वर्धमान: महावीर: – चतुर्थ: पाठ:

भारतवर्षे प्रचलितेषु धर्मसम्प्रदायेषु जैनधर्मः महत्त्वं भजते । वर्धमानः महावीरः एतस्य जैनधर्मस्य अन्यतमः महापुरुषः आसीत् । तस्य जन्म ईसापूर्व 599 तमे वर्षे वैशालीनगरस्य कुण्डग्रामे अभवत् । बाल्यकाले तस्य नाम वर्धमानः इत्यासीत् । तस्य पितुः नाम सिद्धार्थः मातुश्च नाम त्रिशला इत्यासीत् । सः शैशवात् एव बुद्धिमान्, सदाचारसम्पन्नः विचारशीलश्च आसीत् । तस्य विवाहः यशोदानाम्न्या राजकुमार्या सह अभवत् । तस्य एका पुत्री प्रियदर्शिनी अजायत । वर्धमानः बाल्यकालादेव विरक्त आसीत् । समाजे प्रचलितः आडम्बरः, वर्गभेदः जीवहिंसा च तस्य मनसः विकलतायाः कारणानि आसन् । पितरि दिवङ्गते तस्य मनः शोकोविग्नमभवत् । मोह मायां च परित्यज्य सः
संन्यासं गृहीतवान्। तदानीं सः त्रिंशद्वर्षवयस्क आसीत्। कठिनेन तपसा सः सत्यस्य शान्तेश्च अन्वेषणे प्रवृत्तोऽभवत् । द्वादशवर्षाणि यावत् तपः तप्त्वा सः ज्ञानं प्राप्नोत् । तपसा सः इन्द्रियाणि संनियम्य महावीरः जिनो वा अभवत्। जैनमतानुसारेण वर्धमानमहावीरात् पूर्वं त्रयोविंशतिः तीर्थङ्कराः अभवन्। महावीरः जैनधर्मस्य अन्तिमः चतुर्विंशः तीर्थङ्करः आसीत् ।
ज्ञानप्राप्तेः अनन्तरं महावीरः त्रिंशत् वर्षाणि यावत् जैनधर्मस्य महता उत्साहेन प्रचारम् अकरोत्। शनैः शनैः भारतस्य प्रायशः सर्वेषु राज्येषु जैनधर्मस्य सम्यक् प्रचारः सञ्जातः । तेन प्रदर्शितेन मार्गेण जनाः कैवल्यं प्राप्तुं समर्थाः भवन्ति। तस्य मतेन न केवलं मनुष्याः, पशवः, पक्षिणः वा प्राणवन्तः अपितु वृक्षादिषु प्रस्तरादिष्वपि प्राणाः सन्ति। महावीरस्य उपदेशानुसारेण सम्यक्-दर्शन, सम्यक्-ज्ञानं, सम्यक्-चरित्रम् इति त्रिरत्नोपासनया जनाः मोक्षं लभन्ते । शुद्धाचरणाय सत्य-अहिंसा-अस्तेय -ब्रह्मचर्य-अपरिग्रह इति पञ्चमहाव्रतानां विधानं सः अकरोत्। साधारणजनैः सह बिम्बिसार-अजातशत्रुप्रभृतयो राजानः अपि तस्य उपदेशैः प्रभाविताः अभवन्। तेनोपदिष्टस्य मार्गस्य सत्यम् अहिंसा च आधारभूते स्तः ।
द्विसप्ततिवर्षवयसि पाटलिपुत्रसमीपे पावापुरीस्थाने महावीरः रुग्णो जातः निर्वाणं च प्राप्तः ।


शब्दार्थाः

अन्यतमः = बहुतों में से एक / सर्वश्रेष्ठ ।

शैशवात् = बचपन से ।

सदाचारसम्पन्नः = सदाचार से युक्त ।

अजायत = उत्पन्न हुई। (जन् धातु, लङ्लकार, प्रथम पुरुष, एक वचन)।

वर्गभेदः = ऊँच-नीच का भेद-भाव ।

विकलतायाः व्याकुलता के ।

दिवङ्गते = मरने पर।

शोकोद्विग्नम् = शोक से सन्तप्त, बेचैन ।

तदानीम् = उस समय।

प्रवृत्तः = लग गये।

संनियम्य = नियन्त्रित करके ।

त्रयोविंशतिः तेईस ।

चतुर्विंशः = चौबीसवें ।

कैवल्यम् = मोक्ष |

प्राणवन्तः = सजीव ।

प्रस्तरादिषु = पत्थर आदि में।

त्रिरत्नोपासनया = तीन रत्नों के पालन से।

अस्तेयम् (न + स्तेयम्) = चोरी न करना।

अपरिग्रहः = अपने पास कुछ न रखना।

द्विसप्ततिवर्षवयसि = बहत्तर वर्ष की उम्र में ।

रुग्णः = रोगी ।

अभ्यासः


1- उच्चारणं कुरुत पुस्तिकायां च लिखत-
त्रिंशद्वर्षवयस्कः वर्धमानः दिवङ्गते बिम्बिसारः द्विसप्ततिवर्षवयसि अपरिग्रहः त्रिरत्नोपासना शोकोद्विग्नः।


2- एकपदेन उत्तरत-
(क) वर्धमानमहावीरस्य पितुः नाम किम् आसीत् ?
(ख) वर्धमानमहावीरस्य मातुः नाम किम् आसीत् ? (ग) जैनधर्मानुसारेण त्रिरत्नोपासनया जनाः किं लभन्ते ? (घ) जैनधर्मस्य अन्तिमः तीर्थङ्करः कः आसीत् ?

3- पूर्णवाक्येन उत्तरत-

(क) महावीरः कति वर्षाणि यावत् जैनधर्मस्य प्रचारम् अकरोत् ? (ख) महावीरस्य जन्म कुत्र अभवत् ?
(ग) महावीरस्य पुत्र्याः नाम किम् आसीत् ?
(घ) जैनमतानुसारेण महावीरात् पूर्वं कति तीर्थङ्कराः अभवन् ?
4- प्रश्नानामुत्तराणि लिखत-
(क) कानि पञ्चमहाव्रतानि सन्ति ?
(ख) त्रिरत्नानि कानि सन्ति ?
(ग) महावीरस्य उपदेशैः के के प्रभाविताः अभवन् ?
(घ) महावीरस्य मनसः विकलतायाः कानि कारणानि आसन् ?
5- मञ्जूषातः क्रियापदानि चित्वा वाक्यानि पूरयत
(क) महावीरः जैनधर्मस्य श्रेष्ठः महापुरुषः आसीत
(ख) महावीरस्य जन्म वैशालीनगरस्य कुण्डग्रामे अभवत्। (ग) जैनधर्मस्य प्रचारं महावीरः उत्साहेन अकरोत्। (घ) त्रिंशद्वर्षवयसि मोहमायां परित्यज्य महावीरः संन्यासम्
गृहीतवान्
6- अधोलिखितपदेषु सन्धिविच्छेदं कुरुत

मतानुसारेण……….………..
इत्यासीत्………..………..
उपदेशानुसारेण…………………….
त्रिरत्नोपासनया………..………….
17- संस्कृतभाषायाम् अनुवादं कुरुत

(क) वर्धमान महावीर जैनधर्म के चौबीसवें तीर्थङ्कर थे।
(ख) महावीर की माता का नाम त्रिशला था ।
(ग) पत्थर में भी प्राण हैं ।
(घ) उस समय वे तीस वर्ष के थे।

Leave a Comment