पाठ 4 स्वतन्त्रता दिवस: Independence day

अस्माकं देशः 1947 ई० तमे अगस्तमासस्य पञ्चदशः दिनाङ्के स्वतन्त्रः अभवत्

अतः प्रतिवर्षम् अस्मिन् दिनाङ्के स्वतन्त्रतादिवसस्य विद्यालयस्य उत्सवः भवति । सर्वे छात्राः प्रात: काल विद्यालयं गच्छन्ति ।विद्यालयस्य प्रधानाचार्य :राष्ट्रध्वजम् आरोहयति। छात्राः राष्ट्रगीतं गायन्ति । ततः प्रधानाचार्यः संदेशान् पठति ।अध्यापकाः छात्राः सेवकाः च स्वतन्त्रता-दिवसस्य महत्त्वं वर्णयन्ति ।

सभायाः अनन्तरं छात्राः क्रीडास्थलं गच्छन्ति । तत्र विविधानि क्रीडायाः आयोजनं भवति । अन्ते शिक्षकाः छात्रेभ्यः मिष्ठानानि वितरन्ति सायंकाले
सांस्कृतिक-कार्यक्रमस्य आयोजनं भवति । रात्रौ जनाः दीपकैः स्वगृहाणि भूषयन्ति । अयम् उत्सवः देशस्य राजधान्यां विशेषरूपेण आयोज्यते। देशस्य प्रधानमन्त्री लालकिलायाः प्राचीरे राष्ट्रध्वजम् आरोहयति । अस्मिन् अवसरे विदेशीयाः राजनेतारः अपि उपस्थिताः भवन्ति । अयम् अस्माकं गौरवस्य उत्सवः अस्ति ।

शब्दार्थाः

अस्माकम् = हमारा (ours), 
अभवत् = हुआ (had), 
अतः = इसलिए (so), 
आरोहयति = फहराते हैं  (hoists), 
गायन्ति = गाते हैं (sings), 
वर्णयन्ति = वर्णन करते हैं (describes), 
विविधानि =, अनेक प्रकार के (many  kind), वितरन्ति = बाँटते हैं (distribute), 
अन्ते = बाद में (in the end), 
भूषयन्ति = सजाते हैं (decorates), 
अयम् = यह (this)।

अभ्यास

1. निम्नलिखित प्रश्नों के संस्कृत में उत्तर दीजिए

(a) स्वतन्त्रतादिवसस्य उत्सवः कदा भवति ?

(b) सर्वे छात्राः प्रात:काले कुत्र गच्छन्ति ?
(c) प्रधानाचार्य: किम् आरोहयति ?
(d) छात्राः किं गायन्ति ?

2. स्थानों की पूर्ति कीजिए-


क्रीडास्थलम्, उत्सव:, संदेशान्, शिक्षिकाः


(a) ततः प्रधानाचार्य:………पठति ।
(b) सभायाः अनन्तरं छात्राः…………गच्छन्ति ।
(c)…………छात्रेभ्य: मिष्ठानानि वितरन्ति ।
(d) अयम् अस्माकं गौरवस्य…….अस्ति ।

3.हिन्दी में अनुवाद कीजिए-
(a) अतः प्रतिवर्षम् अस्मिन् दिनाङ्के स्वतंत्रतादिवसस्य विद्यालयस्य उत्सवः भवति ।
(b) तत्र विविधानि क्रीडायाः आयोजनं भवति ।
(c) अयम् उत्सवः देशस्य राजधान्यां विशेषरूपेण आयोज्यते ।
(d) देशस्य प्रधानमन्त्री लालकिलायाः प्राचीरे राष्ट्रध्वजम् आरोहयति ।

4.संस्कृत में अनुवाद कीजिए
(a) सभी छात्र प्रात:काल विद्यालय जाते हैं ?
(b) विद्यालय के प्रधानाचार्य राष्ट्रध्वज फहराते हैं।
(c) शाम के समय सांस्कृतिक कार्यक्रमों का आयोजन होता है।
(d) इस अवसर पर विदेशी राजनेता भी उपस्थित होते हैं।

Leave a Comment