शत्रुतायाः रहस्यम् (Secret of Enmity) – त्रयोदश: पाठः (13)

इयं कथा तस्य समयस्यासीत् यदा सर्वे पशवः मैत्रीपूर्वकं अवसन्। एकदा चैकस्मिन्नवसरे कुक्कुरश्चान्यनगस्थान् कुक्कुरान् आमन्त्रितम् अकुर्वन्। जातिगतसंबंधेन कुक्कुराणां तत्र गमनमावश्यकं सञ्जातं किन्तु तेषां पार्श्वे महत्त्वपूर्णानि कर्गजान्यासन्। सुरक्षिते स्थाने निक्षिप्य ते गन्तुमैच्छन् परं कुत्रास्ति तत् सुरक्षित स्थानम्? सर्वे विचारमग्ना संजाताः ।

कश्चित् कुक्कुरोऽवदत्-” वयमस्मिनजीर्णे मन्दिरे कर्गजानि निक्षिप्य गच्छामः।” अन्ये प्रोचुः–“नैतत्कर्तुं शक्यते यत्कोऽपि रहस्यमेतद् विजानीयात्?” द्वितीयः अवदत्-” श्रेष्ठिन् पार्श्वे निक्षिप्य गच्छामः।” सर्वे प्रोचुः-नैतत् युक्तं चौरश्चायं श्रेष्ठी।” अपरः प्राह-“रक्षापुरुषस्थाने निक्षिप्य गच्छामः।” सर्वे प्रोचुः–“हन्त! अस्मिन् युगे रक्षापुरुषाणां को विश्वास: ?” अन्य प्राह – ” कथन्न वयं कर्गजानि सहैव नीत्वा प्रचलाम: ?” द्वितीया अवदत्–“नहि, नहि, मार्गे जलप्रवर्षणेन कर्गजानि विनष्टानि भविष्यन्ति।”
तस्यां संसदि वृद्धश्चैकं कुक्कुरं जोषमस्थात् । सः किञ्चिद्वक्तुमियेष सर्वे तस्या दिशि नयनानि चिक्षिषुः। वृद्धः कुक्कुरोऽवदत्-“कस्मिंश्चिद् विश्वसितुं तु वयं विवशाः विश्वासबलेनैव जगतः कार्याणि प्रचलन्ति।” सर्वे अवदन्–“तर्हि भवतां मते को विश्वासयोग्यः ? वृद्धः उवाच – “विडालेषु विश्वासः करणीयः।” तीव्रेण स्वरेण सर्वे विरोधं कृतः। परमन्ते पक्ष-विपक्षे मतगणना सञ्जाता। प्रबलबहुमतेन विडालानाहूय कर्गजानि प्रदत्तानि।
विडालैः कर्गजानि तु ग्रहीतानि परं तेषां मध्ये सुरक्षायाः प्रश्नः आसीत्। ते सभामाकारयामासु। एकः विडालः स्वमतं प्रकटीकृतवान्–‘“हर्म्यपृष्ठे कर्गजानि निक्षिपन्तु भवन्तः।” अन्यः प्रोवाच-“यदि वर्षर्तौः कर्गजानि चार्द्रणि भविष्यन्ति तर्हि कुक्कुराश्चास्मान् विभेदयिष्यन्ति।” अपरः अवदत्-“भूगर्ते निक्षिपन्तु भवन्तः कर्गजानि?” सर्वे प्रोचु–“नहि, नहि कर्गजानि विनिष्टानि भविष्यन्ति।” एको वृद्धो विडालः प्राह-सर्वश्रेष्ठमुपायं चास्ति यत् काष्ठमञ्जूषायां कर्गजानि पातनीयानि क्रमेण अस्माभिस्तेषां रक्षा च करणीया। सर्वे चैकस्वरेण प्राहुः-साधु, साधु एवमेव करणीयम्।
सर्वे मिलित्वा तथैव अकरोत्। क्रमेण ते कर्गजानि रक्षयन्तश्चासन् बहूनि दिनानि व्यपगतानि। अन्ततः शीतकालः समागतः नाद्यावधि कुक्कुराः निवृत्ताः। दारुणे शीते रात्रौ जागर्तुं ते काठिन्यम् अनुभवन्। पुनरेका संसदायोजिता। एका विडाला अवदत्-“कथं न कर्गजन्येतानि गुप्तस्थाने निक्षिप्तव्यानि स्युः?” वृद्धो विडालः प्राह-” मन्मते तु मूषकाणां विलेषु कर्गजानि निक्षिप्येरन्।” वृद्धेनानेन साधूक्तम्, सर्वतो ध्वनिर्वितस्तार।
मूषकै: स्वीकृतस्तेषां प्रस्तावः । विवरस्य चैकस्मिन्कोणे न्यक्षिपन् ते कर्गजानि निश्चिन्ताश्च जाताः। क्रमशः शीतस्य प्रभावो वृद्धिं गतः । भूमिविवरेष्वपि मूषकाः कम्पामानाः चासन् । यदा शीतत्राणार्थं ते कम्प्युपायं न प्राप्नोत् तदैव धूर्तस्य एकस्य मूषकस्य दृष्टि कर्गजेष्वपतत्। सः अवदत्-“कथन्न वयं कर्गजेषु गृहं निर्मापयिष्यामः।” इत्थं कृते सति निश्चप्रचं सीताद्रक्षा भविष्यति ‘निमज्जतः कृते तृणस्याधारः’। अनया चोक्त्या ते सर्वे कर्गजेषु विविशुः।
“रिक्तं चित्ते दुर्बुद्धयो भवन्ति।” किञ्चिद् दिनानन्तरं ते कर्गजति कर्तितुमारभत् । यतो हि “स्वभावो मूर्ध्नि वर्तते”। शीतकालोऽपि व्यपगतः। बुभुक्षितास्ते कर्गजपत्राणि भोक्तुमारब्धवन्तः शनैः शनैः पत्राण्यपि समाप्तानि। वसन्तर्तौः समुपागते कुक्कुराः प्रतिनिवृत्ताः । सर्वप्रथमं ते स्वकर्गजान्यानेतुं विडालवसतौ तदनन्तरं मूषकविवरम् अनुप्राप्ताः। तत्र खण्डशः कृतानि स्वकर्गजान्यवलोक्य ते भृशं क्रुद्धाः अभवन्। ते मूषकेष्वाक्रमणं चक्रुः। विडालेष्वपि ते क्रोधान्विता निपेतुः। यथाकथञ्चित्तेषां तात्कालिकं युद्धं तु समानं किन्तु तेषां शाश्वतिको विरोधश्चाद्यावधि प्रचलितः ।

