चतुर्दशः पाठः

समाश्वसितुं समाश्वसितु भट्टिनी!

सहदेवः – [Possibilities आत्मगतम्] अये, कथं याज्ञसेनी
मुहुरुपपचीयमानः वाष्पपटलस्थगितनयना आर्य समीपमुपसर्पति। तत् कष्टतरामापतितम्।
[ततः प्रविशति यथानिर्दिष्टा द्रोपदी चेटी च]
[ द्रोपदी साम्रं निःश्वसि ]

चेटी – समाश्वसितुं समाश्वसितुं भट्टिनी। अपनेष्यति ते मन्यु नित्यानुबद्धकुरुबैर: कुमारो भीमसेन:।

द्रौपदी – हञ्जे बुद्धिमतिके! भवेत्येतद्यदि महाराजः प्रतिकुलो न भवेत्। तन्नाथं प्रशितुं त्वरते में हृदयम्। दादेशय मे नाथस्य वासभवनम् ।

[इति परिक्रामतः]
चेटी – विलोक्य) एष कुमारस्तिष्ठति । तदेनमुपसपंतु भट्टिनी।

द्रोपदी – हञ्जे, कथय नाथस्य ममागमनम्।

चेटी – यद्देव्याज्ञापयति (इति परिक्रमयोपसृत्य च) जयतु जयतु कुमारः।
भीमसेनः – (अशृष्वन् क्रोध च प्रकटयन्तः)
चेटी – (परिवृत्य) स्वामिनी! प्रियं ते निवेदयामि। परिकुपित इव कुमारो लक्ष्यते।

द्रोपदी – हजे! यद्येवं तदवधीरणाप्येषा मामाश्वासयति। तदेकान्त उपविष्टा भूत्वा शृणोमि तावन्नाथस्य व्यवसितम्।

[उभे तथा कुरुतः]
भीमसेन: – (संक्रोधं सहदेवमधिकृत्य) किं नाम पञ्चाभिग्रमैः संधिः ।
मध्नामि कौरवशतं समरे न कोपाद्,
दुःशासनस्य रुधिरं न पिबाम्युरस्तः।
संचूर्णयामि गदया न सुयोधनोरू,
संधिं करोतु भवतां नृपतिः पणेन ।।

भीमसेनः – (सहर्षम्! जनान्तिकम्) नाथ! अश्रुतपूर्वं खलु ते ईदृशं वचनम्। तत् पुनः पुनस्तावद्भण।

भीमसेन: – (मध्नामि कौरवशत….. इति पुनः पठति।)

सहदेव: – आर्य! किं महाराजस्य संदेशोऽयमार्येणाव्युत्पन्न इव गृहीतः ।
भीमसेन: – का पुनरत्र व्युत्पत्तिः ?

सहदेव: – आर्य! एवं गुरुणा सन्दिष्टम्।

भीमसेनः – कस्य?

सहदेवः – सुयोधनस्य ।

भीमसेनः – किमिति ?

सहदेवः – इन्द्रप्रस्थं वृकप्रस्थं जयन्तं वारणावतम्।
प्रयच्छ चतुरो ग्रामान् कञ्चिदेकं च पञ्चमम्।।

भीमसेनः – तत् किम्?

सहदेवः – तदेवमनया प्रतिनामग्रामप्रार्थनया
द्युतसमाद्यपकारस्थानोद्द्यानमेवेदं मन्ये ।

भीमसेनः – (साटोपम्) वत्स! एवं कृते किं भवति ?

पञ्चमस्य चाकीर्तनात् विषभोजन जतुगृहदाहं,

सहदेवः – आर्य एवं कृते लोके यावत् स्वगोत्रक्षयाशंकि हृदयमाविष्कृतं भवति । कुरुराजस्य तावदसन्धेयता च तदैव प्रतिपादिता भवति।

भीमसेनः – मूढ! सर्वमप्येतदनर्थकम्। कुरुराजस्य तावदसन्धेयता तदैव प्रतिपादिता यदैव अस्माभिरितो वनं गच्छद्भिः सर्वरेव कुरुकुलस्प निधनं प्रतिज्ञातम्। लोकेऽपि च धार्तराष्ट्रकुलक्षयः किं लज्जाकरो भवताम्। अपि च रे मूर्ख! –

युष्मान् ह्रेपयति क्रोधाल्लोके शत्रुकुलक्षयः।
न लज्जयति दाराणां सभायां केशकर्षणम् ||

द्रोपदी – (जनान्तिकम्) नाथ! न लज्जन्त एते। त्वमपि तावन्या विस्मार्षीः।

भीमसेनः – वत्स! कथं चिरयति पाञ्चाली?

सहदेवः – आर्य! का खल वेलाऽत्रभवत्याः प्राप्तायाः । किं तु रोषावेशवशादार्यागता प्यार्थेण नोपलाक्षिता ।

भीमसेनः – (दृष्ट्वा, सादरम्) देवि! वर्धितामर्षेरस्माभिरागतापि भवती नोपलक्षिता। अतो न मन्युं कर्तुमर्हसि।

द्रोपदी – नाथ! उदासीनेषु युष्मासु मम मन्युः, न पुनः कुपितेषु ।
भीमसेनः – यद्यवमपगतपरिभवम् आत्मानं समर्थयस्व (हस्ते गृहीत्वा, पार्श्वे समुपवेश्य, मुखवलोक्य च) किं
पुनरत्र भवतीभुद्विग्नाः इवोपलक्षयामि ।

