मूर्खो भूपति: (Idiot King) – अष्टदश: पाठ:

चौरकर्मणि निपुणः कश्चित् चौरः कस्मिश्चिद् भवने प्राविशत्। गवाक्षमार्गेण यदा स: कक्षा प्रवेष्टुम् इच्छति तदैव सहसा गवाक्षकाष्ठपतनात् तस्य पादः भग्नः अभवत्।
अन्यदा पादेन खञ्जः चौर: चौपट नामकस्य राज्ञः समक्षम् अगच्छत् अवदत् च-‘अहं चौरः अस्मि। ह्यः रात्रावहमेकं गृहमविशं गवाक्षपतनात् मम पादो भग्नः अभवत्।” चौपट: चीत्कारं कुर्वन् उवाच – “आकारय शीघ्रं गृहपतिम् । ” भयात् विह्वलः गृहपतिः राजसभाम् आगच्छत्। चौपटः प्राह- ‘तव गवाक्षदोषेणैव चौरस्यास्य पादो भग्नः । ” कम्पामान: गृहपति निवेदयति- “देव! नात्र ममापराधः । काष्ठकारस्य अयं दोषः ।” प्रकुपितो नृपतिः प्राह – “काष्ठकारम् आकारयत।’ रक्षापुरुषाः पुरुषं काष्ठकारं बद्ध्वा राजसभामानयन्। काष्ठकारः प्राञ्जलिः तस्थौ । नृपतिः प्राह–‘‘गृहपतिना गवाक्षनिर्माणे प्रभूतं धनं व्ययीकृतं तव अवधानेन चौरस्यपादो भग्नः।” काष्ठकारः प्रावोचत् -” राजन् नात्र मम दोषः । यदाऽहं गवाक्षे कीलकं संयोजने संलग्नः तदैव कोऽपि रक्तवस्त्रवृतः सुंदरः बालकः दृष्टिपथम् आगतः। तां वीक्ष्य विमूढोऽहं संजातः । अनवधानस्य कारणमेतत्। “
कुपितः नृपः बालकमानेतुम् आदिशत्। यदा बालकः राजद्वारम् उपागतः तदा नृपः प्राह-“यदि त्वं रक्तवस्त्रवृतः नाभविष्य तदा काष्ठकारस्य ध्यानं स्वकार्यात् न अविस्मरिष्यन्न सः कीलकसंयोजने प्रमादमकरिष्य तर्हि तदा चौरस्य पादो भग्नो नाभविष्यत्।” स्मयमानः बालकः प्राह- “राजन्! नाह दोषभाग् सौन्दर्यं तु विधात्रा व प्रदत्तम्, रक्तवस्त्राणि तु रजकेण रंजितानि।” नृपः क्रुद्धः सन् प्राह-” शीघ्रमेव रजकम् आकारयत्।” राजपुरुषः क्षणेनैव रजकमानीतवन्तः।
नृपः गर्जन् प्राह-“रे रजक! त्वया वस्त्राणि कथं सुंदराणि रंजितानि येन काष्ठकार: रक्तवर्णवृतः बालकं विलोक्य विमूढः संजातः।” रजकः तु तूष्णीमेव स्थितः । नृपः ि क्रुद्धः सन् प्राह-“कथं तृष्णीं स्थितः। कथं नोत्तरं ददाति? रजकः कारणानि वदति किन्तु नृपः समाज्ञापयति-“रजकमेनं शूलमारोपयत।” संयोगेन रजकः प्रलम्बः आसीत् कारागृहस्य द्वारं तु लघुः। रक्षापुरुषाः रजकं कथं द्वारे समलम्बयेयुः। ते राजानमेत्य प्रोचुः–“राजन्! कारागृहस्य द्वारं लघु वर्तते रजकश्च लम्बः। अतस्तं शूलमारोपयितुम् असमर्था वयम्। प्रकुपितः सन् नृपतिः प्राह–ममादेशः त्वन्यथा भवितुं नहिति अतः कमपि खर्वं पुरुषं आनीय शूलमारोपयत् अथवा मां शूलमारोपयत।
राजाज्ञया रक्षा पुरुषाः खर्व पुरुषान्वेषणं कुर्वन्। किन्तु संयोगेन कोऽपि खर्व पुरुषाः न प्राप्त:। तथा ते राजानं वद्ध्वा कारागारमानयन् बलात् तं राजानं शूलमारोपयन्।

शब्दार्थाः

चौरकर्मणि निपुणः = चोरी करने में निपुण (कुशल) expert in stealing

गवाक्षकाष्ठपतनात् = रोशनदान की लकड़ी टूटने से due to the breaking of the wood of the ventilator

