प्रियं भारतम् – द्वादश: पाठ:

प्रकृत्या सुरम्यं विशालं प्रकामम्,

सरित्तारहारैः ललामं निकामम् ।

हिमाद्रिर्ललाटे, पदे चैव सिन्धुः,

प्रियं भारतं सर्वथा दर्शनीयम् ।।1।।

धनानां निधानं धरायां प्रधानम्,

इदं भारतं देवलोकेन तुल्यम्।

यशो यस्य शुभ्रं विदेशेषु गीतम्,

प्रियं भारतं तत् सदा पूजनीयम् ।। 2 ।।

अनेके प्रदेशाः अनेके च वेषाः,

अनेकानि रूपाणि भाषा अनेकाः ।

परं यत्र सर्वे वयं भारतीयाः,

प्रियं भारतं तत् सदा रक्षणीयम्।।3।।

वयं भारतीयाः स्वदेशं नमामः,

परं धर्ममेकं सदा मानयामः ।

तदर्थं धनं जीवनं चार्पयामः,

प्रियं भारतं मे सदा वन्दनीयम्।।4।।

शब्दार्थाः

सुरम्यम् = सुन्दर, रमणीय ।

प्रकामम् = अत्यन्त

ललामम् = सुन्दर ।

निकामम् = अत्यधिक ।

सरित्तारहारैः = नदी रूपी उज्ज्वल हारों से।

हिमाद्रि = हिमालय हिम का अद्रि (पर्वत)।

ललाटे = भाल पर ।

पदे = पद तल में।

सर्वथा = हर तरह से।

दर्शनीयम् = देखने योग्य।

निधानम् = भण्डार ।

शुभ्रम् = उज्ज्वल ।

अनेके = बहुत से ।

नमामः = (हम) प्रणाम करते हैं।

सिन्धुः = समुद्र ।

सर्वथा = हर तरह से।

धरायाम् = पृथ्वी पर ।

शुभ्रम् = उज्जवल।

तदर्थम् = उसके लिए।


अभ्यासः


1- उच्चारणं कुरुत पुस्तिकायां च लिखत-

प्रकृत्या सरित्तारहारैः हिमाद्रिर्ललाटे शुभ्रम् चार्पयामः रक्षणीयम्

2- एकपदेन उत्तरत

(क) भारतस्य ललाटे किमस्ति ?

(ख) कस्य शुभ्रं यशः विदेशेषु गीतम् अस्ति ?

(ग) भारते कियन्तः वेषाः सन्ति ?

(घ) वयं भारतीयाः कं नमामः ?

3- पूर्णवाक्येन उत्तरत-

(क) भारते कियन्तः प्रदेशाः कियत्यश्च भाषाः सन्ति ?

(ख) इदं भारतं कस्य निधानं केन च तुल्यम् ?

(ग) वयं भारतीयाः किं किम् अर्पयामः ?

(घ) वयं सदा कं धर्मं मानयामः ?

4- संस्कृते अनुवादं कुरुत –

(क) प्रिय भारत सर्वथा दर्शनीय है।

(ख) भारत देवलोक के समान है।

(ग) इसमें बहुत से प्रदेश हैं।

(घ) हम भारतीय अपने देश को प्रणाम करते हैं।

5- मञ्जूषातः पदानि चित्वा वाक्यानि पूरयत-

(क) प्रियं भारतं सर्वथा दर्शनीयम् ।

(ख) इदं भारतं देवलोकेन तुल्यम् ।

(ग) अनेकानि रूपाणि, भाषा अनेका:

(घ) वयं भारतीयाः स्वदेशम् नमाम:।

(ङ) तदर्थ धनं जीवनं च अर्पयाम:

6- विशेष्यैः सह यथायोग्यं विशेषणानि योजयत –

विशेष्यम्विशेषणम्
भारतम्प्रियम्
यशःशुभ्रम्
भाषाःअनेकाः
प्रदेशाःअनेके
7-अनीयर् (अनीय) प्रत्ययं योजयित्वा पदानि लिखत –

धातुः प्रत्ययः पदम्
यथा– दृश् + अनीयर् = दर्शनीयम्
पूज् + अनीयर् = पूजनीयम्
पठ् + अनीयर् = पठनीयम्
वन्द् + अनीयर् = वन्दनीयम्
कथ् + अनीयर् = कथनीयम्

एतदपि जानीत- कुछ माप (तौल) का संस्कृत नाम-

पाव = कुडव:

सेर = सेर:, प्रस्थ:

पैसा = पण:

Leave a Comment