Mid Term Sanskrit paper Class 7 2023-24

paper Class 7 2023-24

इस प्रश्न पत्र को हल करने के लिए 2:30 घंटे का समय व 60 अंक निर्धारित किए गए है । यह प्रश्न पत्र Mid Term Sanskrit paper Class 7 (2023-24) पर आधारित है | इस प्रश्न पत्र में चार खण्ड है | सभी खण्डों के अंक निर्धारित व खण्ड के सामने दिए गए हैं | इन सभी प्रश्नों के उत्तर प्रत्येक खण्ड के अन्त में दिए गए हैं ।


Mid Term Examination ,2023-24


कक्षा – 7

Subject – Sanskrit


समयः―2:30
अंका: – 60

खण्ड – क


अपठित-अवबोधनम् (8 अंका: )

प्रश्न: 01. अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि संस्कृतेन लिखत –


प्रातः कालस्य दृश्यम् अतीव सुन्दरं भवति | अस्मिन् समये नभ: सुवर्णकिरणै: पूर्णं भवति । एवम् दृश्यते यत् ईश्वरः आकाशे सुवर्णं विकीर्णवान् | तस्मिन् समये बहवः पक्षिणः सर्वान् मधुरस्वरैः प्रबोधयन्ति । अस्मिन् समये शीतलः मन्दं च वायुः प्रवहति । एतादृशे वातावरणे भ्रमणं व्यायामं च शरीराय लाभप्रदं भवति | प्रात:काले प्रफुल्लितानां पुष्पाणाम् सौन्दर्यं दृष्ट्वा मनः प्रसन्नः भवति । प्रातःकाले य: भ्रमणं करोति सः पूर्णदिनस्य कृते स्फूर्तिप्रदः भवति |

. एकपदेन उत्तरत – 1×3 = 3

(क) कस्य दृश्यम् अतीव सुन्दरं भवति ?
(ख) प्रात: कालस्य समये किम् सुवर्णकिरणै: पूर्णं भवति ?
(ग) क: आकाशे सुवर्णं विकीर्णवान् ?
(घ) कस्मिन् समये शीतलः मन्दं च वायुः प्रवहति ?

II. पूर्ण वाक्येन उत्तरत – (2 x 1 = 2 )

(क) कदा प्रफुल्लितानां पुष्पाणाम् सौन्दर्यं दृष्ट्वा मनः प्रसन्नः भवति ?
(ख) क: पूर्णदिनस्य कृते स्फूर्तिप्रद: भवति ?

III. यथानिर्देशं उत्तरत – (2 x 1 = 2 )

(क) “स: पूर्णदिनस्य कृते स्फूर्तिप्रदः भवति” अस्मिन् वाक्ये कर्तृ-पदम् किम् ?

(अ) पूर्णदिनस्य
(ब) स:
(स) भवति

(ख) “प्रात:काले यः भ्रमणं करोति” अस्मिन् वाक्ये क्रिया-पदम् किम् ?
(अ) करोति
(ब) य:
(स) प्रात:काले

(ग) “ अस्मिन् समये शीतलः मन्दं च वायुः प्रवहति” अस्मिन् वाक्ये अव्यय-पदम् किम् ?
(अ) समये
(ब) वायु:
(स) च

उत्तराणि :-
प्रश्न: 01.
एकपदेन उत्तरत
(क) प्रात: कालस्य (ख) नभ:
(ग) ईश्वर : (घ) प्रात:काले
II. पूर्ण वाक्येन उत्तरत
(क) प्रात:काले प्रफुल्लितानां पुष्पाणाम् सौन्दर्यं दृष्ट्वा मनः प्रसन्नः भवति ।
(ख) प्रात:काले यः भ्रमणं करोति सः पूर्णदिनस्य कृते स्फूर्तिप्रदः भवति |

III. यथानिर्देशं उत्तरत
(क) (ब) स:
(ख) (अ) करोति
(ग)(स) च
IV. प्रात:-कालः |

खण्ड – ख


रचनात्मक-कार्यम् (12 अंका:)

प्रश्न: 02. चित्रं दृष्ट्वा मञ्जूषाया: सहायतया चत्वारि वाक्यानि लिखत – 2×4=8

उद्यानस्य, वृक्षा:, पुष्पाणि, बालकः, बालिका, विकसन्ति, दोलाम्, काष्ठफलके, क्रीडति, अस्ति, जनाः, भ्रमन्ति

