मानवतायाः परिचयः (Introduction to Humanity) – एकादशः पाठः (11)

काठिन्य निवारणम्किञ्चिदकालान्तरम्वृद्धश्चाश्चर्यचकिताः – वृद्धः च आश्चर्यचकिता किञ्चित्कालानन्तरं – किंचित् कालस्य अनन्तरम् तददर्शनानतरमेवाहम् – तत् दर्शनस्य अनन्तरम् एवं अहम्पितरमतिथेरिच्छा विषये – पित्रस्य अतिथिम् इच्छायाः विषये।

सक्खरनामके नगरे धनिकश्चैको अवसत्। तस्य पार्श्वे वहवः प्रसादाः सेवार्थं भृत्याश्चासन्। तज्जीवने कस्यापि वस्तुना न्यूनता नासीत्। अश्वमारुह्य सः प्रासादात्प्रासाद व्यचरत् एकदा रात्रौ यदा सः प्रासादपार्श्वे पर्यटन्नास्ते तदा समागच्छतं वृद्धमेकं ददर्श । वृद्धस्य वस्त्राणि जर्जरितानि शिरसि च भारः । धनिकं विलोक्यासौ भारं भूवि न्यपातयत् प्रणमन्प्रोवाच – ” श्रीमन! परिश्रान्तोऽस्मि । यदि भवदाज्ञा भवेत्तर्हि रात्रावतैव विश्रमिष्ये।” धनिकः प्रत्युवाच- “नेयं धर्मशाला, यदि भवान् किमपि वस्तु चोरयिष्यति तर्हि ?” इति श्रुत्वा वृद्धश्चाश्चर्यचकिताः स्वभारं शिरसि निधाय तस्मात् प्रचलितः।अन्धकारावृत्ता रजनी आसीत्, आकाशे मेघाः गर्जन्ति, यदा कदा जलविन्दवोऽपि निपतन्ति, झंझावातस्यापि संदेहः परिश्रान्तश्चायं वृद्धः । किञ्चित्कालानन्तरं धारासम्पातैः जलवर्षणं प्रारभत किन्तु वृद्धः प्रचलन्नास्ते । बहुनि दिनानि व्यतीतानि । एकदा धनिकः स्वमित्रैः सेवकैश्च सह वने निर्गतश्चाखेटनार्थम्। अश्वमारुह्य सः मृगमन्वधावत् कृतेऽपि प्रयत्ने हरिणं गृहीतुं न शशाक । मार्गं विस्मृत्य भीषणे वने बभ्राम । भ्रमतस्तस्य न कोऽपि तत्रासीत् यस्तस्य साहाय्यमकरिष्यत्। चान्धकारावृता रजनी समायाता, झंझावातः प्रारभत, परिश्रान्तश्चायमश्वात् अवतीर्य वृक्षाधः समुपविष्टः । वृक्षोऽपि न्यपतत्, भीतश्चाश्व इतस्ततो ह्यधावत्।किश्चित्कालानन्तरं वर्षा प्रशान्ता, नभो निर्मलञ्चाभवत्। द्विसहस्ररूप्यकैः क्रीतश्चायमश्वोऽपि दृष्टिपथं नागतो

