वैदिक-वंदना


तेजोऽसि तेजो मयि धेहि,
वीर्यमसि वीर्यं मयि धेहि,
बलमसि बलं मयि धेहि,
ओजोऽसि ओजो मयि धेहि ।


पश्येम शरदः शतम्। जीवेम शरदः शतम् ।
शृणुयाम शरदः शतम् । प्रब्रवाम शरदः शतम् ।। अदीनाः स्याम शरदः शतम् । भूयश्च शरदः शतात् ।


ऊँ शं नो मित्रः शं वरुणः । शं नो भवत्वर्यमा । शं न इन्द्रो बृहस्पतिः । शं नो विष्णुरुरुक्रमः। ॐ शान्तिः शान्तिः शान्तिः । ।

यजुर्वेदः

शब्दार्थाः

तेजोऽसि = तेज स्वरूप हो ।

मयि=मुझे ।

धेहि = स्थापित करो, प्रदान करो।

वीर्यम् = शक्ति को।

बलम् = सामर्थ्य को ।

ओजोऽसि = (तुम) ओज के स्रोत हो ।

ओजः = ओज को ।(हे भगवन्! आपकी से हम सभी)

वतन शरद: = सौ वर्ष तक ।

पश्येम = देखें।

जीवेम = जीवित रहें।

शृणुयाम = सुनें।

प्रब्रवाम = बोलें ।

अदीनाः = समर्थ ।

स्याम = होवें ।

भूयः = अधिक।

मित्रः = मित्र देव, आदित्य देव ।

नः = हम लोगों के लिए।

शम् = कल्याणकारी हो।

वरुणः = वरुण देव ।

अर्यमा = सूर्य ।

उरुक्रमः = विशाल पग वाले ।

अन्वयः
तेजोऽसि मयि तेजो धेहि । वीर्यमसि मयि वीर्यं धेहि। बलमसि मयि बलं धेहि । ओजोऽसि मयि ओजो धेहि ।

शरदः शतं पश्येम । शरदः शतं जीवेम शरदः शत श्रृणुयाम शरदः शतं प्रब्रवाम । शरदः शतं अदीनाः स्याम च शरदः शतात् भूयः ।
मित्रः नः शं भवतु। वरुणः नः शं भवतु। अर्यमा नः शं भवतु । इन्द्रः नः शं भवतु। बृहस्पतिः नः शं भवतु। उरुक्रमः विष्णुः नः शं भवतु। ॐ शान्तिः भवतु। शान्तिः भवतु। शान्तिः भवतु।


वदतु संस्कृतम्

विद्यालये उपस्थितेः चिन्ता


प्रभा -निर्मले ! कथं धावसि ?
निर्मला – विद्यालयं गच्छामि भगिनि !
प्रभा -कथं धावन्ती गच्छसि ?
निर्मला –अद्य विलम्बः जातोऽस्ति ।
प्रभा – कथं विलम्बं कृतवती ?
निर्मला – पठने लेखने च संलग्ना आसम् ।
प्रभा – इदं तु प्रतिदिनं करोसि ?
निर्मला -परन्तु अद्य विशेषरूपेण कृतवती अस्मि ।
प्रभा -कथम् ?
निर्मला –यतः गतदिने अस्माकम् अध्यापिका प्रबोधितवती यत् या बालिका श्वः पाठं पठितवती न भविष्यति,
लेखं लिखितवती न भविष्यति, पद्यम् अभ्यस्तं कृतवती न भविष्यति, सा पुरस्कृता न भविष्यति।

प्रभा – एवम् ?
निर्मला –आम् । अतएव सर्वं कार्यं कृत्वा इदानीं धावन्ती गच्छामि।
प्रभा -अथ अल्पाहारं कृतवती ? अभुक्ता एव वा गच्छसि ?
निर्मला -अवसर एव नासीत् अल्पाहारस्य । विद्यालये मध्याह्नभोजनं करिष्यामि ।
प्रभा – ईदृशस्ते अध्ययने अनुरागो यद् भोजनमपि परित्यजसि !
निर्मला – नहि, विलम्बकारणाद एवं विहितम् ।
प्रभा –ज्ञातम्, तथापि सावधानं गच्छ । पतिष्यसि खलु ।
निर्मला –बाढम्, अनुगृहीता अस्मि ।
विशेषः-इत्थं बालकेषु परस्परं संस्कृत-सम्भाषणस्य कौशल विकास कारयत ।



Leave a Comment