अथवा

आत्मपरिचयः” इति विषयं अधिकृत्य चत्वारि वाक्यानि लिखत |
प्रश्न: 03. अधोलिखितेषु पदेषु मेलनं कृत्वा वाक्यानि रचयत – 1×4=4

(i) अहम् पादकन्दुकेन पठति

(ii) रमेश: विद्यालयम् खादसि

(iii) त्वम् पुस्तकम् क्रीडत:

(iv) तौ भोजनम् गच्छामि

उत्तराणि

प्रश्न: 02. आत्मपरिचयः—

1.मम नाम ………….. अस्ति |

2.मम पितुः नाम ……..अस्ति |

3.अहं सप्तमी कक्षायां पठामि |

4.मम परिवारे चत्वारे जनाः सन्ति ।

5. मह्यं संस्कृतं बहु रोचते ।


प्रश्न: 03.

उत्तर : (i) अहम् विद्यालयम् गच्छामि |
(ii) रमेश: पुस्तकम् पठति |
(iii) त्वम् भोजनम् खादसि |
(iv) तौ पादकन्दुकेन क्रीडत: ।

खण्ड-ग


अनुप्रयुक्य-व्याकरणम् (18 अंका:)

प्रश्न: 4. उचित-शब्दरूपम् चित्वा रिक्तस्थानानि पूरयत – 1×3= 3


(i)………….विद्यालयम् गच्छति | (बालकः/ बालकौ)

(ii) ……… भोजनं पचन्ति । (बालिका/ बालिका:)
(iii) प्रात:काले…….विकसन्ति (पुष्पम् /पुष्पाणि)
(iv)…………पादकन्दुकेन क्रीडत: | (बालकौ/
बालकाः

प्रश्न: 05. उपसर्गं चित्वा लिखत – (1×4 = 4)


(i) अनु+सरति। =,……….।

(ii) अनु+गच्छति। =…….│

(iii) प्रभवति। =……..।

(iv) प्रहार। =::……..।

(v) अनु+भवति। = ………..|

प्रश्न: 06. मञ्जूषात: अंकानां कृते पदानि चिनुत
(1×4=4)

(i) 19, (ii) 11, (iii) 14, (iv) 16, (v) 10

दश, षोडश, एकादश, नवदश, चतुर्दश
—

प्रश्न: 07. अधोलिखितानां शब्दानां कृते मञ्जूषात: चित्वा संस्कृत-पदम् लिखत – 1×4 = 4

(i) आश्चर्य
(ii) मूर्ख के द्वारा
(iii) तालाब
(iv) मछुआरे
(v) दुष्टबुद्धि वाला

धीवर:, दुर्बुद्धिः, मूढैः, विस्मय:, सर:


प्रश्न: 08. धातुरूपाणि चित्वा वाक्यानि पूरयत
(1×3=3)


(i) रमेश : विद्यालयम् ………..| (गच्छति/गच्छन्ति)
(ii) तौ पुस्तकं……… ..| (पठतः/ पठन्ति)
(iii) बालकाः पादकन्दुकेन ……..| (क्रीडतः:/ क्रीडन्ति)
(iv) युवाम् आपणं …..…….| (गच्छथः/गच्छथ)

उत्तराणि :-


प्रश्न: 04. (i) बालकः (ii) बालिका : (iii) पुष्पाणि (iv) बालकौ ।

प्रश्न: 05. (i) अनुसरति (ii) अनुगच्छति (iii) प्र+भवति (iv) प्र+हार: (v) अनुभवति ।


प्रश्न: 06. (i) नवदश (ii) एकादश (iii) चतुर्दश (iv) षोडश (v) दश |

प्रश्न : 07. (i) विस्मय: (ii) मूढै: (iii) सर: (iv) धीवरा: (v) दुर्बुद्धिः |

प्रश्न: 08. (i) गच्छति (ii) पठत: (iii) क्रीडन्ति (iv)गच्छथः ।

पठित-अवबोधनम् (22 अंका:)


प्रश्न : 09. अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम्
उत्तराणि लिखत—