धनिकस्य, केनायं धनिको गृहं यायात् । इत्थं दुःखसंतप्ते धनिके दूरादेको नरः समागतः प्रहसन् प्रणमन् धनिकं प्रोवाच- “कथं भवान् भृशं प्रतप्तः ?” धनिकोऽपि सर्वां कथामश्रावयत्। दयालुरसौ धनिकं स्वोटजमानयत्। सः अवदत्–“अत्राहं स्ववृद्धपितरौ सार्धं निवसामि भवानपि भोजनं कृत्वा विश्राम्यताम्।” धनिकः उवाच-“अहं तव पित्राः मिलितुमिच्छामि, तद्दर्शनानन्तरमेवाहं गमिष्ये।” पिता प्रत्युवाच-“शोभनं भवेद्यदि नाहं तेन सह मिलिष्यामि नाहम् अतिथेरनादरं प्रकरोमि, मन्मनसि अतिथिसत्कारस्य पुत्रः पितरमतिथेरिच्छाविषये तथा ग्रहविषये नावदेयत् । भावो विद्यते।” पुत्रः प्रोवाच-नाहं वेत्तुमशकं कथमनादरेऽपि चादरभावः ? तर्हि किं कथयानि प्राघुणिकम्?” पिता प्रत्यवदत्–“कथय, यन्मम पिता वृद्धोरुजातुरो बहिरागन्तुं न शक्नोति” इति।पुत्रः पितुः संदेशमतिथये निवेदयत् तत् श्रुत्वा धनिकेन कथितम् पवित्रेऽस्मिन् तीर्थे अतिथिसेवापरायणस्य महात्मनस्तव पितुः दर्शनमकृत्वा कथं गृहं गमिष्यामि ? यस्य समग्रोऽपि परीवारश्चातिथिसेवापरायणः। तव पितुः दर्शनेन मम जीवनं सफलं भविष्यति। अतिथिरत्याग्रहेण पिता स्वोटजात् बहिरागतः।धनिकेन दृष्टं यदयं सः एव वृद्धो यः शिरसि काष्ठभारं निक्षिप्य पूर्वं मत्प्रासादपार्श्वमापेदे सः अतीवो लज्जितः अभवत्। भृशं लज्जितं धनिकं विलोक्य पिता अवदत्-“अत एवाहमुटजान्न निर्गन्तुमैच्छं यद्भवान् पूर्वघटितघटनां संस्मृत्य लज्जितो भविष्यति । परं भवतामाग्रहेण निर्गतोऽस्मिक्षम्यतां भवान्। ‘‘साक्षाद्देवोऽसि भवान्।” इति कथयित्वा धनिकस्तस्य चरणयोः लुलोठ, नयनयोः पश्चात्तापाश्रुणि च मुमोच। सः मनसि व्यचिन्तयत्-मत्प्रासादल्लक्षगुणमधिकं महत्त्वमस्ति वृद्धस्यास्योटजस्य यत्र साक्षात् मानवताया निवासो वर्तते।

शब्दार्थाः

प्रासादाः = महल (बहुवचन) palace

न्यूनता नासीत् = कमी नहीं थी was no shortage

समागच्छतं वृद्धमेकम् = आते हुए एक बूढ़े को an old man coming

वस्त्राणि जर्जरितानि = फटे हाल कपड़ों को of torn clothes

प्रणमन्प्रोवाच = प्रणाम करके बोला after saluting he said

अंधकारावृता = अँधेरे से घिरी हुई surrounded with darkness

धारासम्पातैः जलवर्षणम् = मूसलाधार वर्षा raining in torrents

प्रचलन्नास्ते = चलता जा रहा था was going on

निर्गतश्चाखेटनार्थम् = और, शिकार खेलने के लिए निकल गया and went out for hunting

मार्ग विस्मृत्य = रास्ता भूलकर forgetting the way

परिश्रान्तः = थका हुआ tired

इतस्ततो = इधर-उधर here and there

दृष्टिपथं नागतो = दिखाई नहीं दिया was not seen

स्वोटजमानयत् = अपनी झोंपड़ी में ले गया fetched to his cottage

विश्राम्यताम् = विश्राम कीजिए to take rest

प्राधुणिकम् = अतिथि guest

अतिथिरत्याग्रहेण = अतिथि के अधिक आग्रह से/पर on too much request of the guest

तद्दर्शनानन्तरमेवाहं गामिष्ये = उनके दर्शन करके ही मैं जाऊँगा I will go only after seeing him

समग्रोऽपि = समस्त, सम्पूर्ण all

संस्मृत्य = याद करके having remembered;

साक्षाद्देवोऽसि भवान् = आप साक्षात् देवता हैं you are visibly a god

पश्चात्तापाश्रुणि = पश्चाताप के आँसुओं से with the tears of the repentance

कार्य-कालम्

1.निम्नलिखित प्रश्नों के संस्कृत में उत्तर दीजिए- Answer the following questions in Sanskrit.

