शतबुद्धि-सहस्रबुद्धि-कथा – दशम: पाठ:

कस्मिंश्चिद् जलाशये शतबुद्धिः सहस्रबुद्धिश्चेति द्वौ मत्स्यौ निवसतः स्म । तयोः एकबुद्धिनामकेन मण्डूकेन मित्रताऽभवत्। कदाचिज्जालहस्ताः धीवराः तं जलाशयमुपगताः । तेषु एको धीवरः अवदत्-एतस्मिन् जलाशये बहवो मत्स्याः सन्ति, अतः तान् ग्रहीतुं श्वोऽत्र जालं क्षेप्स्यामः । तच्छ्रुत्वा मत्स्याः दुःखिनः अभवन् । तेषु मण्डूकः प्राह भोः शतबुद्धे! श्रुतं धीवरोक्तं भवता । ततः किं कर्तव्यम् ? पलायनम् अवष्टम्भो वा । सहस्रबुद्धिः अवदत्- मित्र!मा भैषीः । केवलं वचनश्रवणादेव न भेतव्यम् ।

सर्पाणां च खलानां च सर्वेषां दुष्टचेतसाम् ।

अभिप्राया न सिध्यन्ति तेनेदं वर्तते जगत् । ।

शतबुद्धिरपि अकथयत् साधु उक्तं त्वया । त्वं सहस्रबुद्धिः असि । तव सदृशी बुद्धिः कस्यापि नास्ति । वचनमात्रेण स्वजन्मस्थानं न त्याज्यम् ।
अहं त्वां सुबुद्धिप्रभावेण रक्षयिष्यामि । मण्डूक आह-भोः ! मम त्वेका एव बुद्धिः । अहं तु अत्र न स्थास्यामि। अन्यं जलाशयं गमिष्यामि । एवमुक्त्वा सः अन्यजलाशयं गतः । ततः प्रभाते धीवरैः आगत्य जालमध्ये मत्स्य-कूर्म–मण्डूक-कर्कटादयो निगृहीताः। शतबुद्धिसहस्रबुद्धिमत्स्यौ अपि निगृहीतौ। अपराह्णे सुखं गच्छत्सु धीवरेषु एकस्य शिरसि आरोपितं शतबुद्धिम् अपरस्य हस्ते प्रलम्बमानं सहस्रबुधिं चालोक्य मण्डूकः स्वपत्नीमकथयत्-

शतबुद्धिः शिरस्थोऽयं लम्बते च सहस्रधीः ।

एकबुद्धिरहं भद्रे ! क्रीडामि विमले जले ।।

(पञ्चतन्त्रतः)

शब्दार्थाः


मत्स्यौ = दो मछलियाँ ।

मण्डूकेन = मेढक से।

जालहस्ताः धीवराः पहुँचे ।

श्वः = आने वाला कल ।

क्षेप्स्यामः = फेंकेंगे ।

उपगताः =पहुंचे।

अवष्टम्भः = रुकना ।

मा भैषीः = मत डरो ।

स्थास्यामि = रहूँगा।

धीवरा = हाथ में जाल लिये हुए मछुआरे ।

पलायनम् = भागना।

न भेतव्यम् = नहीं डरना चाहिए।

दुष्टचेतसाम् = दुष्ट हृदय वालों का।

कूर्म-मण्डूक-कर्कटादयः = कछुआ, मेढक, केकड़े आदि ।

निगृहीतौ = (दोनों मछलियाँ) पकड़ ली गयीं।

प्रलम्बमानम् = लटकते हुए।

सहस्रधीः = हजार बुद्धि वाला।

शिरःस्थः = सिर पर स्थित ।

लम्बते = लटक रहा है।


अभ्यासः


1- उच्चारणं कुरुत पुस्तिकायां च लिखत-
कस्मिंश्चिद् तच्छ्रुत्वा मत्स्यौ कदाचिज्जालहस्ताः अवष्टम्भः श्वोऽत्र

2- एकपदेन उत्तरत-
(क) शतबुद्धिः सहस्रबुद्धिश्च कुत्र निवसतः स्म ?
(ख) जालहस्ताः धीवराः कम् उपगताः ?
(ग) कस्य एका बुद्धिरासीत् ?
(घ) जलाशये बहवः के सन्ति ?

3- कः उक्तवान् इति लिखत-
(क) एतस्मिन् जलाशये बहवः मत्स्याः सन्ति ।
(ख) केवलं वचनश्रवणादेव न भेतव्यम् ।
(ग) त्वं सहस्रबुद्धिः असि ।
(घ) भोः! मम तु एका एव बुद्धिः।

4- मञ्जूषातः पदानि चित्वा वाक्यानि पूरयत-
(क) द्वौ मत्स्यौ निवसत: स्म
(ख) एको धीवरः अवदत्
(ग) श्वोऽत्र जालं क्षेप्स्याम:
(घ) तव सदृशी बुद्धिः कस्यापि नास्ति
(ङ) अहं त्वां सुबुद्धिप्रभावेण रक्षयिष्यामि

5- हिन्दीभाषायाम् अनुवादं कुरुत-

(क) तच्छ्रुत्वा मत्स्याः दुःखिनोऽभवन् ।

(ख) अहं त्वां सुबुद्धिप्रभावेण रक्षयिष्यामि ।

(ग) अहं तु अत्र न स्थास्यामि ।

(घ) मण्डूकः स्वपत्नीम् अकथयत्।

6- समासविग्रह कृत्वा समासस्य नाम लिखत-

सामासिकपदम्समासविग्रहःसमास-नाम
जलाशय:जलस्य आशयःतत्पुरुषः ।
जालमध्ये……………………
स्वपत्नीम्………….………….
जन्मस्थानम्………….………….
मत्स्यकूर्ममण्डूकाः…………..…………..
7- निम्नलिखित-पदानां विभक्ति वचनं च लिखत-
पदम्विभक्तिःवचनम्
भवतातृतीयाएकवचनम् ।
त्वया………..………….।
तान्……………………।
धीवराः…………………….।
सर्पाणाम्…………………….।
एतदपि जानीत-


वाहनों का संस्कृत में नाम-

गाड़ीशकटः, शकटिका
साइकिलद्विचक्रिका
हवाई जहाजवायुयानम्/विमानम्
जहाजपोतः, जलयानम्


Leave a Comment