नारिकेल कृषिः (Farming of Coconut) – चतुर्थः पाठः (4)

एकदा कैलासवासी भगवान् शिवश्चाम्बया पार्वत्या सह समुद्रयात्रां कुर्वन् द्वावेव द्वीपतटे विहरन् लोमोलोमोद्वीपमनुप्राप्तः । द्वीपेऽस्मिन्-कश्चिदनाथो युवको अवसत् तिमोदी नाम। सोऽतीव निर्धनश्चासीत्। समुद्रात् मत्स्यानानीय पर्वतेभ्यः कन्दमूलफलान्यादाय सः स्वोदरं प्रपूरयति स्म। तिमोदी गभीरे समुद्रे महता कौशलेन नावमचालयत्। फिजीद्वीपस्य न कोऽपि नाविकः नावसंचालने तत्समः ।

परिशिष्ट→कर्म कारक- सः स्वोदरं प्रपूरयति स्म। कर्म -द्वितीया विभक्ति Accusative case कर्म – जिस पर क्रिया का सबसे अधिक प्रभाव हो (That which is affected most by the action.)

एकदा केनचिद् धनिकनाविकोऽपि गर्वान्वितास्तिमोदी नाविकं पराजेतुं चिचेष्ट। तेन कथितम्–‘अस्माद्वीपात्स्वनावा सार्द्धं वीतीलबूद्वीपे यः पूर्वं प्राप्स्यति सः एव विजेता गण्यते चान्यथा विजयिने स्वहस्तौ अधमर्णरूपे स्थापयित्वा दशनावः प्रदातव्याः। द्वावेव तत्कृते दिवसं कालञ्च निर्धारितवन्तौ । निश्चिते दिवसे नाविको स्वस्वनावं संयोज्य विजययात्रां प्रारभताम्। किञ्चित्कालान्तरं सागरे झटिति महावातः प्राचकटत्। दैवदुर्विपाकात् तिमोदीयुवकस्य नौका समुद्रजले न्यमज्जयत् । यावत्सः नावं पुनः संयोजयति तावत् धनिकनाविकः सुदूरं प्रायात् विजयी च अभवत्।

पराजितस्तिमोदी पूर्वप्रतिज्ञातं सर्वं स्वीचकार। चिन्ताग्रस्तस्तिमोदी गृहान्निर्गतः । बुभुक्षितस्य तस्य चत्वारि दिनानि व्यतीतानि। अधुना सः चलितुमपि न शशाक। एकस्य वृक्षस्याधः समुपविश्य प्रोच्चै रोदितुमारब्धः।
इतो द्वीपतटे विहरन्ती चार्द्धनारीश्वरौ तदरण्यमनुप्राप्तौ । कस्यमपि रोदनध्वनिमाकर्ण्य पार्वती शिवं तत्र गन्तुमप्रार्थयत् तिमोदीदशां विलोक्य भूतनाथः प्रोवाच-“वत्स! क्व गतौ तव हस्तौ कथञ्च विलपसि?” तिमोदी सर्वा घटनाम श्रावयत् ।
सर्ववृत्तान्तजातं निशम्य शिवोऽपि करुणावशाच्चकम्पे। शिवः स्वमायया तत्र झञ्झावातेन फलान्यविकरोत् भक्तं तिमोदीं च प्रत्यवोधत्-“त्वं ईदृग् फलानां कृषिं कुरु येषु जलं फलमपि सहैव उत्पद्येत।” आश्चर्यचकितः तिमोदी भगवन्तं पप्रच्छ-“विभो किन्नाम तस्य वृक्षस्य? हस्ताभ्यां विना कथमहं तेषां वृक्षाणां कृषिं कर्तुं समर्थो भविता?”
आशुतोषः शिवः अवोचयत्–“चिन्तां मा कुरु वत्स! सर्वं सुष्ठु भविष्यति” इति कथयित्वा पार्वत्या सह शिवस्तु चान्तर्दधौ। शिवः कैलासमनुप्राप्तः स्वसुतं गणनायकं गणेशं आदिदेश–“वत्स गणेश! गच्छ केरलप्रदेशं, तस्मान्नारिकेलं, नीत्वा फिजीद्वीपस्थं भक्तप्रवरं तिमोदीं नारिकेलकृषिविषये निर्दिश्य शीर्घं समागच्छ।’

“आज्ञा भवदीया शिरोधार्या” इत्युक्त्वा पितरं प्रणम्य गणपतिस्तस्यां दिशि प्रतस्थे यत्र तिमोदी तपस्तप्तुमारभत्। विनयान्वितस्तिमोदी गणेशः पौनः पुण्येन नमश्चक्रे । शिवपुत्रो गणेशः तिमोदीं नारिकेल फलस्य वपनविधिमुपदिश्य स्वकैलासधाम्नि प्रत्यजगाम। तिमोदी कानि एकस्मात् नारिकेलफलात् अनेकानि फलानि समुत्पादनम् अकरोत्।कथ्यते तत् शिवः त्रिनेत्रधारी वर्तते। अनेनैव नारिकेल फलेष्वपि त्रीणि नेत्राणि भवन्ति। शिवशिरसि जटावत् फलेऽस्मिन् जटाः समुत्पद्यन्ते। गणपतिः कर्कटमारुह्य तिमोदीसमीपं गतः अस्मात् कारणात् सर्वेषु कर्कटपृष्ठेषु गणेशस्य प्रतिमूर्तिः विराजते इति।

