मातृदेवो भव – द्वितीय: पाठ:

मुकुलः एकः बालकः अस्ति । तस्य एकं मित्रम् अस्ति । तस्य नाम सतीशः अस्ति । एकदा सतीशस्य जननी ज्वरेण पीडिता अभवत् । सा अवदत्- “भो सतीश ! गच्छ, वैद्यम् आनय ।” सतीशोऽवदत् –“अयं मे क्रीडनस्य कालः। मम मित्राणि आगच्छन्ति । अहं क्रीडनार्थं गच्छामि।” इति उक्त्वा सः बहिः अगच्छत् ।
तस्मिन् एव काले सतीशस्य मित्रं मुकुलः तत्र प्राप्तः । सः सतीशस्य जननीं ज्वरेण पीडिताम् अपश्यत् । सः ताम् अपृच्छत्– “कुत्र सतीशः गतः” इति। सा अवदत् – ” मित्रैः सह क्रीडितुं गतः।” मुकुलः दुःखितोऽभवत् । सः बहिः अगच्छत् ।
सः सतीशं क्रीडाक्षेत्रात् गृहम् आनयत् अवदत् च- हे मित्र ! एषा तव जननी ज्वरपीडिता अस्ति । त्वया अस्याः सेवा कर्तव्या। किं त्वं न जानासि तैत्तिरीयोपनिषद् उपदिशति- ‘मातृदेवो भव’ इति । अन्यदपि उक्तम्-

अभिवादनशीलस्य नित्यं वृद्धोपसेविनः ।
चत्वारि तस्य वर्धन्ते, आयुर्विद्या यशो बलम् ।।

“अधुना सत्वरं गच्छ, चिकित्सकं च आनय” इति श्रुत्वा सतीशः वैद्यम् आनयत्। तस्य जननी
प्रमुदिताऽभवत्।

शब्दार्थाः

ज्वरेण = बुखार से ।

वैद्यम् = वैद्य को ।

उक्त्वा = कहकर ।

तत्र प्राप्तः =वहाँ पहुँचा।

क्रीडितुम् = खेलने के लिए।

क्रीडाक्षेत्रात् = खेल के मैदान से ।

आनयत् = लाया।

उपनिषद् उपदिशति = उपनिषद सीख देती है।

अन्यद् अपि उक्तम् = और भी कहा गया है।

चत्वारि = चार ।

सत्वरम् = शीघ्र ।

प्रमुदिता = प्रसन्न ।


अभ्यासः


1- उच्चारणं कुरुत पुस्तिकायां च लिखत-
क्रीडनार्थ वृद्धोपसेविनः अपृच्छत्दुः खितोऽभवत् अभिवादनशीलस्य
2- एकपदेन उत्तरत
(क) सतीशस्य जननी केन पीडिता आसीत् ?
(ख) मुकुलः कस्य मित्रम् अस्ति ?
(ग) कः दुःखितोऽभवत् ?
(घ) कः वैद्यम् आनयत् ?
3- कः / का, उक्तवान् / उक्तवती इति लिखत-
भोः सतीश! गच्छ वैद्यम् आनय ।
(ख) अहं क्रीडनार्थ गच्छामि।
(ग) मित्रैः सह क्रीडितुं गतः ।
(घ) हे मित्र ! एषा तव जननी ज्वरपीडिता अस्ति ।
4- पूर्णवाक्येन उत्तरत—
(क) मुकुलः सतीशस्य मातरं किम् अपृच्छत् ?

(ख) सतीशः किम् उक्त्वा बहिः अगच्छत् ?

(ग) उपनिषद् किम् उपदिशति ?
(घ) सः सतीशं कुतः आनयत् ?

5- प्रश्नानाम् उत्तराणि लिखत

माता/मुकुलः/सतीशः
(क) सतीशस्य जननी कदा प्रमुदिता अभवत् ?
(ख) आयुर्विद्या यशोबलं कस्य वर्धन्ते ?

(ग) किं श्रुत्वा सतीशः वैद्यम् आनयत् ?
(घ) सतीशः कुत्र अगच्छत्

6- अधोलिखितपदानां वाक्यरचनां कुरुत
पदम्

यथा- ज्वरेण महेशः ज्वरेण पीडितः
मित्राणि
ताम्
क्रीडाक्षेत्रात्


7- विचिन्त्य लिखत-
यदि भवतः सहपाठी रुग्णः स्यात् तदा भवान् किं करिष्यति ? इति लिखत ।

बन्धुबान्धवानां नामानि-

पितामहः = दादा,पितामही = दादी,पितृव्यः = चाचा,
पितृव्या = चाचीभगिनी = बहनअग्रजः = बड़ा भाई,
अनुजः = छोटा भाई,अग्रजा = बड़ी बहनअनुजा = छोटी बहन,
सहोदरा = सगी बहन,सहोदरः = सगा भाई,जनकः = पिता
जननी = माता,मातुलः = मामा,मातुली = मामी,
भ्रातृजाया = भाभी,भ्रातृजः = भतीजा,भ्रातृजा= भतीजी,
भागिनेयः
= भानजा/भगिना
ननान्दा = ननद,पितृस्वसा = बुआ,
आवुत्तः = बहनोई,पुत्रः /तनयः =
बेटा,
मातामहः = नाना।
न गृहं गृहमित्याहुः गृहिणी गृहमुच्यते ।


Leave a Comment