-

(क) जल इसको गीला नहीं करता है।
(ख) धर्म की स्थापना के लिए मैं जन्म लेता हूँ।
(ग) सुख-दुःख को समान मानकर युद्ध के लिए तैयार हो।

स्मरणीयम्-

महात्मा गान्धिमहाशयः गीताविषये एवं वदति-

गीता तत्त्वोपदेशग्रन्थमात्रं न । इदं महत्त्वपूर्ण धर्मविषयकं किंचन काव्यम् । यः अत्र यथा यथा अधिक गाहते तथा तथा पुष्कलः अर्थः तेन प्राप्यते। इदं महान्तं जनसमूहं उद्दिश्य एवं रचितम् । अत्र रुचिरा पुनरुक्तिः दृश्यते।”

संस्कृत-भारती कक्षा – 8 Sanskrit Bharti Class-8


Leave a Comment