वाराणसी नगरी – चतुर्दश: पाठ:

अस्माकं देशे बहूनि तीर्थस्थानानि सन्ति । तेषु वाराणसी एक प्रसिद्धं तीर्थस्थानम् अस्ति । इदं काशीनाम्नापि प्रसिद्धं वर्तते। अनेकेषु प्राचीनग्रन्थेषु अस्य महिमा वर्णितः स्कन्दपुराणस्य काशीखण्डे अस्याः वाराणस्याः विस्तरेण वर्णनं विहितम् ।

इयं नगरी गङ्गायाः पवित्रे तटे विराजमाना अस्ति । अत्रैव विश्वनाथस्य प्रसिद्धं मन्दिरम् अस्ति । अन्यानि अपि बहूनि देवमन्दिराणि सन्ति यथा संकटमोचन मन्दिरम्, नवीनविश्वनाथ-मन्दिरम्, दुर्गा-मन्दिरम्, कालभैरव- मन्दिरम्, तुलसीमानस-मन्दिरम्। वाराणस्यां गङ्गा उत्तरवाहिनी जाता, तस्याः तीरे अनेके मनोहराः घट्टाः सन्ति। अस्याः प्रसिद्धेषु घट्टेषु दशाश्वमेध-राजेन्द्रप्रसाद -तुलसी-पञ्चगङ्गघट्टाः अन्यतमाः सन्ति, यत्र प्रातः सन्ध्याकाले च महान् जनसमुदायः आयाति । तत्र केचन स्नान्ति, केचन सन्ध्यावन्दनं कुर्वन्ति, केचन कथां शृण्वन्ति, केचन नौकासु विहरन्ति च ।

अत्रैव एकं पिशाचमोचनं नामकं तीर्थमस्ति, यत्र यात्रिणः आगत्य पितॄणां श्राद्धक्रियां कुर्वन्ति। शिवरात्रिदिने अत्र विशेषरूपेण मेला लगति। ग्रहणसमये अपि अत्र महान् जनसमुदायः आगच्छति। अत्र गङ्गायां स्नानाय श्रीविश्वनाथस्य दर्शनाय च सदैव भिन्न-भिन्न- प्रदेशेभ्यः जनाः आगच्छन्ति।
वाराणसी भारतस्य सुप्रसिद्धं पुरातनं विद्याकेन्द्रमपि अस्ति । अत्र प्राचीनकालात् पठनपाठनयोः परम्परा राजते। अत्र अनेके विख्याताः पण्डिताः जाताः । अद्यापि अत्रत्यानां पण्डितानां देशे विदेशे प्रतिष्ठा भवति। विश्वविख्यातः काशी-हिन्दू-विश्वविद्यालयः अत्रैव विराजते । संस्कृत-शिक्षायाः प्रसिद्धं केन्द्रं सम्पूर्णानन्द-संस्कृत-विश्वविद्यालयः अत्रैव अस्ति।

महात्मा-गांधी-काशी-विद्यापीठम् अपि अत्रैव अस्ति ।
अत्र अनेकानि पर्यटनस्थलानि सन्ति। विश्वप्रसिद्धं सारनाथस्थितं बौद्धमन्दिरम् इहैव अस्ति। यत्र भगवान् बुद्धः प्रथमं ज्ञानोपदेशं शिष्येभ्यः अददात् । अत्रैव ‘भारतमाता’ इति नामकं मन्दिरम् अपि अस्ति ।

वाराणसी अस्माकं पवित्रं तीर्थस्थानम्, विद्यायाः विश्वविख्यातं केन्द्रम्, तुलसीदासस्य, कबीरदासस्य रविदासस्य च साधनाभूमिः तथा मुमुक्षुणां मुक्तिदायिनी नगरी अस्ति।

शब्दार्थाः


विराजमाना = स्थित ।

पुरातनम् = प्राचीन ।

अत्रैव = यहीं।

विस्तरेण = विस्तार से ।

इहैव = यहीं पर ।

मुमुक्षु = मोक्ष का इच्छुक ।

अत्रत्य = यहाँ के ।


अभ्यासः


1- उच्चारणं कुरुत पुस्तिकायां च लिखत-

काशीनाम्नापि स्कन्दपुराणस्य विद्याकेन्द्रमपि शृण्वन्ति मुमुक्षूणाम् पञ्चगङ्गाघट्टः

2- पूर्णवाक्येन उत्तरत-

(क) इयं नगरी कस्याः पवित्रतटे विराजमाना अस्ति ?

(ख) पितॄणां श्राद्धक्रिया कुत्र भवति ?

(ग) भारतमाता-मन्दिरं कुत्र अस्ति ?

(घ) भगवान् बुद्धः शिष्येभ्यः प्रथमज्ञानोपदेशं कुत्र अददात् ?

3- मञ्जूषातः पदानि चित्वा वाक्यानि पूरयत—

(क) स्कन्दपुराणस्य काशीखण्डे अस्याः वाराणस्याः विस्तरेण वर्णनं वर्तते ।
(ख) अत्रैव विश्वनाथस्य प्रसिद्धं मन्दिरम् अस्ति ।
(ग) वाराणस्यां गङ्गायाः तीरे अनेके मनोहराः
घट्टाः सन्ति ।
(घ) ग्रहणसमये अपि अत्र महान् जनसमुदायः एकत्र भवति।
(ङ) वाराणसी भारतस्य सुप्रसिद्धं पुरातनं विद्याकेन्द्रमपि
अस्ति ।

4- अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत-

यथा-फलानि मालाकारः फलानि गृहीत्वा आपणं गच्छति।
(क) तीर्थस्थानानि ……………..

(ख) बहूनि ………………..

(ग) अनेकानि ………………..

(घ) मन्दिराणि ………………..

5- भिन्नवर्गस्य पदं चिनुत-

यथा– मयूराः, चटकाः, लताः, शुकाः । भिन्नवर्गः

(क) पुस्तकम्, कलमः, मित्रम्, चित्रम् । लता:

(ख) जलचर:, भूचर, खेचर, निशाचरः । …………

(ग) शिक्षिका, अध्यापिका, उपदेशिका, पुस्तिका । ….……

(घ) तीर्थस्थानानि, घट्टानि, मन्दिराणि, मनोहराणि ।………


6- रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत –

यथा- वाराणस्यां गङ्गा उत्तरवाहिनी जाता । वाराणस्यां का उत्तरवाहिनी जाता ?
(क) अत्रैव विश्वनाथस्य प्रसिद्धं मन्दिरम् अस्ति ।

(ख) शिक्षायाः विश्वविख्यातं केन्द्रं हिन्दूविश्वविद्यालयः अस्ति ।
(ग) भगवान् बुद्धः प्रथमं ज्ञानोपदेशं शिष्येभ्यः अददात् ।

(घ) वाराणसी अस्माकं पवित्रं तीर्थस्थानम् अस्ति ।

7- उदाहरणानुसारं रूपाणि लिखत –

विभक्तिःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमापयःपयसीपयांसि
यशः..……..……….
द्वितीयाफलम्फलेफलानि
वनम्………………
तृतीयाकेनकाभ्याम्कैः
तेन……………….
चतुर्थीमधुनेमधुभ्याम्मधुभ्यः
वस्तुने………………
पञ्चमीवारिणःवारिभ्याम्वारिभ्यः
अस्थिनः………………
षष्ठीमुखस्यमुखयोःमुखानाम्
तृणस्य………………
सप्तमीमित्रेमित्रयोःमित्रेषु
ज्ञाने……………….

संस्कृत-भारती कक्षा – 8

Leave a Comment