नारी-शिक्षा (Women-Education) – सप्तदशः पाठः

गृहस्थ-शटकस्य ‘नर-नारी’ इति चक्रद्वयं स्तः । तत्र शिक्षैव चक्रयोः गतिः अक्षुण्णा समतया निर्बाधं भवति । किन्तु यदि चक्रमेकं पर्याप्त-स्निग्ध भवतु द्वितीयञ्च सर्वथा स्नेहरहितं भवेत् तर्हि तस्य शटकस्य गति न सम्यक्तया भवितुं शक्नोति। तत्र सर्वदा बाधैव समुपस्थिता भवति। एवमेव शिक्षितस्य पुरुषस्य शिक्षा-विहीनाया: नार्याः संयोगे भवति। अतएव यथा पुरुषाणां कृते वर्तते शिक्षाया आवश्यकता एवमेव नारीणां कृतेऽपि वर्तते एव शिक्षायाः परमावश्यकता।

आसीदव ‘आसीदत्र’ में ‘आसीत्’ और ‘अत्र’ शब्दों में संधि की गई है। यहाँ तु + अ = ‘त’, पुनः ‘त’ के बाद ‘अ’ आने से वर्ग का तृतीय वर्ण ‘द’ हुआ है जो व्यंजन संधि के कारण से है।

यद्यपि भारतेतिहसस्य अवलोकनेन प्रतीयते यत् प्राच्यसमये आसीदत्र नारीशिक्षाया महान् प्रचारः आसीत्। वैदिककाले गार्गी, मैत्रेयी, प्रभृतीनां नारीणां पावनानि चरित्राणि कथयन्ति तासाम् उच्चशिक्षाम्। आद्यशंकराचार्यकालेऽपि मण्डननिश्रस्य शास्त्रार्थे माध्यस्थं शंकराचार्येण सह शास्त्रार्थकरणञ्च देव्या शारदाया नाम को न जानाति नरः। संस्कृते साहित्ये बहूनां नारीणां विज्जकादीनां पद्यानि तासां वैदुष्यं वदन्ति च।
यवनकाले देशस्य नारीणां सुरक्षाया अभावात् इयं परिपाटी विलुप्ता अभवत् । अतएव अविद्यान्धकारे पातिता सा भारतीया नारी ।
आंग्लकाले राजनैतिक व्यवस्थायां निवद्धायां पुनः प्राचलत् नारी-शिक्षा क्रमः। स्वतन्त्रे भारते सर्वकारस्य विविधैः समुद्योगैः नारीशिक्षाया महती समुन्नति दृश्यते। परिक्षासु छात्रापेक्षया बालिकानाम् अधिकांकावाप्ति तासां पठनरुचिं मस्तिष्क प्रौढि, बुद्धि-वैशिष्ट्यं दत्तचित्तनाम् इत्यादीन् गुणान् प्रतिपादयति ।
नारी-शिक्षा-विषये सर्वप्रथमम् इदं विचारणीयम् अस्ति यत् कीदृशी शिक्षा तासाम् आगमिनि जीवने उपयोगिनी भविष्यति। यद्यपि येषां विषयाणाम् अध्ययनं छात्रः कुर्वन्ति तानेव विषयान् बालिकाः पठन्ति । अध्ययनान्तरं पुरुषवद् विविधेषु राजकीयपदेषु कार्यं कुर्वन्ति। किम् बहुना वर्तमानकाले तु भुशुण्डीं धारयन्त्यो वायुयानानि वेगेन आकाशे नयन्त्यो वैज्ञानिक-शोधकार्याणि कुर्वन्त्यः शतशो नार्यो दृश्यन्ति। तेषु कल्पना चावला, सुनीता विलियमा नाम को न जानाति भारतीयाः ।
परन्तु प्रायो जीवने नारीणां नराणाञ्च कार्यं प्रथममेव भवति। अतैव च तयोः शिक्षायामपि किञ्चिद् अंतरम् आवश्यकमेवास्ति। तदर्थमेव शिक्षायामपि गृहविज्ञानादयो विषयाः पाठ्यक्रमे निहिता येषाम् अध्ययनं नारीणां जीवने महद्-उपयोगि अस्ति।
नारीशिक्षायां परिवर्तनस्य आवश्यकताम् अनुभवन्ति शिक्षायाः विशेषज्ञाः। येन शिक्षिता नारी न केवलं शिक्षितैव भवेत्, अपितु तस्या आगामिजीवनमपि सफलं भवेत्। तस्य संततिरपि भारतीय परंपरायां निष्ठिता भवेत्। पालयेच्च भारतीयान् आदर्शान् इति।

