किं तर्तुं जानाति भवान् ? – षष्ठ: पाठ:

विश्वविद्यालयस्य कश्चित् प्राध्यापकः विहर्तुं नावम् आरूढः । नावा जलविहारं कर्तुं तस्य प्रथमोऽयमवसरः आसीत् । बालसूर्यस्य किरणानां जलक्रीडाम्, वीचीनां नर्तनम्, अम्भसाम् अपारराशिम्, अरित्रमाध्यमेन नौकायाः अग्रेसारणम् इत्यादि दृश्य दृष्ट्वा सः नाविकम् एवम् अपृच्छत्-
प्राध्यापकः – भो नाविक ! किं भवता कदापि गणितं
पठितम् ?
नाविक: – न पठितम् ।
प्राध्यापकः – किं गणितं पठितुं विद्यालयं न गतवान् ।
नूनं भवतः जीवनस्य चतुर्थाशः व्यर्थतां गतः। भवता रसायनशास्त्रं भौतिकशास्त्रं वा पठितं स्यात् ।
नाविकः – ईदृशं मे भाग्यं कुतः ? यदहं भौतिक- शास्त्रं रसायनशास्त्रं वा पठेयम् ।
प्राध्यापकः – नूनं त्वया अर्धाशः जीवनस्य व्यर्थतां
नीतः। वद वद त्वया आंग्लभाषा तु पठिता स्यादेव ?
नाविकः – (ग्लानिम् अनुभवन्) महाशय ! नाहं मात्रा पित्रा वा विद्यालयं प्रेषितः । कुतः पठेयम्?
प्राध्यापकः – तर्हि तव जीवनस्य त्रयो भागाः
अपार्थाः जाताः। अत्रान्तरे नदे जलावर्तनं समायातम् । लहरीणां वेगेन तदा नौः अकम्पत। पश्यतोः एव तयोः नौका जलेन पूरिता जाता। नाविकः प्राध्यापकं सम्भ्रमेण अपृच्छत् – महाशय! किं भवान् तर्तुं जानाति? प्राध्यापकः नौकां जलपूरितां दृष्ट्वा भीतोऽवदत् – अहं तर्तुं न जानामि। नाविकः अवोचत्–यदि तर्तुं न जानाति, तदा भवतः सर्वं जीवनं वृथा जातम्। अहं तु बाहुभ्यां नदं तीर्त्वा पारं प्रयामि। किन्तु यदि भवान् अन्यथा न मन्यते, अहं भवन्तं स्वपृष्ठमारोप्य पारं गन्तुमिच्छामि ।

शब्दार्थाः


आरूढः = बैठ गया।

जलविहारम् = जलविहार ।

चतुर्थांशः = चौथाई भाग ।

नूनम् = निश्चय ही।

कुतः = कहाँ से।

विहर्तुम् = घूमने के लिए।

नावम् = नाव पर।

वीचीनाम् = तरङ्गों का ।

अम्भसाम् = जल की।

अरित्रम् =पतवार,डाँड़ ।

व्यर्थतां गतः = व्यर्थ चला गया।

ईदृशम् = ऐसा।

मे = मेरा।

अर्धाशः = आधा हिस्सा।

व्यर्थतां नीतः = व्यर्थ कर दिया।

अनुभवन् = अनुभव करता हुआ ।

प्रेषितः = भेजा गया।

त्रयो भागाः = तीन भाग ।

अपार्थाः = व्यर्थ ।

नदे = नदी में।

जलावर्तनम् = भँवर ।

अकम्पत = डगमगाने लगा।

सम्भ्रमेण = घबराहट के साथ।

प्रयामि = जाता हूँ।

खलु = निश्चय ही।

अकम्पत = डगमगाने लगा।

पश्यतः = देखते-देखते।

तर्तुम् = तैरने के लिए।

जलेन = जल से।

पूरिता = भर गयी।

भीत: = डरा हुआ।

तीर्त्वा = तैरकर।

स्वपृष्ठमारोप्य = अपनी पीठ की सहायता से।


अभ्यासः

1- उच्चारणं कुरुत पुस्तिकायां च लिखत-
आरूढ: व्यर्थताम् ‌ जलावर्तनम् ‌‌ तीर्त्वा चतुर्थांशः अरित्रमाध्यमेन

2- एकपदेन उत्तरत-
(क) कः विहर्तुं नावम् आरूढः ?
(ख) नौकायाः अग्रेसारणं केन माध्यमेन भवति ?
(ग) कः ग्लानिम् अन्वभवत् ?
(घ) जलेन पूरिता का जाता ?


13- कः कथयति इति लिखत-
(क) भवता कदापि गणितं पठितम् ?
(ख) ईदृशं मे भाग्यं कुतः ?
(ग) त्वया अर्धाशः जीवनस्य व्यर्थतां नीतः ।
(घ) अहं तर्तुं न जानामि ।
(ङ) यदि तर्तुं न जानाति, तदा भवतः सर्वं जीवनं वृथा जातम्।

4- अधोलिखितधातुभिः तुमुन् प्रत्ययं योजयित्वा पदरचनां कुरुत –
यथा-खाद् + तुमुन् = खादितुम् ।
चल् + तुमुन् = ….….
हस् + तुमुन् =………
क्रीर्ड+ तुमुन् = ………
पठ् + तुमुन् = ……….

5- अधोलिखितधातुभिः ‘त्वा’ (क्त्वा) प्रत्ययं योजयित्वा पदरचनां कुरुत-
यथा- पठ + त्वा = पठित्वा ।
नी + त्वा = ………
गम् + त्वा = ….…..
लिख् + त्वा = ………


6- हिन्दीभाषायाम् अनुवादं कुरुत
(क) किं त्वया संस्कृत-भाषा पठिता ? (ख) जीवनस्य त्रयो भागाः अपार्थाः।
(ग) प्राध्यापकः नावम् आरूढः ।
(घ) तदा भवतः सर्व जीवनं वृथा जातम्।


7- संस्कृतभाषायाम् अनुवादं कुरुत-
(क) वह पढ़ने के लिए आता है।
(ख) क्या तुम सब तैरना जानते हो ? (ग) क्या तुम प्रतिदिन खेलते हो ? (घ) हम दोनों घूमने के लिए नदी के किनारे जाते हैं।

स्मरणीयम्-
गच्छति शकटे मा आरोहेः ।
चलतः शकटात् मा अवरोहेः ।
दुष्टैः पुरुषैः सह मा गच्छेः । कृत्वा कर्म झटिति आगच्छेः ।

सहसा विदधीत न क्रियाम् ।

Leave a Comment