सुभाषितानि – सप्तम: पाठ:

अयं निजः परो वेति गणना लघुचेतसाम् । उदारचरितानां तु वसुधैव कुटुम्बकम् ।।1।।


सर्वं परवशं दुःखं सर्वमात्मवशं सुखम्।
एतद् विद्यात् समासेन लक्षणं सुखदुःखयोः ।।2।।


वृथा वृष्टिः समुद्रेषु वृथा तृप्तस्य भोजनम् ।
वृथा दानं समर्थस्य वृथा दीपो दिवापि च ।।3।।


काव्यशास्त्रविनोदेन कालो गच्छति धीमताम् ।
व्यसनेन तु मूर्खाणां निद्रया कलहेन वा ।।4।।


महान्तं प्राप्य सद्बुद्धे संत्यजेन्न लघुजनम्।
यत्रास्ति सूचिकाकार्यं कृपाणः किं करिष्यति ।। 5 ।।


किं कुलेन विशालेन विद्याहीनस्य देहिनः ।
विद्यावान् पूज्यते लोके नाविद्यः परिपूज्यते ।।6।।


वेशेन वपुषा वाचा विद्यया विनयेन च ।
वकारैः पञ्चभिर्युक्तो नरो भवति पूजितः ।। 7 ।।

शब्दार्थाः

निज: = अपना।

परः = पराया, दूसरे का।

लघुचेतसाम् = छोटे चित्तवालों का, अनुदार लोगों का ।

वसुधैव = (वसुधा+एव) सम्पूर्ण पृथ्वी ही।

कुटुम्बकम् = परिवार (है)।

परवशम् = दूसरों के वश में होना ।

आत्मवशम् = अपने अधीन।

समासेन = संक्षेप में।

विद्यात् = जानना चाहिए।

समर्थस्य = भरे-पूरे, सशक्त के लिए।

दिवा = दिन में ।

धीमताम् = बुद्धिमानों का।

व्यसनेन = बुरी आदतों के द्वारा।

निद्रया = सोने से।

कलहेन = लड़ाई-झगड़ा से।

सूचिका = सुई ।

कृपाणः = तलवार।

देहिनः = जीव का ।

अविद्यः = विद्याहीन।

वपुषा : = शरीर से ।

अभ्यासः


1- उच्चारणं कुरुत पुस्तिकायां च लिखत-
दुखम् , मुर्खाणाम् , सुखदु:खयो:, वृष्टि:, काव्यशास्त्रविनोदेन, पञ्चभिर्युक्तः,


2- एकपदेन उत्तरत –

(क) उदारचरितानां कृते सम्पूर्णा वसुधा किम् अस्ति ?
(ख) अयं निजः परो वेति कः गणयति ?
(ग) समुद्रेषु वृष्टिः कीदृशी भवति ?
(घ) विद्वान् कुत्र पूज्यते ?

3- प्रश्नानामुत्तराणि लिखत –

(क) सुखदुःखयोः किं लक्षणम् अस्ति ?

(ख) पञ्चवकाराः के सन्ति ?

(ग) धीमतां कालः कथं गच्छति ?

(घ) दीपः वृथा कदा भवति ?

4- मञ्जूषातः- पदानि चित्वा वाक्यानि पूरयत-
यथा– उदारचरितानाम् ….तु …..वसुधैव कुटुम्बकम् ।
(क) वृथा वृष्टिः समुद्रेषु।
(ख) महान्तं प्राप्य सद्बुद्धि
(ग) मूर्खाणां समयः व्यसनेन निद्रया कलहेन.….….।
(घ) वेशेन वपुषा वाचा विद्यया विनयेन च ।

5- विलोमपदानि योजयत-

निजःपरः ।
सबलःनिर्बलः
उदारःअनुदारः
सुखम्दुःखम्
6- हिन्दीभाषायाम् अनुवादं कुरुत –
(क) सर्वं परवशं दुःखं सर्वमात्मवशं सुखम्।
(ख) वृथा तृप्तस्य भोजनम् ।
(ग) महान्तं प्राप्य सद्बुद्धे ।
(घ) विद्यावान् पूज्यते लोके नाविद्यः परिपूज्यते ।

ध्यातव्यम्अस्मिन् पाठे वा, च, अपि इति, तु, एव, वृथा, सर्वत्र, वै, खलु अव्ययपदानि आगतानि सन्ति । एषां त्रिषु लिङ्गेषु त्रिषु वचनेषु सर्वासु विभक्तिषु च एकमेव रूपं भवति, अर्थात् रूप परिवर्तनं न भवति। अत एव अव्ययपदेन उच्यन्ते ।

शरीरमाद्यं खलु धर्मसाधनम् ।

Leave a Comment