(क) निर्धनस्य प्रार्थनां श्रुत्वा धनिकः किमुवाच ?

(ख) प्रासादात् गमनसमये वातावरणस्य का दशा आसीत्?

(ग) मार्गेविस्मृत्य धनिक किमकरोत् ?

(घ) दूरात् समागत नरः धनिकं प्रणम्य किमुवाच?

(ङ) धनिक कथं नतमस्तकम् अभवत्?

2.रिक्त स्थानों की पूर्ति कीजिए-Fill in the blanks.

(क) नेयं …….. यदि भवान् किमपि वस्तु चोरयिष्यति तर्हि…?

(ख) भ्रमतस्तस्य चान्धकारावृता …..समायाता …….. प्रारभत।

(ग) अहं तव पित्रा ……. तद्दर्शनानन्तरमेवाहं गमिष्ये।

(घ) ………पिता स्वोटजात् बहिरागतः ।

(ङ) सः मनसि व्यचिन्तयत्-ऋमत्प्रासादल्लक्षगुणमधिकं .. …… वृद्धस्योटजस्य यत्र साक्षात् मानवताया निवासो वर्तते।

3.वाक्यों का संस्कृत में अनुवाद कीजिए-Translate the following sentences into Sanskrit.

(क) वह वृद्ध थक चुका था।

(ख) अपना बोझ सिर पर रखकर वह वहाँ से चल पड़ा।

(ग) घोड़ा भी डर कर भाग गया।

(घ) क्या आप लोग दूध नहीं पीते हैं?

(ङ) मेरे वचनों में अतिथि सत्कार का भाव है।

4.निम्नलिखित वाक्यों को बहुवचन में बदलिए-Change the following sentences into the plural form.

(क) अहं मम पितुः एकल पुत्रोऽस्मि ।

(ख) धनिकः तस्य चरणयोः लुलोठ ।

(ग) श्रीमान! परिश्रान्तोऽस्मि ।

(घ) सक्खरनामके नगरे धनिकः वसति स्म ।

(ङ) आकाशे मेघः गर्जति ।

5.(क) संधि-विच्छेद कीजिए- Disjoin the words.

(i) अश्वमारुह्य

(ii) जलविन्दवोऽपि

(iii) चान्धकारावृता

(iv) निर्गतश्चाखेटनार्थम्

(v) क्रीतश्चायमश्वोऽपि

(vi) केनायम्

(ख) संधि कीजिए-Join the words.

(i) परिश्रान्तः + अस्मि

(ii) दूरात् + एक:

(iii) दयालुः + असौ

(iv) निर्मलः + च + अभवत्

(v) तथा + आग्रहविषये

(vi) परिश्रान्तः + च + अयम्

(ग)अर्थ लिखिए-Write the meanings.

(i) शोभनम्

(ii) वेत्तुमशकम्

(iii) मार्गं विस्मृत्य

(iv) सेवापरायणः

(v) पूर्वघटितघटनाम्

(vi) स्वोटजात्

(घ) विलोम शब्द लिखिए-Write the opposite words.

(i) विस्मृत्य

(ii) सादरम्

(iii) धनिकेन

(iv) बहिरागतः

(v) प्रहसन्

(vi) चरणयोः

6.निम्नलिखित गद्यांश का अर्थ लिखिए-Write the meaning of the following passage.

पुत्रः पितुः संदेशमतिथये निवेदयत् तत् श्रुत्वा धनिकेन कथितम् – पवित्रेऽस्मिन् तीर्थे अतिथिसेवापरायणस्य महात्मनस्तव पितुः दर्शनमकृत्वा कथं गृहं गमिष्यामि ? यस्य समग्रोऽपि परीवारश्चातिथिसेवापरायणः। तव पितुः दर्शनेन मम जीवनं सफलं भविष्यति। अतिथिरत्याग्रहेण पिता स्वोटजात् बहिरागतः।

Leave a Comment