शब्दार्थाः

महावातः = समुद्री तूफान (आँधी) storm

लोमोलोमोद्वीपमनुप्राप्तः = लोमोलोमो द्वीप में पहुँचे reached the island lomo-lomo

कश्चिदनाथो युवको (कः) = किसी अनाथ युवक को to an orphan young-man

गभीरे समुद्रे = गहरे समुद्र में/समुद्र की गहराई में in deep sea

तत्समः = उसके समान like his

विजेता गण्यते = विजेता माना जायेगा will be the victorious

अधमर्णरूपे = अमानत के रूप में in the form of deposit

स्वस्वनावं संयोज्य = अपनी-अपनी नाव के साथ along with their

दुर्विपाकात् = दुर्भाग्य के कारण by dint of unfortune

प्रोच्चै रोदितुमारब्धः = उच्च स्वर में रोना शुरू कर दिया began to cry loudly

अर्द्धनारीश्वरौ = शिव और पार्वती Shiv and Parvati

रोदनध्वनिमाकर्ण्य = रोने की आवाज सुनकर hearing cry

करुणावशाच्चकम्पे = करुणावश काँपने लगे began to tremble with kindness

झञ्झावातेन = आँधी से by the storm

सर्वं सुष्ठु भविष्यति = सब ठीक हो जायेगा all will be right

नारिकेलम् = नारियल coconut

प्रतस्थे = प्रस्थान किया departed

पौन पुण्येन = बारम्बार again and again

वपनविधिमुपदिश्य = बोने की विधि बताकर telling the process of sowing

समुत्पादनम् अकरोत् = पैदा किये grown up

कर्कटमारुह्य = केकड़े पर चढ़कर riding on crab

प्रतिमूर्तिः = छाया/प्रतिचित्र shadow

कार्य-कालम्

1.निम्नलिखित प्रश्नों के संस्कृत में उत्तर दीजिए-
Answer the following questions in Sanskrit.

(क) कस्मिन् द्वीपे अनाथो युवकोऽवसत् ?

(ख) तिमोदी स्वोदरं परिपूतर्ये किं करोति स्म ?

(ग) तिमोदीधनिकनाविकर्योमध्ये का प्रतिज्ञा अभवत्?

(घ) नारिकेल फलस्य कीदृशः आकारः भवति?

(ङ) शिवः तिमोदीं किम् अवोचयत् ?

2.रिक्त स्थानों की पूर्ति कीजिए-
Fill in the blanks.

(क) समुद्रात् …… पर्वतेभ्यः कन्दमूलफलन्यादाय सः स्वोदरं प्रपूरयति स्म।

(ख) किञ्चित्काला न्तरं सागरे झटिति ……प्राचकटत्।

(ग) सर्व वृत्तान्तं निशम्य शिवेऽपि………।

(घ) …….. गणेशः पौन पुण्येन नमश्चक्रे।

(ङ) गणपतिः …….. तिमोदीसमीपं गतः अस्मात् कारणात् सर्वेषु कफट ठेषु गणेशस्य प्रतिमूर्ति विराजते इति ।

3.निम्नलिखित वाक्यों का संस्कृत में अनुवाद कीजिए-
Translate the following sentences into Sanskrit.

(क) वह हाथों के बिना मछलियाँ नहीं पकड़ सकता था।

(ख) तिमोदी गहरे समुद्र में कुशलता से नाव चलाता था।

(ग) तिमोदी ने सारी घटना शिव को सुनाईं।

(घ) वत्स! चिन्ता मत करो।

(ङ) भगवन्! उस वृक्ष का क्या नाम है ?

4.निम्नलिखित वाक्यों को बहुवचन में बदलिए-
Change the following sentences into the plural form.

(क) द्वीपे एको अनाथो युवकोऽवसत्।

(ख) कन्दमूलफलमादाय स जीवति ।

(ग) पुनः पुनः करुणरोदनध्वनिं निशम्य सा द्रवीभूता ।

(घ) क्व गतौ तव हस्त-पादौ कथञ्च विलपसि?

(ङ) सः विवाहं कृत्वा सुखेन स्वकालं यापयामास ।

5.(क) संधि-विच्छेद कीजिए-
Disjoin the words.

(i) द्वीपेऽस्मिन् …..+……

(ii) नाविकोऽपि……+……

(iii) कालान्तरम्…..+……

(iv) निर्धनश्चासीत् …..+……

(v) कथञ्च …..+……

(vi) करुणावशाच्चकम्पे …..+……

(ख) संधि कीजिए-
Join the words.


(i) कश्चित् + अनाथः

(ii) प्रति + अवोधत्

(iii) वृक्षस्य + अधः

(iv) शिव: + तु

(v) फलम् + अपि

(vi) च + अन्यथा

(ग) अर्थ लिखिए और संस्कृत में वाक्य प्रयोग कीजिए-
Write the meanings and make sentences into Sanskrit.

(i) मत्स्यानानीय

(ii) विहरन्ती

(iii) वृक्षाणाम्

(iv) स्वसुतम्

(v) सार्द्धम्

(vi) स्थापयित्वा

(घ) विलोम शब्द लिखिए-
Write the opposite words.

(i) पार्वत्या सह

(ii) आरुह्य

(iii) भक्तम्

(vi) नीत्वा

(v) हस्ताभ्याम्

(vi) समीपम्

Leave a Comment