ग्राम्यजीवनम् – अष्टम: पाठ:

ग्राम्यजीवनं सुव्यवस्थितं भवति । ग्रामे प्रायेण सर्वे स्वस्थाः भवन्ति । वनेषु नगरेषु च तथा जीवनं न भवति । वस्तुतः ग्रामाः वननगरयोः मध्ये सन्ति । ग्रामीणाः जनाः प्रायेण कृषीवला: भवन्ति। ते च प्रातःकालात् सायं यावत् क्षेत्रेषु कर्म कुर्वन्ति । क्षेत्राणि सेक्तुं वारिणा पूर्णाः कुल्याः भवन्ति । कृषकाः क्षेत्राणि हलेन कर्षन्ति । कुल्याजलेन तानि सिञ्चन्ति, तत्र बीजानि वपन्ति च ।

ग्रामान् परितः शस्यश्यामला धरित्री राजते । परिश्रमशीलाः ग्रामीणाः धान्यादिकम् उत्पादयन्ति । वैज्ञानिकोपकरणानां साहाय्येन इदानीं कृषिव्यवसायः लाभप्रदः सञ्जातः ।

ग्रामपथिकानां गोपालानां च संगीतेन हृदयं प्रसन्नं भवति। वृक्षाः निःस्वार्थमेव फलं छायां च प्रयच्छन्ति । ग्रामे शुक-कपोत- मयूर – कोकिलादयः पक्षिणः कूजन्ति । अश्व-गो-महिष-मेषादयः पशवः च चरन्ति । ग्रामेषु मनोरञ्जनम् अल्पव्ययसाध्यं भवति । धूलिधूसरिताः बालकाः विविधां क्रीडां कुर्वन्ति जीवनरक्षणार्थम् अत्यन्तमुपयोगिनः वायुजलादिकाः ग्रामेषु प्रचुरं यथा लभ्यन्ते तथा न नगरेषु।

ग्राम्य-जीवनं सदाचारसम्पन्नं धार्मिकं च भवति। ग्रामवासिनां मनांसि निर्मलानि भवन्ति । तत्रत्यं वातावरणं स्वच्छं भवति। प्राचीनकाले ग्रामेषु तथाविधं शिक्षालय-चिकित्सालयादीनां सौविध्यं नासीत् यथा अद्यास्ति, तथापि अधुना ग्रामेषु सकलानि साधनानि यदि उपलब्धानि भवेयुः तर्हि ग्राम्यजीवनम् इतोऽपि सुकरं सुखकरं च भविष्यति । तदर्थं ग्राम-निवासिभिः प्रयत्नः विधेयः ।

शब्दार्थाः

कृषीवलाः = किसान।

क्षेत्रेषु = खेतों में।

वपन्ति = बोते हैं।

कूजन्ति = कूजते हैं।

राजते = सुशोभित होती है।

वारिणा = जल से।

कुल्या = नहर ।

कर्षन्ति = जोतते हैं।

परितः = चारों ओर ।

प्रयच्छन्तः = प्रदान करते हुए।

शस्यश्यामला =फसलों से हरित ।

सम्भूय = एक होकर।

तत्रत्यं = वहां का।

सौविध्यम् = सुविधा।

सुकरम् = सरल।


अभ्यासः


1- उच्चारणं कुरुत पुस्तिकायां च लिखत

सुव्यवस्थितम् निःस्वार्थमेव साहाय्येन सौविध्यम् जीवनरक्षणार्थम् अल्पव्ययसाध्यम् ।


2- एकपदेन उत्तरत-

(क) कृषकाः क्षेत्राणि केन कर्षन्ति ?

(ख) निःस्वार्थमेव फलं छायाञ्च के प्रयच्छन्ति ?

(ग) ग्रामेषु अल्पव्ययसाध्यं किं भवति ?

(घ) ग्रामनिवासिभिः सम्भूय किं विधेयम् ?


3- पूर्णवाक्येन उत्तरत-

(क) ग्राम्यजीवनं कीदृशं भवति ?

(ख) क्षेत्रेषु जनाः कदा कार्यं कुर्वन्ति ?

(ग) प्राचीनकाले ग्रामेषु केषां सौविध्यं नासीत् ?

(घ) ग्राम्यजीवनं सुकरं कदा भविष्यति ?

4- मञ्जूषातः क्रियापदानि चित्वा वाक्यानि पूरयत-

(क) ग्राम्यजीवनं सुव्यवस्थितम् भवति

(ख) कृषकाः क्षेत्राणि हलेन कर्षन्ति

(ग) ग्रामे शुक-कपोत-मयूर – कोकिलादयः पक्षिणः कूजन्ति

(घ) परिश्रमशीलाः ग्रामीणाः धान्यादिकम् उत्पादयन्ति

(ङ) वायुजलादिकाः ग्रामेषु प्रचुरं लभयन्ते

5- संस्कृतभाषायाम अनुवादं कुरुत –

(क) गांव में लोग प्राय: स्वस्थ होते हैं।

(ख) गाँव कृषिप्रधान होता है।

(ग) किसान खेत की जुताई करता है।

(घ) किसान अन्न उपजाता है।

6- रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत –

(क) ग्रामे प्रायेण सर्वे स्वस्थाः भवन्ति ।

(ख) ग्रामं परितः शस्यश्यामला धरित्री राजते ।

(ग) धूलिधूसरिताः बालकाः विविधां क्रीडां कुर्वन्ति ।

(घ) ग्रामवासिनां मनांसि निर्मलानि भवन्ति ।


7- शुद्धकथनस्य समक्षम् ‘आम्’ अशुद्धकथनस्य समक्षम् ‘न’ इति लिखत –

(क) ग्रामपथिकानां गोपालानां सङ्गीतेन हृदयं प्रसन्नं भवति ।

(ख) वैज्ञानिकोपकरणानां साहाय्येन कृषिव्यापारः हानिकरः सञ्जातः ।

(ग) ग्राम्यजीवनं सदाचार-सम्पन्नं धार्मिकञ्च भवति ।

(घ) विकासाय ग्रामवासिभिः सम्भूय प्रयत्नः न विधेयः ।


ग्राम्योपयोगी – शब्दाः

आँगन = अजिरम् ।

कोठरी = लघुकक्षः ।

खपड़ा = खर्परः ।

खूँटी = नागदन्तः ।

खिड़की = गवाक्षः ।

झोपड़ी = उटजः।

नाली = प्रणाली ।

दीवार = भित्तिः ।

सीढ़ी = सोपानम् ।

किवाड़ = कपाटम् ।

आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः ।

Leave a Comment