पाठ 8 विज्ञानस्य आविष्कारा: Inventions of Science

विज्ञानस्य आविष्कारा:

एतद् ध्वनिविस्तारकं यन्त्रमस्ति । अस्य सहायतया वयं प्रतिदिनं विविधं कार्यक्रमं श्रोतुं समर्थाः भवामः । एतेन स्वदेशस्य विदेशानां च नवीनान् समाचारान् विविधानां जनानां भाषणानि, क्रीडाक्षेत्रस्य समाचारं, विविधाः वार्ता: संगीतं च आकर्णयामः ।

एतद् दूरदर्शनमस्ति । अस्य साहाय्येन गृहे स्थिताः जनाः अपि देशस्य विदेशानां च दृश्यसहितान् नवीनान् विविधान् च समाचारान्, चलचित्राणि अनेकान् च अन्यान् मनोरंजकान् कार्यक्रमान् श्रोतुं द्रष्टुं च प्रभवन्ति ।


एषः दूरभाषः अस्ति। अनेन दूरभाषेण जनाः एकस्मिन् एव स्थाने स्थिताः सन्तः अन्येषु स्थानेषु विदेशेषु च स्थितैः बन्धुभिः मित्रैः च सह वार्तालापं कर्तुं समर्थाः भवन्ति ।


एतद् वायु-यानमस्ति । एतद् द्रुतगत्या आकाशे उत्पतति। एतेन जनाः स्वल्पेनैव कालेन आकाशमार्गेण दूरस्थानं विदेशं
वा गन्तुं समर्थाः भवन्ति ।


एतद् रॉकेट-यन्त्रमस्ति । अस्य गतिः वायुयानात् अपि द्रुततरा अस्ति । अस्य सहायता मानव: चन्द्रग्रहं गन्तुं समर्थोऽभवत्।

एतत् शीतकमस्ति । अस्मिन् निधापितानि शाक-फलादीनि
भोज्यवस्तूनि शीतलानि तिष्ठन्ति पर्युषितानि च न भवन्ति । ग्रीष्मर्तौ अस्य महान् उपयोगः भवति ।

शब्दार्थाः

ध्वनिविस्तारकम् = रेडियो (radio), 
यन्त्रम् = उपकरण (mechanical device), सहायतया =सहायता से (with the help),
 श्रोतुम् = सुनने के लिए (to listen), 
स्वदेशस्य अपने देश के (of one's own country), 
विदेशानाम् = विदेशों के (of foreign countries), समाचारान् = समाचारों को (news), 
वार्ता:= चर्चाएँ (talks, dicoures), 
चलचित्राणि = फिल्में (films), 
आकर्ण्य = सुनकर (listen, hear), 
मनोरंजकान् = मनोरंजक ( entertaining), दृश्यसहितान् = दृश्यसहित (along with pictures), 
द्रष्टुम् = देखने में (to watch, to see), 
प्रभव् समर्थ होना (be able),
 दूरभाष: = टेलिफोन (telephone),
 बन्धुभिः = सम्बन्धियों से (with relatives), द्रुतगत्या = तीव्र गति से (at high speed),
 द्रुततरा अत्यधिक तीव्र (at a higher speed), 
गन्तुम् = पहुँचने के लिए (to reach), 
शीतकम् = रेफ्रीजरेटर (refrigerator), निधापितानि = रखे हुए (kept), 
शाकफलादीनि = सब्जियां और फल आदि (vegetables, fruits, etc.), 
भोज्यवस्तूनि = खाद्यपदार्थ, 
शीतलानि = ठंडे (cold), 
पर्युषितानि = बासी (stale)।

अभ्यास

1.निम्नलिखित प्रश्नों के संस्कृत में उत्तर दीजिए-

(a) जनाः ध्वनिविस्तारकेण किम् आकर्णयन्ति ?
(b) वायुयानं केन मार्गेण गच्छति ?
(c) रॉकेट-यन्त्रेण मानवः कुत्र गन्तुं समर्थोऽभवत् ?
(d) शीतकस्यः कः उपयोगः भवति: ?
(e) दूरभाषस्यः कः उपयोगः भवति ?

2.रिक्त स्थानों की पूर्ति कीजिए-

वायुयानात्,    शाकफलादीनि,    वार्तालापं,   दूरदर्शने, द्रुतगत्या


(a) एतद्…………आकाशे उत्पतति।
(b) वयं…………….चलचित्राणि पश्यामः ।
(c) शीतके निधापितानि…………….पर्युषितानि न भवन्ति ।
(d) दूरभाषेण जना: मित्रैः सह………..कर्तुं समर्थाः भवन्ति।
(e) अस्य गतिः…………अपि द्रुततरा अस्ति ।

3.संस्कृत में अनुवाद कीजिए-
(a) मोहन रेडियो से समाचार सुनता है।
(b) तुम टेलीफोन द्वारा मित्र से बातें कर रहे हो ।
(c) क्या तुम्हारे घर में फ्रिज है ?
(d) यह एक रेडियो है।

4.पठ्’ धातु लट्लकार में सभी पुरुष व सभी वचनों के रूप लिखिये ।

Leave a Comment