पाठ 5 त्रयो धूर्ता: Three cunnings

त्रयो धूर्ता:

IMG 20240222 100809 पाठ 5 त्रयो धूर्ता: Three cunnings

कस्मिश्चिद् नगरे मित्रशर्मा नाम एकः ब्राह्मण अवसत्। सः एकदा एकम् अजं स्कन्धे धृत्वा गृहं प्रति अगच्छत्। तदा धूर्ताः मार्गे तं ब्राह्मणम् अपश्यन् अचिन्तयन् च-“एतस्मात् ब्राह्मणात् एष: अजः अस्माभिः येन केन उपायेन प्राप्तव्यः ।”


अथ तेषु धूर्तेषु एकः धूर्त: वेषपरिवर्तनं कृत्वा तस्य ब्राह्मणस्य सम्मुखे आगच्छत् अपृच्छत् च-“भो ब्राह्मण! त्वम् एतं कुक्कुरं किमर्थं वहसि ?” तस्य वचनं श्रुत्वा मित्रशर्मा अवदत्-“एषः कुक्कुरः न अस्ति । एषः तु अजः अस्ति ।” अथ किञ्चिद् दूरं गत्वा तं ब्राह्मणं द्वितीयः धूर्तः अमिलत् अभणत् च-“भो ब्राह्मण ! त्वं किमर्थम् एतम् अपवित्रं कुक्कुरं स्कन्धे धृत्वा नयसि ?” तदा सः ब्राह्मण क्रुद्धोऽभवत् अकथयत् च – “हे मूर्ख ! किं त्वम् अन्धः असि यद् अजं कुक्कुरम् अवगच्छसि ?”

अथ किञ्चिद् दूरं गत्वा तृतीयः धूर्तः तं ब्राह्मणम् अमिलत् तथैव च अवदत् । तस्य तादृशं वचनमाकर्ण्य मित्रशर्मा अजम्’ अयं कुक्कुरः’ इति मत्वा भूमौ अक्षिपत् च । त्रयो धूर्ताः तम् अजम् अनयन् अपचन् अभक्षयन् च ।

शब्दार्थाः

नगरे = नगर में (in a town), 
स्कन्धे धृत्वा = कन्धे पर रखकर (having placed on shoulders). 
धूर्ता: = ठग (rogues), 
वेषपरिवर्तनम् = वेश बदलना (change of dress). 
प्राप्तव्य: = प्राप्त करना चाहिए (should be acquired).
 पृच्छ् = पूछना (ask), 
कुक्कुरम् = कुत्ते को (dog) 
सम्मुखे = सामने (in front)
मिल् = मिलना (meet). 

 अजः=बकरा(He-goat), 
भण् = कहना (speak, tell), 
अपवित्रम् = अपवित्र (dirty, soiled).
क्रुद्ध= क्रोधित (angry), 
अन्धः = अन्धा (blind), 
अवगच्छ् = समझना (understand), 
गत्वा जाकर (having gone). 
आकर्ण्य =सुनकर (having heard),
 मत्वा = मानकर (having admitted) ।

अभ्यास

1.निम्नलिखित प्रश्नों के संस्कृत में उत्तर दीजिए
(a) नगरे कः अवसत् ?
(b) ब्राह्मणः किम् अवहत् ?
(c) तं ब्राह्मणं के अपश्यन् ?
(d) धूर्ता: किम् अचिन्तयन् ?

2.रिक्त स्थानों की पूर्ति कीजिए

कुक्कुरं,    अजं, धूर्ता:,    उपायम्     ।


(a) सः………………नयति
(b)………….अजम् अभक्षयन्।
(c) धूर्ता: एकम्…….अचिन्तयन्।
(d) त्वम् एतं………..किमर्थं वहसि ?

3.निम्नलिखित शब्दों का वाक्यों में प्रयोग कीजिए

अज:, धूर्त:, ब्राह्मणः, गत्वा, उपाय:

4.निम्नलिखित शब्दों के अर्थ लिखिए

 कुक्कुरः, श्रुत्वा, मार्गे, स्कन्धे, अपवित्रम्। 

5. संस्कृत में अनुवाद कीजिए-

(a) मोहन अन्धा है।
(b) मैं बकरे को कुत्ता नहीं समझता हूँ
(c) ब्राह्मण बकरे को ले आया।
(d) तुम वहाँ मित्र से मिले।

Leave a Comment