शब्दार्था:

मैत्रीपूर्वकम् = मित्रतापूर्वक friendly

कुक्कुरान् = कुत्तों को to the dogs

गमनावश्यकं संजातं = जाना जरूरी था/ हुआ reaching was necessary

हर्म्यपृष्ठे = छत पर on the roof

भूगर्ते = भूमि के अंदर in the earth

निक्षिप्य = छिपाकर after

चौरश्चार्य श्रेष्ठी = यह सेठ चोर है this rich man is thief

रक्षापुरुषस्थाने = थाने में in the police

जलप्रवर्षणेन = बारिश होने पर on being rain

जोषमस्थात् = चुपचाप बैठा था was sitting silent

नयनानि चिक्षिषुः = दृष्टि डाली looked at

विश्वासबलेनैव जगतः = विश्वास के बल से ही संसार है on the might of belief

परन्ते = परन्तु but

प्रबलबहुमतेन = प्रबल बहुमत द्वारा by strong majority

वर्षतौर्: = वर्षा ऋतु में in

काष्ठमञ्जूषायां = लकड़ी के संदूक में in the box of wood

संसदायोजिता = बैठक का आयोजन किया arranged a meeting

विवरस्य चैकस्मिनकोणे = बिल के एक कोने में in the corner of a hole

वृद्धिं गतः = बढ़ गया affected much

शीतत्राणार्थम् = ठंड से बचने के लिए to save from the cold

इत्थं कृते सति = ऐसा करने से by doing so

सीताद्रक्षा = ठंड से रक्षा the protection from cold

निमज्जतः कृते तृणस्याधारः = डूबते को तिनके का सहारा drowning man catches at strat

रिक्तं चित्ते दुर्बुद्धयो भवन्ति = खाली मन शैतान का घर होता है empty mind is devil’s workshop

स्वभावोमूनि वर्तते = चूहे के जाये बिल ही खोदते हैं you cannot go against your nature

भोक्तुमारब्धवन्त = खाना आरम्भ कर दिया began to eat

स्वकगंजान्यवलोक्य = अपने दस्तावेजों को देखकर seeing his documents

शाश्वितको विरोधः = निरन्तर चलने वाला विरोध regular opposition

कार्य-कालम्

1.निम्नलिखित प्रश्नों के संस्कृत में उत्तर दीजिए-
Answer the following questions in Sanskrit.


