स्फुट्पद्यानि – पञ्चम:पाठ:

काकः कृष्णः पिकः कृष्णः को भेदः पिक-काकयोः ।
वसन्तसमये प्राप्ते काकः काकः पिकः पिकः ।। 1 ।।


विद्या विवादाय धनं मदाय शक्तिः परेषां परिपीडनाय ।
खलस्य साधोर्विपरीतमेतत् ज्ञानाय दानाय च रक्षणाय ।।2।।


लोभात् क्रोधः प्रभवति लोभात् कामः प्रजायते ।
लोभात् मोहश्च नाशश्च लोभः पापस्य कारणम् ।।3।।


वदनं प्रसादसदनं सदयं हृदयं सुधामुचो वाचः ।
करणं परोपकरणं येषां केषां न ते वन्द्याः ।। 4 ।।


सत्येन रक्ष्यते धर्मो विद्या योगेन रक्ष्यते ।
मृजया रक्ष्यते रूपं कुलं वृत्तेन रक्ष्यते ।। 5 ।।

शब्दार्थाः

भारः = बोझ ।

विवादाय = विवाद के लिए।

मदाय = मद

पिकः = कोयल ।

प्राप्ते = आने पर।

परिपीडनाय= दूसरों को सताने के लिए।

खलस्य= दुष्ट का।

साधोः = सज्जन का।

विपरीतम् = उल्टा।

प्रसाद-सदनम् = प्रसन्नता का आगार।

सुधामुचः = अमृत बरसाने वाली ।

वन्दद्याः = वन्दनीय ।

वृत्तेन = सदाचार से ।

सदयम् = दया से परिपूर्ण ।

योगेन = अभ्यास।

मृजया = धोने-माँजने से।


अभ्यासः


1- उच्चारणं कुरुत पुस्तिकायां च लिखत-
साधोर्विपरीतमेतत्, रक्षणाय, मोहश्च, सुधामुचो, रक्ष्यते, मृजया ।


2- एकपदेन उत्तरत-
(क) काकस्य कीदृशः वर्णः भवति ?
(ख) साधोः विद्या किमर्थ भवति ?
(ग) लोभः कस्य कारणम् ?


3- पूर्णवाक्येन उत्तरत-
(क) कस्मिन् समये काकपिकयोः भेदः स्पष्टः भवति ?
(ख) कुलं केन रक्ष्यते ?
(ग) लोभात् किं प्रभवति ?


4- पूर्णवाक्येन-
खलस्य सार्धोर्विपरीतमेतत्
लोभात् मोहश्च नाशश्च
वदनं प्रसादसदनं
मृजया रक्ष्यते रूपम्
लोभः पापस्य कारणम्
सदयं हृदयं सुधामुचो वाचः
कुलं वृत्तेन रक्ष्यते
ज्ञानाय दानाय च रक्षणाय

5- उपयुक्तकथनानां समक्षम् ‘आम्’ इति अनुपयुक्तकथनानां समक्षं ‘न’ इति लिखत-
(क) विद्या योगेन रक्ष्यते ।
(ख) साधोः विद्या विवादाय भवति ।
(ग) लोभः पापस्य कारणं भवति ।

6- संस्कृतभाषायाम् अनुवादं कुरुत-
(क) लोभ मोह और नाश का कारण है। (ख) कुल की रक्षा सदाचार से होती है।
(ग) साधु की शक्ति दूसरों की रक्षा के लिए होती है। (घ) महापुरुषों का हृदय कोमल होता है।


7-निम्नलिखितपदानां संस्कृतस्य लघुवाक्येषु प्रयोगं कुरुत
(क) धनम्. ………
(ख) सत्यम. ………
(ग) लोभः. ………
(घ) हृदयं. ………


स्मरणीयम् –


किं कर्त्तव्यम्
किं कर्त्तव्यं संकटकाले ? धैर्य-धारणम् ।

किं कर्त्तव्यं दुर्जनसंगे ? मौन-धारणम् ।

किं कर्त्तव्यं वर्षासमये ? छत्र-धारणम् ।

किं कर्त्तव्यं संकटकाले ? दण्ड-धारणम् ।


नास्त्युद्यमसमो बन्धुः ।

Leave a Comment