स्त्रीशिक्षाक्षेत्रे अग्रगण्या पण्डिता रमाबाई १८५८ ई . तमे ख्रिष्टाब्दे जन्म अलभत । तस्या पिता अनंत- शास्त्री डोंगरे माता च लक्ष्मीबाई आस्ताम् | तस्मिन् काले स्त्रीशिक्षाया: स्थिति: चिंतनीया आसीत् । स्त्रीणाम् कृते संस्कृत शिक्षणम् प्राय: प्रचलितं नासीत् किन्तु डोंगरे रूढीबद्धाम् धारणाम् परित्यज्य स्वपत्नीं संस्कृतं अध्यापयत् । एतदर्थं स: समाजस्य प्रतारणाम् अपि असहत | अनन्तरं रमा अपि स्वमातुः संस्कृतशिक्षां प्राप्तवती |

1.एकपदेन उत्तरत – (1×1 = 1 )

(i) स्त्रीशिक्षाक्षेत्रे अग्रगण्या का १८५८ ई. तमे ख्रिष्टाब्दे जन्म अलभत ?

(ii) स्त्रीणाम् कृते किम् प्रचलितं नासीत् ?

II. पूर्ण वाक्येन उत्तरत – (2 x 1 = 2 )

(i) रमाया: मातापित्रोः नाम किम् ?
(ii) रमा कस्याः संस्कृतशिक्षां प्राप्तवती ?


III. यथानिर्देशं उत्तरत – (2 x 1 = 2 )


(i) “स: समाजस्य प्रतारणाम् अपि असहत” अस्मिन् वाक्ये अव्ययपदम् किम् ?
(अ) स:
(ब) समाजस्य
(स) अपि

(ii) “रमा अपि स्वमातुः संस्कृतशिक्षां प्राप्तवती” अस्मिन् वाक्ये क्रियापदम् किम् अस्ति ?
(अ) रमा
(ब) प्राप्तवती
(स) स्वमातुः

(iii) “एतदर्थं स: समाजस्य प्रतारणाम् अपि असहत” अस्मिन् वाक्ये कर्तृ पदम् किम् अस्ति ?
(अ) स:
(ब) प्रतारणाम्
(स) अपि

प्रश्न: 10. अधोलिखितं पद्यांशं पठित्वा प्रश्नानाम्
उत्तराणि लिखत-


पृथिव्याम् त्रीणि रत्नानि जलमन्नं सुभाषितम् |
मूढै: पाषाण-खंडेषु, रत्नसंज्ञा विधीयते ॥

1.एकपदेन उत्तरत – 1 x 1 = 1


(i) पृथिव्याम् कति रत्नानि ?
(ii) कै: पाषाण- खंडेषु रत्नसंज्ञा विधीयते ?

II. पूर्ण वाक्येन उत्तरत – 1 x 2 = 2

(i) पृथिव्याम् कानि रत्नानि ?
(ii) मूढै: केषु रत्नसंज्ञा विधीयते ?


III. यथानिर्देशं उत्तरत – 2 x 1 = 2

(i) “मूर्खे:” इति पदस्य समानार्थकं पदम् किम् अस्ति ?
(अ) छात्रैः
(ब) मूढै:
(स) मनुजै:


(ii) ” त्रीणि” इति कस्य पदस्य विशेषणम् ?
(अ) रत्नानि
(ब) मूर्खे:
(स) खंडेषु

(iii) “मूढै: पाषाण खंडेषु रत्नसंज्ञा विधीयते ” अस्मिन् वाक्ये क्रियापदम् किम् अस्ति ?
(अ) मूढै:
(ब) रत्नसंज्ञा
(स) विधीयते


प्रश्नः 11. अधोलिखितं संवादं पठित्वा प्रश्नानाम् उत्तराणि लिखत –

देवेश: – अद्य स्वतंत्रता दिवसः | अस्माकं विद्यालयस्य प्राचार्य: ध्वजारोहणम् करिष्यति | छात्रा: च सांस्कृतिक-कार्यक्रमान् प्रस्तोष्यन्ति | अन्ते च मोदकानि मिलिष्यन्ति |

डेविड : – शुचे ! जानासि त्वम् ? अस्माकं ध्वज: कीदृश: ?

शुचि: – अस्माकं देशस्य ध्वज: त्रिवर्णः इति ।

सलीम : – रुचे ! अयं त्रिवर्णः कथम् ?

रुचि: – अस्मिन् ध्वजे त्रयः वर्णाः सन्ति, अत: त्रिवर्ण : | किम् त्वं एतेषां वर्णानाम् नामानि जानासि ?

