पाठ-2 प्रभातवेला Morning Time

प्रभातवेला

IMG 20240221 100623 पाठ-2 प्रभातवेला Morning Time

अतीतायां रजन्यां समायाति प्रभातवेला । प्रातःकालिकी सुषमा अतीव रमणीया भवति। प्रात:काल ब्रह्ममुहूर्त बेलायां चतुर्वादनसमयात् आरभ्यते। सूर्योदयं यावत् च प्रभातवेला एव उच्यते। इयं वेला चतुर्विंशति: होरासु सर्वश्रेष्ठा परमोत्तमा च वर्तते ।

प्रभातवेलायां प्रकृतेः शोभाः अपि अति मनोहारिणी भवति । एकत्र सूर्योदयकाले खे: रक्तः बिम्ब: मनोहरति अपरतश्च शुप्तोत्यिताः पक्षिणः मधुरेण फलखेण शान्तं भूमण्डलं संगीतमयं कुर्वन्ति । वनेषु उपवनेषु, नदीतरेषु, क्षेत्रेषु च शीतलः मन्दः सुगन्धः समीर: वहति। प्रभातवेलायां शुद्धावायौ परिभ्रमणेन स्वास्थ्यं वर्धते । अतः बुद्धिमन्तः पुरूषाः, स्त्रियः, बालाश्च प्रातः भ्रमणार्थं गच्छन्ति । युवानश्च व्यायामम् आचरन्ति, शक्तिं स्वास्थ्यं च लभन्ते ।


प्रात:काले वृक्षाणां हरिता शोभा पुष्पाणां सुगन्धिश्च विहरतां जनानां नेत्रे मनः च प्रीणयतः । ब्रह्ममुहूर्ते विद्याशीलाः विद्यार्थिनः उत्थाय विद्या अधिगच्छन्ति। पाठितानां पाठानाम् अभ्यासं कुर्वन्ति बहून् विषयान् च कण्ठीकुर्वन्ति । एव प्रभातवेलायां मुदिताः सर्वे जनाः स्वेषु-स्वेषु कार्येषु संलग्नाः दृश्यन्ते ।


ओषजनवायुना लब्धशक्तयः पुरुषाः आसायं स्वस्थचेतसा कायेन च कार्यं कुर्वन्ति, श्रान्तिं च नानुभवन्ति । अतः अस्माभिः सदैव सूर्योदयात् पूर्वमेव उत्थातव्यम् उद्यानादिषु च यथाफलं परिभ्रम्य गृहम् आगन्तव्यम् अथ स्नानादिते निवृत्य विद्याभ्यसने, स्वेषु अन्येषु व्यवहारेषु वा प्रवर्तिव्यम् ।

शब्दार्थाः

अतीतायाम् = बीत जाने पर (at the end),

रमणीया = सुन्दर (pleasant), 
होरासु = घण्टा (hour),
 खेः = सूर्य का (sun's),
 समीर: = वायु (wind), 
 भ्रमणार्थं = घूमने के लिए (for walking), 
प्रीणयतः : = प्रसन्न होते हैं (pleased), 
ओषजनम् = प्रात:कालीन (Morning), 
आसायं = शाम तक (till evening)।

अभ्यास

1.निम्नलिखित प्रश्नों के संस्कृत में उत्तर दीजिए- (a) प्रातः कालः कस्मात् समयात् आरभ्यते ?
(b) अस्माभिः सदैव कदा उत्थातव्यम् ?
(c) ब्रह्ममुहूर्ते विद्यार्थिनः किं कुर्वन्ति ?
(d) प्रभातवेलायां पक्षिणः किं कुर्वन्ति ?
(e) केन लब्धशक्तयः जनाः श्रान्तिं न अनुभवन्ति ?

2.हिन्दी में अनुवाद कीजिए-
(a) प्रातःकालिकी सुषमा अतीव रमणीया भवति ।
(b) सूर्योदयं यावत् च प्रभातवेला एव उच्यते ।
(c) प्रभातवेलायां प्रकृतेः शोभा अपि अति मनोहारिणी भवति ।
(d) प्रभातवेलायां शुद्धवायौ परिभ्रमणेन स्वास्थ्यं वर्धते ।
(e) अस्माभिः सदैव सूर्योदयात् पूर्वमेव उत्थातव्यम् ।

3.रिक्त स्थानों की पूर्ति कीजिए-


प्रभातवेला,  स्वास्थ्यं,   सुषमा,   व्यायामम्,   रमणीया,   प्रकृतेः


(a) प्रातः कालिकी…..अतीव……..भवतिl
(b) सूर्योदयं यावत् च……..एव उच्यते ।
(c) प्रभातवेलायां………… शोभाः अपि अति मनोहारिणी भवति ।
(d) युवानश्च……..आचरन्ति, शक्तिं……..च लभन्ते ।l

Leave a Comment