(क) आमन्त्रितस्थाने गमनसमये कुक्कुराः किमर्थं विचारमग्नाः सञ्जाताः ?

(ख) कुक्कुरः यदा प्राह-‘रक्षापुरुषस्थाने निक्षिप्य गच्छामः’ तदा सर्वे किं प्रोचुः ?

(ग) वृद्ध कुक्कुरः किमवदत् ?

(घ) विडालाः कर्गजानि कस्मै प्रदत्तम् ?

(ङ) ‘निमज्जतः कृते तृणस्याधारः’ वाक्येऽस्मिन् कोऽभिप्रायः ?

1.रिक्त स्थानों की पूर्ति कीजिए-
Fill in the blanks.

(क) ……. कुक्कुराणां तत्र गमनावश्यकं सञ्जातं किंतु तेषां पार्श्वे महत्त्वपूर्णानि कर्गजान्यासन् ।

(ख) नहि नहि, मार्गे जलप्रवर्षणेन …….विनिष्टानि भविष्यन्ति।

(ग) कस्मिंश्चिद् विश्वसितुं तु वयं विवशाः ……. जगतः कार्याणि प्रचलन्ति।

(घ) कथं न कर्गजन्येतानि …….. निक्षिप्तव्यामि स्युः ?

(ङ) बुभुक्षितास्ते कर्गजपत्राणि …….. शनैः शनैः पत्राण्यपि समाप्तानि ।

3.निम्नलिखित शब्द रूपों के मूल शब्द, लिङ्ग, विभक्ति और वचन लिखिए-
Write the root word, gender, case ending and number of each of following word forms.

पदमूल शब्दलिङगविभक्तवचन
(क) तेषाम्
(ख) स्वरेण
(ग) जलप्रवर्षणेन
(घ) हर्म्यपृष्ठे
(ङ) रक्षापुरुषाणाम्

4. निर्देशानुसार धातु रूप लिखिए-
Write the conjugate according to the instructions.

(क) ‘कृ’ धातो: – लोट् लकार – मध्यम पुरुष

(ख) ‘गम्’ धातोः – लङ् लकार – प्रथम पुरुष

(ग) ‘अस्’ धातोः – लृट् लकार – उत्तम पुरुष

(घ)‌ ‘वद्’ धातो: – लट् लकार – प्रथम पुरुष

(ङ) ‘भू’ धातोः – विधिलिङ् – उत्तम पुरुष

(च) ‘रक्ष्’ धातोः – लोट् लकार – मध्यम पुरुष

5. (क) संधि कीजिए-
Join the words.

(i) गमनम् + आवश्यकम्

(ii) च + अन्य

(iii) रहस्यम् + एतत्

(iv) विडालान् + आहूय

(v) च + आर्द्राणि

(v) च + एकः

(ख) संधि-विच्छेद कीजिए- join the words.

(i) गन्तुमैच्छन्

(ii) नैतत्

(iii) कुक्कुराश्चास्मान्

(iv) चौरश्चायम्

(v) समस्यासीत्

(vi) वृद्धश्चैकम्

6. वाक्य प्रयोग द्वारा युग्म शब्दों का अन्तर स्पष्ट कीजिए-
Differentiate the words of pairs by using them in sentences.

(क) पुरुषम् – पौरुषम्

(ख) प्राह – प्रोचुः

(ग) येषाम् – तेषाम्

(घ) अवदत् – प्रत्यवदत्

(ङ) यत्र – तत्र

7. निम्नलिखित गद्यांश का अर्थ लिखिए-
Write the meaning of the following passage.

सर्वे मिलित्वा तथैव अकरोत् । क्रमेण ते कर्गजानि रक्षयन्तश्चासन् बहूनि दिनानि व्यपगतानि । अन्ततः शीतकालः समागतः नाद्यावधि कुक्कुराः निवृत्ताः । दारुणे शीते रात्रौ जागर्तुं ते काठिन्यम् अनुभवन्। पुनरेका संसदायोजिता । एका विडाला अवदत्-“कथं न कर्गजन्येतानि गुप्तस्थाने निक्षिप्तव्यानि स्युः ?” वृद्धो विडालः प्राह – ” मन्मते तु मूषकाणां विलेषु कर्गजानि निक्षिप्येरन्।” वृद्धेनानेन साधूक्तम्, सर्वतो ध्वनिर्वितस्तार ।

Leave a Comment