रक्षत बालिका: पाठयत बालिका: – Rakshat balikah pathayt balikah – सप्तदश: पाठ:

शिक्षिका – सुप्रभात छात्राः !
छात्राः – सुप्रभातं महोदये!
शिक्षिका – अदय कः दिनाङ्कः ?
बालिका:- अद्य जनवरीमासस्य चतुर्विंशति दिनाङ्कः ।
शिक्षिका – अयं दिनाङ्कः “राष्ट्रिय-बालिका-दिवस”
इति रुपेण प्रतिवर्षम् आयोज्यते ।
बालिका- राष्ट्रिय-बालिका-दिवसस्य कः अभिप्रायः ?
कृपया बोधयतु ।
शिक्षिका– श्रुणु बालिकानां संवर्द्धनार्थं भारतसर्वकारस्य महिला एवं बालविकासमंत्रालयेन 2008 तमे वर्षे प्रतिवर्षं बालिकादिवसस्य आयोजनाय निर्णय कृतम् ।
बालिका:- महोदये! इदं राष्ट्रियबालिकादिवसस्य आयोजनं किमर्थम् ?
शिक्षिका — भारतदेशे बालिकाभ्यः समानावसरं प्रदातुं एष प्रकल्पः ।
बालिका:- महोदय ! अस्माकं ग्रामेषु इदानीमपि बालिकाभ्यः शिक्षायाः समानावसरः न मिलति ।
अधुनापि प्रायेण अभिभावकाः स्व बालिकाः विद्यालयं न प्रेषयन्ति । किम् एतस्याः समस्या समाधानाय सर्वकारस्य काचित् योजना वर्तते ?

शिक्षिका – सुष्ठक्तं युष्माभिः। एतदर्थं सर्वकारः अहर्निशं प्रयतमानः विद्यते । भारतसर्वकारेण एतासां समस्यानां समाधानार्थम् अनेकाः योजनाः सञ्चालिताः सन्ति ।

बालिकाः – वयमपि ताः योजनाः ज्ञातुं समुत्सुकाः स्म ।
शिक्षिका -शृणवन्तु बालिकानां शिक्षायै तु समस्ते राष्ट्रे भारत सर्वकारेण कस्तूरबा गांधी-बालिका- विद्यालयानां’ स्थापना कृता वर्तते । यत्र षट्वर्षतः चतुर्दशवर्षपर्यन्तमस्य आयुवर्गस्य बालिकाः विद्यालस्य परिसरे पठन्ति निवसन्ति च । अपि च याः बालिकाः केनचित् कारणेन पूर्वमेव अध्ययनात् विरताः तासाम् अपि प्रवेशः अस्मिन् विद्यालये भवति ।

रचना – महोदये! बालिकानां आर्थिकसहयोगाय काऽपि योजना अस्ति वा ?
शिक्षिका – आम् वस्तुतः बालिकाः आर्थिकरूपेण सबलाः स्युः इति उद्दिश्य ‘सुकन्यासमृद्धि-योजना‘ चलति। अस्यां योजनायां बालिकानां शिक्षा-विवाहादिकृते तासां धनराशिसंचयनप्रोत्साहनस्य व्यवस्था
अस्ति ।

छात्रा: – महोदये! एतदतिरिक्तं बालिकाशिशूनाम् कृते कापि योजना प्रचलिता अस्ति ?

शिक्षिका – अस्त्येव । बालिकायाः स्वास्थ्यं सुरक्षां च अभिलक्ष्य ‘एका धनलक्ष्मी योजना अपि प्रचलिता । अस्यां योजनायां यदा कश्चिद् बालिकाशिशुः जायते तदा तस्य परिवारः एकेन निश्चितेन धनराशिना योज्यते ।

छात्रा: – आम् महोदये! भारतसर्वकारेण बालिकानां विकासाय याः योजनाः संचालितास्ताः विज्ञाय वयं प्रमुदिता स्मः ।


शब्दार्थाः

चतुर्विंशतिः = चौबीस ।

संवर्द्धनार्थ = संवर्द्धन के लिए ।

भारतसर्वकारस्य = भारत सरकार की।

न प्रेष्यन्ति = नहीं भेजते हैं।

षड्वर्षतः चतुर्दशवर्षपर्यन्तस्य = छह वर्ष से चौदह वर्ष तक की ।

जायते = उत्पन्न होती है।

न प्राप्यते = नहीं मिलता है।

1. उच्चारणं कुरुत पुस्तिकायां च लिखत-

संवर्द्धनार्थम् सुष्टृक्तम् चतुर्विंशतिः अहर्निशं शृण्वन्त भारतसर्वकारस्य

2. अधोलिखित पदानां सन्धि-विच्छेदं कुरुत-
पत्रालयः- …….+…….
समानावसरः-………+…..….
पूर्वमेव-…….+……..
समानाधिकारः- ……+…….

3.मञ्जूषातः पदानि चित्वा वाक्यानि पूरयत-

(क) अस्माकं ग्रामेषु इदानीमपि…बालिकाभ्यः ..शिक्षायाः समानावसरः न प्राप्यते ।

(ख) बालिकायाः स्वास्थ्यं सुरक्षां च अभिलक्ष्य’ एका. धनलक्ष्मी- योजना’…अपि प्रचलिता ।

(ग) बालिकाः आर्थिकरूपेण..सबला स्युः..इति उद्दिश्यं ‘सुकन्यासमृद्धि योजना चलति स्म ।

4.पूर्णवाक्येन उत्तरत-

(क) धनलक्ष्मी योजनायाः के के लाभाः सन्ति ?
(ख) राष्ट्रिय बालिका दिवसः कदा आयोज्यते ?
(ग) कस्तूरबा गांधी बालिका विद्यालयानां स्थापनायाः किं प्रयोजनम् ?

5. संस्कृत भाषायाम् अनुवादं कुरुत-

(क) बालिका शिक्षा के संवर्द्धन हेतु अनेक योजनाएँ है।
(ख) बेटा और बेटी को समान अधिकार मिलने चाहिए।
(ग) बालिका शिक्षा का सामाजिक विकास में बहुत महत्वपूर्ण स्थान है।
(घ) 24 जनवरी को राष्ट्रीय बालिका दिवस मनाया जाता है।

5. मेलनं कुरुत-

सुकन्या समृद्धि योजनाधनसंचय योजना
कस्तूरबागांधी बालिकाविद्यालयआवासीय विद्यालयः
धनलक्ष्मीयोजनाशिशुबालिकाजन्मसंबधा
राष्ट्रिय बालिका दिवसःजनवरीमासस्य चतुर्विंशतिः दिनांङ्कः
7.एकपदेन उत्तरत-

अन्तर्राष्ट्रिय बालिका दिवस:-

अन्तर्राष्ट्रिय महिला दिवस:-

राष्ट्रिय बालिका दिवस:-

एतदपि जानीत-

महिला सहायता दूरभाष संख्या-1090

एम्बुलेन्स सहायता दूरभाष संख्या-108

पुलिस सहायता दूरभाष संख्या-112

बाल सहायता दूरभाष संख्या-1098

अग्निशमन सहायता दूरभाष संख्या-101


Leave a Comment