शब्दार्थाः

अक्षुण्णा समतया = कभी समाप्त न होने वाली समानता the equivalent never to be ended

सम्यकृतया = ठीक प्रकार से rightly

परमावश्यकता = बेहद जरूरी the most urgent

अवलोकनेन = देखने मात्र से/निरीक्षण करने से by inspection

शास्त्रार्थे = शास्त्रार्थ में पद the debate on religious books

यवनकाले = मुस्लिम काल में the period of Muslim origin

सर्वकारस्य = सरकार की of the government

अधिकांकावाप्ति = अधिक अंक प्राप्त करने वाली who, gets highest marks

भुशुण्डीं = बन्दुक को of the gun

शतशो = सैकड़ों hundreds

आगामिजीवनमपि = आने वाले जीवन में भी even in the future life

कार्य-कालम्

1.निम्नलिखित प्रश्नों के संस्कृत में उत्तर दीजिए-
Answer the following questions in Sanskrit.

(क) वैदिककाले नारीणां चरित्राणि सोदाहरणं दीयतायाम् उच्चशिक्षाया: ?

(ख) यवनकाले नारीणां सुरक्षाया अभावात् किं परिपाटी विलुप्ता अभवत्?

(ग) परीक्षासु कान् गुणान् प्रतिपादयति नारी?

(घ) कस्मिन् क्षेत्र सुनीता विलियम: प्रसिद्धा अभवत्?

(ङ) नारी शिक्षायां परिवर्तनस्य का आवश्यकता अस्ति?

2. रिक्त स्थानों की पूर्ति कीजिए-
Fill in the blanks.

(क) तत्र शिक्षैव ……गतिः अक्षुण्णा समतया निर्बाधं भवति।

3.निम्नलिखित शब्द रूपों के मूल शब्द, लिङ्ग, वचन और विभक्ति लिखिए-
Write the root word, gender, number and case-ending of each of the following words forms.

पदमूल शब्दलिङ्गवचनविभक्ति
(क) शिक्षायाः
(ख) जीवने
(ग) व्यवस्थायाम्
(घ) शास्त्रार्थे
(ङ) चक्रयो:

4. निर्देशानुसार धातु रूप लिखिए-
Write the conjugate according to the instructions.

(क) भू धातो: – लोट् लकार – मध्यमपुरुष
(ख) शक् धातोः – लङ् लकार – प्रथमपुरुष
(ग) अस् धातो – लृट् लकार – उत्तमपुरुष
(घ) विद् धातो: – लट् लकार – प्रथमपुरुष
(ङ) दृश् धातो: – विधिलिङ् – उत्तमपुरुष
(च) आगम् धातो – लोट् लकार – मध्यमपुरुष

5. (क) संधि कीजिए-
Join the words.

(i) कृतः + अपि
(ii) इति + आदीन्
(iii) आसीत् + अत्र
(iv) तान् + एव
(v) भारत + इतिहासस्य
(vi) नारीणाम् + च

(ख) संधि-विच्छेद कीजिए-
Disjoin the words.

(i) चक्रमेकम्

(ii) समुद्योगे

(iii) परमावश्यकता

(iv) अविद्यान्धकारे

(v) सततिरपि

(vi) समुपस्थिता

(ग) अर्थ लिखिये और संस्कृत में वाक्य प्रयोग कीजिए-
Write the meaning and make sentences into Sanskrit.

(i) नारीणाम्
(ii) मैत्री
(iii) शास्त्रार्थम्
(iv) संयोगे
(v) राजकीयपदेषु

6. वाक्य प्रयोग द्वारा युग्म शब्दों का अन्तर स्पष्ट कीजिए-
Differentiate the words of pairs by using them in sentence.

(क) नराणाम्
नारीणाम्

(ख) भवन्ति
अनुभवन्ति

(ग) सफलम्
असफलम्

(घ) पद्यानि
गद्यानि

(ङ) समतया
समानताया

Leave a Comment