रामभरतयो: मेलनम् – एकदश: पाठ:

(ततः प्रविशति भरतः रथेन सुमन्त्रः सूतश्च)

भरत:- भोः तात! भरत:-
सुमन्त्रः- कुमार! अयमस्मि ।
भरत:- क्च तत्र भवान् मम आर्यः रामः?
सुमन्त्र:- कुमार एतस्मिन् एव आश्रमे रामः सीता लक्ष्मणश्च स्थिताः ।
भरतः– भोः तात! निवेद्यतां निवेद्यताम् ।
सुमन्त्रः– कुमार! किमिति निवेद्यते ?
भरत:- राज्यलुब्धायाः कैकेय्याः पुत्रः भरतः प्राप्तः इति ।
राम:- सर्वथा न अयम् अबान्धवस्य स्वरसंयोगः क्लेदयतीव में हृदयम् । वत्स लक्ष्मण! दृश्यतां तावत्!
लक्ष्मणः– यदाज्ञापयति आर्यः । (परिक्रामति) एहि एहि इक्ष्वाकु कुमार! स्वागतम् ।
भरत:- अनुगृहीतोऽस्मि ।
लक्ष्मणः– बाढम्। (उपेत्य) जयतु आर्यः ।
अयं ते दयितो भ्राता भरतो भ्रातृवत्सलः।
संक्रान्तं यत्र ते रूपमादर्श इव तिष्ठति ।।
सीता– आर्यपुत्र किं भरतः आगतः ?
रामः– सत्कृत्य शीघ्रं प्रवेश्यतां कुमारः । सीता स्वयं गच्छतु। सीता– यदार्यपुत्र आज्ञापयति । (उत्थाय परिक्रामति)
भरतः– आर्ये! अभिवादये, भरतोऽहमस्मि ।
सीता– चिरं जीव ! एहि वत्स भ्रातृमनोरथं पूरय ।
भरतः– (राममुपगम्य) आर्य! अभिवादये, भरतोऽहमस्मि ।
राम:- (सहर्षम्) स्वस्ति आयुष्मान् भव! सुविपुलेन भुजद्वयेन माम् आलिङ्ग ।
भरतः– अनुगृहीतोऽस्मि । प्रसीदतु आर्यः ।
सुमन्त्रः– अथेदानीम् अभिषेकोदकं क्च तिष्ठतु ।
राम:- यत्र मे मात्राऽभिहितं तत्रैव तावत् तिष्ठतु ।
भरत:- हन्त! अनुत्तरमभिहितम्। परं तु मम हस्ते निक्षिप्तं तव राज्यं चतुर्दश वर्षान्ते प्रतिग्रहीतुमिच्छामि ।
राम:- एवमस्तु ।
भरत:- आर्य! अन्यमपि वरं इच्छामि ।
राम:- वत्स! किम् इच्छसि ? किम् अहं ददामि ?
भरत:- पादोपभुक्ते एते तव पादुके मे प्रयच्छ ।
राम:- तथास्तु । वत्स! गृह्यताम् ।


शब्दार्थाः



मेलनम् = मिलन ।

स्वरसंयोगः = आवाज का संयोग ।

निवेद्यताम् = सूचित किया जाय।

राज्यलुब्धायाः = राज्य का लोभी ।

आवाज का संयोग । क्लेदयति

उपेत्य = आकर।

दयितः = प्रिय ।

भ्रातृवत्सलः =भाई के प्रति स्नेह रखने वाला।

संक्रान्तम् = प्रतिफलित या प्रतिबिम्बित ।

रूपम् = छवि / प्रतिबिम्ब।

अभिषेकोदकम् = अभिषेक हेतु जल ।

तिष्ठतु = रखा जाय (डाला जाय) ।

क्लेदयति = आर्द्र या गीला करता है।

बाढम् = बहुत अच्छा।

आदर्शः = दर्पण।

मात्राऽभिहितम् = माता के द्वारा कहा गया।

प्रतिग्रहीतुम् = स्वीकार करने हेतु।

पादुके = दोनों खड़ाऊँ ।

पादोपभुक्ते = पैरों में पहना हुआ ।

प्रयच्छ = दे दीजिए।


अभ्यासः


1- उच्चारणं कुरुत पुस्तिकायां च लिखत-
राज्यलुब्धायाः अनुगृहीतोऽस्मि क्लेदयतीव अनुत्तरमभिहितम् इक्ष्वाकुकुमारः चतुर्दशवर्षान्ते

2- एकपदेन उत्तरत-

(क) रामः सीता लक्ष्मणश्च कुतः स्थिताः आसन् ?
(ख) पितुः नियोगात् कः वनम् आगतः ?
(ग) अन्यमपि वरं कः इष्टवान् ?
(घ) पादोपभुक्तौ चरणपादुकौ कः अयाचत ?

3- पूर्णवाक्येन उत्तरत-

(क) भोः तात! निवेद्यतां निवेद्यतां कः उक्तवान् ?

(ख) भरतः कस्याः पुत्रः आसीत् ?

(ग) लक्ष्मणेन भरतस्य स्वागताय किम् अकथयत् ?

(घ) सीतायाः भरतं प्रति कः आशीषः आसीत् ?

4संस्कृतभाषायाम् अनुवादं कुरुत-

(क) दूसरा वर भी प्राप्त करना चाहता हूँ।
(ख) राम सीता व लक्ष्मण इस आश्रम में रहते हैं।
(ग) भरत आ गये ।
(घ) मैं अनुगृहीत हुआ ।

5- अधोलिखितवाक्येषु रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
(क) आश्रमे एव रामः सीता लक्ष्मणश्च स्थिताः ।
(ख) एहि वत्स भ्रातृमनोरथं पूरय ।
(ग) अन्यमपि वरम् इच्छामि ।
(घ) तव पादुके प्रणताय मे प्रयच्छ।

6- अधोलिखितपदेषु सन्धिं कृत्वा लिखत-
(क) क्लेदयति+इव ………..
(ख) सु+आगतम् …………
(ग) अथ+इदानीम् ………….
(घ) अभिषेक+उदकम् ………..

7- अधोलिखितानि पदानि प्रयुज्य वाक्यरचनां कुरुत-
यथा- भरतः भरतः भ्रातृवत्सलः आसीत् ।

(क) अनुगृहीतः
(ख) स्वागतम्
(ग) वरम्
(घ) अन्यमपि

Leave a Comment