पाठ 13 जननी जन्मभूमिश्जश्च Mother and motherland

जननी जन्मभूमिश्जश्च

संसारे सर्वे जनाः स्वर्ग-सुखं सर्वोत्तमं मन्यन्ते; किन्तु तत्सुखं केवलं काल्पनिकं वर्तते। जन्मदात्री जननी अथ च जन्मभूमिः अस्मभ्यं यानि सुखानि यच्छति तानि स्वर्गादपि गुरुतराणि सन्ति । अतएव उक्तम्- जननी जन्मभूमिश्च स्वर्गादपि गरीयसी ।

IMG 20240223 175136 पाठ 13 जननी जन्मभूमिश्जश्च Mother and motherland

भो मातः! अहम् त्वाम् वन्दे ! संसारे त्वत्समः अन्यः कोऽपि शुभचिन्तकः नास्ति । जननी स्वयं कष्टानि सोढ्वा अस्मान् सुखयति । वयं तव कृपया एव योग्या भवामः। अतः हे पूज्ये ! वयं वारं वारं तव चरणयोः नमामः ।

जननीवत् जन्मभूमिः अपि अस्माकं माता। भारत माता नानाविधानि अन्नानि फलानि अस्मभ्यं प्रदाय अस्मान् पोषयति । मातृभूमिः अस्मभ्यम् महार्घान् धातून् तथा खनिज पदार्थान् दत्त्वा अस्मान् समृद्धान् करोत्। किं बहुना, मातृभूमिः अस्माकं सर्वा: अभिलाषाः साधयति। एतादृशीं जननीं जन्मभूमिं प्रति अस्माकमपि कर्त्तव्यम् यत् मातुः आज्ञापालनेन, वार्धक्ये च सेवया तां प्रसादयाम। अपि च जन्मभूमिं प्रति अस्माकं कर्त्तव्यं यत् यदि कदाचित् कश्चिच्छत्रुः भारतभूमिम् आक्राम्येत्तदा वयं प्राणपणेनापि तस्याः रक्षायै तत्पराः भवेम। व्यापारिभिः शुचिव्यवहारेण, कृषकैः बहुधान्योत्पादनेन, सैनिकैश्च सीमारक्षणेन तथा अन्यैः भारतीयैश्च स्वकर्त्तव्यं पूरयितव्यम् ।

शब्दार्थाः

काल्पनिकम् = मन से गढ़ा हुआ (feighned), वार्धक्यम् = बुढ़ापा (old age). 
महार्घः = कीमती (costly), 
पुष् = पालन करना (upbringing). 
गुरुतरम् = अधिक बड़ा (more heavy), 
प्राणपणेन = जी-जान से (with life),
 गरीयसी = श्रेष्ठ (excellent, superior), 
प्रदाय = देकर (giving)।

अभ्यास

1.निम्नलिखित प्रश्नों के संस्कृत में उत्तर दीजिए-

(a) जननी अस्मभ्यं किं किं यच्छति ?
(b) जन्मभूमिः अस्मान् कथं पालयति ?
(c) जननीं प्रति अस्माकं किं कर्त्तव्यम् ?
(d) जन्मभूमि प्रति अस्माकं किं कर्त्तव्यम् ?

2.निम्नलिखित अनुच्छेदों का हिन्दी में अनुवाद कीजिए-

(a) भो मातः । अहम् त्वाम् …………चरणयोः नमामः ।
(b) जननीवत् जन्मभूमिः ………….साधयति ।

3.रिक्त स्थानों की पूर्ति कीजिए-

(a) भो मातः! अहम् त्वाम् ………….।
(b) जननीवत् ………………अपि अस्माकं माता ।

4.निम्नलिखित वाक्यों में कोष्ठक में लिखे एक अशुद्ध शब्द को काट दें-

(a) जन्मदात्री अस्माकं (सुखम्/कष्टम्) हरति ।
(b) जन्मभूमिः अस्मभ्यम् (यन्त्राणि/अन्नानि) यच्छति ।
(c) वयम् भारतभूमि सदैव (रक्षिज्ञष्यामः/पातयिष्यामः)

5.इस पाठ के आधार पर भारतभूमि सम्बन्धी पाँच वाक्य संस्कृत में लिखिए।

Leave a Comment