पादः भग्नः अभवत् = पैर टूट गया the leg was broken

आकारय = बुलाओ call

राजद्वारम् = राजदरबार में in the court of a king

स्मयमानः = washerman

तूष्णीं = चुप होना to be silent

प्रवेष्टुम् = प्रवेश करने के लिए for entering

भयात् विह्वलः = भय से डरा हुआ, भयभीत fearful

प्रांञ्जलि: तस्यौ = हाथ जोड़ कर खड़ा हो गया stood holding hands

अवधानेन = व्यवधान से रुकावट से by obstruction

कीलकं संयोजने = कील गाडने में in fastening with a nail

काष्ठकारस्य = बढई को the carpenter

दृष्टिपथम् आगतः = सामने आ गया had come in front

शूलमारोपयत् = सूली पर चढ़ा दो crusify (him)

असमर्था वयम् = हम असमर्थ हैं we are unable

प्रलम्बः = लम्बा tall

कारागृहस्य = जेलखाने का of the jail

स्मयमानः = हँसते हुए laughing

रजकेण = धोबी के द्वारा by dwarf

खर्व पुरुषान्वेषणं = बोने पुरुष की खोज the search of dwarf।

कार्य-कालम्

1.निम्नलिखित प्रश्नों के संस्कृत में उत्तर दीजिए-
(Answer the following questions in Sanskrit)

(क) चौरः कथं राज्ञ समीपं गत: ?

(ख) केन कारणेन चौरस्य पादः भग्नः अभवत्?

(ग) काष्ठकारः किं प्रावोचत् ?

(घ) रजकं प्रति नृपः क्रुद्धः सन् किं प्राह?

(ङ) रक्षापुरुषाः राजानं किं विज्ञापिताः ?

(च) रक्षापुरुषाः खर्व पुरुषान्वेषणोपरान्ते किं कृता: ?

2.निम्नलिखित वाक्यों का संस्कृत में अनुवाद कीजिए-
(Translate the following sentences into Sanskrit)—

(क) कल रात मैं घर में घुसा।

(ख) राजन्! इसमें मेरा दोष नहीं है।

(ग) उस बालक को देखकर मैं मोहित हो गया।

(घ) शीघ्र ही उस रंगरेज को बुलाओ।

(ङ) लाल वस्त्र रंगरेज ने रंगे हैं।

(च) मेरा कोई अपराध नहीं है।

3.निम्नलिखित शब्दों की वाक्य रचना संस्कृत में कीजिए-
(Make the sentences of the following words in Sanskrit)—

(क) कील संयोजने……………..

(ख) रक्तवस्त्राणि………………..

(ग) समाज्ञापयति………………..

(घ) प्राह……………….

(ङ) गवाक्षनिर्माण………………..

(च) राजाज्ञया………………

4.सही उत्तर को ” से चिह्नित कीजिए-
(Mark the correct answer with a ‘/’)-


(क) गवाक्षमार्गेण तृतीया विभक्ति / पञ्चमी विभक्ति

(ख) गवाक्षपतनात् तृतीया विभक्ति / पञ्चमी विभक्ति

(ग) अवधानेन तृतीया विभक्ति / पञ्चमी विभक्ति

(घ) राजाज्ञया तृतीया विभक्ति / पञ्चमी विभक्ति

(ङ) संयोगेन तृतीया विभक्ति / पञ्चमी विभक्ति

(च) स्वकार्यात् तृतीया विभक्ति / पञ्चमी विभक्ति

5.पदों में उपसर्गों को पहचानिए-
(Identify the prefixes in the words)-

पद उपसर्ग शब्द
प्राविशत् ‌ ……… ……….
आगच्छत् ……….. ……….
प्रकुपितः ‌‌ …….… ………
विमूढ: ……….. ……….
उपागतः ……….. ……….
विस्मरिष्यन् ……….. ‌ ………..
विधात्रा ……… ‌ ………..

6.गद्यांश का अर्थ लिखिए-
(Translate the Paragraph )—

कुपितः नृपः बालकमानेतुम् आदिशत्। यदा बालकः राजद्वारम् उपागतः तदा नृपः प्राह -“यदि त्वं रक्तवस्त्रवृतः ” नाभविष्य तदा काष्ठकारस्य ध्यानं स्वकार्यात् न अविस्मरिष्यन्न सः कीलकसंयोजने प्रमादमकरिष्य तर्हि तदा चौरस्य रक्तवस्त्राणि तु पादो भग्नो नाभविष्यत्।” स्मयमानः बालकः प्राह-‘”राजन्! नाहं दोषभाग् सौन्दर्यं तु विधात्रा प्रदत्तम्, रजकेण रंजितानि।” नृपः क्रुद्धः सन् प्राह–” शीघ्रमेव रजकम् आकारयत्।” राजपुरुषः क्षणेनैव रजकमानीतवन्तः।



Leave a Comment