सलीम: – अरे ! केशरवर्णः, श्वेतः, हरित: च एते त्रया: वर्णाः ।

देवेश : – अस्माकं ध्वजे एते त्रयः वर्णाः किम् सूचयन्ति ।

सलीम: – शृणु, केशरवर्ण: शौर्यस्य, श्वेतः सत्यस्य, हरित: च समृद्धेः सूचका: सन्ति |

1.एकपदेन उत्तरत – 1 x 1 = 1

(i) विद्यालयस्य प्राचार्य: किम् करिष्यति ?
(ii) अस्माकं ध्वजे कति वर्णाः सन्ति ?


II. पूर्ण वाक्येन उत्तरत – 1 x 2 = 2

(i) देशस्य ध्वज: त्रिवर्ण: कथम् ?
(ii) त्रयः वर्णाः कस्य सूचका: सन्ति ?

III. यथानिर्देशं उत्तरत – 2 x 1 = 2

(i) “वीरतायाः” अस्मिन् अर्थे किम् पदम् प्रयुक्तम् ?
(अ) शौर्यस्य
(ब) सत्यस्य
(स) हरितस्य


(ii) ” अस्मिन् ध्वजे त्रयः वर्णाः सन्ति” अस्मिन् वाक्ये क्रियापदम् किम् अस्ति ?
(अ) अस्मिन्
(ब) ध्वजे
(स) सन्ति


(iii) “अरे ! केशरवर्णः, श्वेतः, हरित: च एते त्रया: वर्णाः” अस्मिन् वाक्ये अव्ययपदम् किम् ?
(अ) श्वेतः
(ब) हरित:
(स) च


प्रश्न: 12. रेखांकित-पदानां प्रश्न निर्माणं कुरुत –
1×3=3

(क) अथ एकदा धीवरा: तत्र आगच्छन् |
(ख) सत्येन वाति वायुः ।
(ग) श्रीकण्ठस्य भवने सर्वविधानि सुखसाधनानि आसन् ।
(घ) तस्य गृहम् आडम्बरविहीनं साधारणं च आसीत्


प्रश्न: 13. प्रश्न-पत्रात् अतिरिच्य पाठ्यपुस्तकात् स्मरण- आधारेण श्लोक – द्वयं लिखत – 2×2=4

श्लोक 1…………………………….

श्लोक 2……………………………

उत्तराणि :- प्रश्न : 09.

1.एकपदेन …..
(i) पण्डिता रमाबाई (ii) संस्कृत शिक्षणम्

II. पूर्ण - वाक्येन …….
(i) रमाया: मातापित्रोः नाम पिता अनंत-शास्त्री डोंगरे माता च लक्ष्मीबाई आसीत् |

(ii) रमा स्वमातुः संस्कृतशिक्षां प्राप्तवती ।

III. यथानिर्देशं …..
(i) (स) अपि (ii) (ब) प्राप्तवती (iii) (अ) स:

प्रश्न: 10.

1.एकपदेन …..
(i) त्रीणि (ii) मूढैः |

II. पूर्ण - वाक्येन …….
(i) पृथिव्याम् जलमन्नं सुभाषितम् त्रीणि रत्नानि |
(ii) मूढै: पाषाण- खंडेषु रत्नसंज्ञा विधीयते ।

III. यथानिर्देशं …..
(i) (ब) मूढै: (ii) (अ) रत्नानि (iii) (स) विधीयते ।
प्रश्नः 11.

1.एकपदेन ……
(i) ध्वजारोहणम् (ii) त्रयः |

II. पूर्ण - वाक्येन …….
(i) अस्मिन् ध्वजे त्रयः वर्णाः सन्ति, अत: त्रिवर्ण: ।
(ii) त्रयः वर्णाः केशरवर्ण: शौर्यस्य, श्वेतः सत्यस्य, हरित: च समृद्धेः सूचका: सन्ति |

III. यथानिर्देशं …..
(i) (अ) शौर्यस्य (ii) (स) सन्ति (iii) (स) च

प्रश्न: 12. (क) के (ख) केन (ग) कस्य (घ) कस्य

प्रश्न: 13. अपनी पाठ्य पुस्तक में से कोई दो श्लोक लिखे जो इस प्रश्न पत्र में नहीं है । परीक्षा में जाने से पहले कम से कम पांच श्लोक याद करके जाए |

Leave a Comment