पाठ 18 विद्याया: बुद्धिरुत्तमा Intellect is greater than learning

विद्याया: बुद्धिरुत्तमा

कस्मिंश्चिद् जनपदे चत्वारो ब्राह्मणपुत्राः वसन्ति स्म। ते परस्परं मित्राणि आसन् । तेषु त्रयः शास्त्रेषु निष्णाताः परन्तु बुद्धिरहिताः आसन् । एकस्तु शास्त्रपराङ्मुखः परं बुद्धिमान् आसीत् । अथ तैः एकदा मन्त्रितम् – ” को गुणो विद्यायाः येन देशान्तरं गत्वा भूपतीन् परितोष्य अर्थोपार्जनं न क्रियते। अतः एतद् वरं यदिवयं देशान्तरं गत्वा अर्थोपार्जनं कुर्याम ।”

IMG 20240224 154735 पाठ 18 विद्याया: बुद्धिरुत्तमा Intellect is greater than learning


मार्गे किञ्चद् दूरं गत्वा एकस्मिन् स्थले उपविश्य ते परस्परं वार्तालापं कृतवन्तः । तेषां ज्येष्ठः सुबुद्धिकथयत्- “ अस्माकं मध्ये त्वमेव शास्त्रपराङ्मुखः केवलं बुद्धिमान् अस्ति। न त्वं राज्ञः धनं लब्धुं योग्योऽसि । वयं स्वापार्जितं धनं तुभ्यं न दास्यामः । अतः त्वं स्वगृहं गच्छ ।”


द्वितीयः तमवदत् -“सुबुद्धे ! गच्छ त्वं स्वगृहं यतः ते विद्या नास्ति ।” ततस्तृतीयेन कथितम्–“अहो ! एवं कर्तुं न युज्यते यतो वयं बाल्यात् प्रभृति मित्राणि स्मः । आगच्छ त्वमपि अस्माभिः उपार्जितस्य धनस्य समभागी भविष्यसि ।”

मार्गे गच्छन्तः ते अरण्ये कस्यचिद् मृतसिंहस्य अस्थीनि अपश्यन् । ततश्च एकेन उक्तम्–“अहो ! अद्य विद्याप्रत्ययः क्रियताम् ।” एकः अस्थिसंचयमकरोत्। द्वितीयेन चर्ममांसरुधिरं संयोजितम्। यदा तृतीयः जीवं संचारयितुम् उद्यतोऽभवत् तदैव सुबुद्धिः तं न्यवारयत् अकथयच्च “एषः सिंहः क्रियते। सः सर्वान् अस्मान् हनिष्यति ।” तृतीयः सुबुद्धिं प्रत्यवदत्-“धिङ् मूर्ख! नाहं विद्या विफलां करोमि।” सुबुद्धि पुनरकथयत- “तर्हि प्रतीक्षस्व क्षणं यावदहं वृक्षमारोहामि ।” तथानुष्ठिते यावत्सिंहः सजीवः कृतः तावत् सः उत्थाय तान् हतवान् । सुबुद्धिस्तु वृक्षातवतीर्य गृहं गतः ।

सुष्ठुक्तम्
वरं बुद्धिः न सा विद्या विद्याया बुद्धिरुत्तमा ।

बुद्धिहीना विनश्यन्ति यथा ते सिंहाकारकाः ।।

शब्दार्थाः

जनपदे=नगर में (in a town), 
निष्णाता: = पारंगत (well-versed),
 परितोष्य = सन्तुष्ट करके (having satisfied), शास्त्रपराङमुखः = शास्त्रों से विमुख (Averse to scriptures), 
अरण्ये = वन में (in a forest), 
अर्थोपार्जनम् = धन कमाना (earning money), उत्थाय उठकर (having risen), 
प्रतीक्ष = प्रतीक्षा करना (wait),
अवतीर्य = उतरकर (having climbed down), निवारय् = रोकना (stop), 
विद्याप्रत्ययः = विद्या का परीक्षण (testingof one's learning),
 सिंहकारकाः = शेर को जिलाने वाला (revivers of the lion's life)।

अभ्यास

1.निम्नलिखित प्रश्नों के संस्कृत में उत्तर दीजिए-

(a) जनपदे कति ब्राह्मणपुत्राः वसन्ति स्म ?
(b) ब्राह्मणपुत्रैः किं मन्त्रितम् ?
(c) तृतीयेन ब्राह्मणपुत्रेण किं कथितम् ?
(d) ब्राह्मणपुत्राः मार्गे किम् अपश्यन् ?

2.सही शब्दों का प्रयोग करते हुए निम्न वाक्यों को पुनः लिखिए-
(a) वयं……………(बाल्य/बाल्यात्) प्रभृति मित्राणि स्मः ।
(b) सुबुद्धि……………(वृक्षात/बाल्यात्) अवतीर्य गृहम् अगच्छत्।
(c) चत्वारः ब्राह्मणपुत्राः……….(देशान्तरं / देशान्तराद्) अगच्छन्।
(d) तेषां…………….(त्रयः/एकः) बुद्धिरहिताः आसन् ।

3.निम्नलिखित शब्दों के अर्थ बताइए-
अस्थिसंचयम्…………………,..l
भूपतीन्………………………….l
वार्तालापम्………………………l
समभागी…………………………l
सुष्ठु……………………………….l

Leave a Comment