द्रोपदी – नाथ! किमुप्युद्वेगकारणं युष्मासु सन्निहितुषु ।

भीमसेनः – किमिति नावेदयसि। (केशानवलोक्य) अथवा किमावेदितेन।
जीवत्सु पाण्डुपुत्रेषु दूरमप्रेषितेषु च।
पाञ्चालराजतनया वहते यदिमां दशाम्।।

शब्दार्थाः

समाश्वसितुं = धैर्य को धारण करें have patience

वाष्पपटलस्थगितयना = डबडबाई नेत्र वाली has tearsful eyes

सास्रं = आँसू बहाती हुई shedding tears

नित्यानुबद्धकुरुबैरः = कौरवों के साथ सदा बैर भाव रखने वाले who always had enemity to the Kaurvas

इति परिक्रमयोपसृत्य च = घुमकर और समीप जाकर turning and reaching near by

परिकुपित इव = क्रोधित हुए से as like the regentful

हञ्जे = सखि female friend

तदवधीरणाप्येषा – यदि ऐसी बात है तो if it is so, then

पञ्चाभिग्रमैः संधिः = पाँच गाँव से सन्धि होना made an agreement with the five villages

मध्नामि = मथ डालूँगा I will crush

संचूर्णयामि = चूर्ण कर डालूँगा will make their (bones) powder

रूधिरं पिबाम्युरस्तः = छाती का खून पीऊँगा will drink up the blood of chests

अश्रुतपूर्वं = जो पहले न सुना गया which is not heard before

सन्दिष्टम् = संदेश दिया है gave advice

प्रतिनामग्रामप्रार्थनया = प्रत्येक गाँव का नाम लेकर calling every village with its name

साटोपम् = आवेश में आकर regentfully

हृदयमाविष्कृतं = हृदय दुखी होता है the heart feels teasing

सर्वमप्येतदनर्थकम् = यह सब व्यर्थ की बात है it is all in vain

धार्तराष्ट्रकुलक्षयः = धृतराष्ट्र के कुल का नाश Dhratrashtra’s clan

केशकर्षणम् = बालों का खींचना to pull hair

उदासीनेषु युष्मासु = तुम उदासीनों में among uninteresting all of you

समर्थयस्व = प्रतीकार हो गया it became revengeful

उद्विग्नाः इवोपलक्षयामि = व्याकुल सी दिख रही हैं is appearing to be perplexed

किमुप्युद्वेगकारणम् = उद्विग्नता का क्या कारण है what is the reason of perplexity

जीवसु = जीवित रहने पर on being live

दूरमप्रोषितेषु = दूर परदेश न जाने पर on not being abroad

वहते = धारण कर रही है। grasps

कार्य-कालम्

1.निम्नलिखित प्रश्नों के संस्कृत में उत्तर दीजिए-
Answer the following questions in Sanskrit.

(क) भीमसेनः कस्याक्रोधस्य निवारणं करिष्यति ?

(ख) द्रोपदी का आसीत्?

(ग) द्रोपदी चेटी च कस्य समीपं अगच्छताम् ?

(घ) पञ्चग्रामाणां नाम गणय ?

(ङ) ‘पञ्चग्रामाणां संधि’ इति श्रुत्वा भीमसेनः केन प्रकारेण क्रुद्धतः?

(घ) अल्पबुद्धि जनाः पिप्पलं प्रति किम् आरोपयन्ति?

2.रिक्त स्थानों की पूर्ति कीजिए-
Fill in the blanks.

(क) अपनेष्यति ते मन्यु नित्यानुबद्धकुरुबैरः ………..।

(ख) परिकुपित इव ……… लक्ष्यते।

(ग) संचूर्णयामि …….. न सुयोधनोरू संधि ……. भवतां….. पणेन ।

(घ) लोकेऽपि च ……. किं लज्जाकरो भवताम्।

(ङ) जीवत्सु पाण्डुपुत्रेषु …….च।

पाञ्चालराजतनया वहते ………. दशाम्।।

3. निम्नलिखित वाक्यों का संस्कृत में अनुवाद कीजिए-
Translate the following sentences into Sanskrit.

(क) आप धैर्य धारण करें।

(ख) द्रोपदी आर्य के पास आ रही है।

(ग) नाथ! आपके वचन अपूर्व है।

(घ) महाराज ने इस प्रकार संदेश दिया है।

(ङ) महाराज का हृदय अपने गोत्रवध से दुखी होता है।

1.निम्नलिखित वाक्यों को बहुवचन में बदलिए-
Change the following sentences into the plural form.

(क) त्वं सत्यं वद ।

(ख) सा तस्य भार्या अस्ति ।

(ग) सा आर्यासमीपमुपसर्पति।

(घ) प्रिये! ते निवेदयामि ।

(ङ) वत्स! एवं कृते किं भवति ।

5.(क) संधि कीजिए-
Join the words.


(i) मुखम् + अवलोक्य
(ii) कुमार: + तिष्ठति
(iii) तत् + नाथम्
(iv) कष्टतराम् + अपतितम्
(v) समीपम् + उपसर्पति
(vi) संदेश + अयम् + आर्येण + अव्यत्पनन

(ख) अर्थ लिखिये और संस्कृत में वाक्य प्रयोग कीजिए-
Write the meanings and make sentences into sanskrit.

(i) भट्टिनी
(ii) वासभवनम्
(iii) कष्टतरामापतितम्
(iv) व्यवस्थितम्
(v) रुधिरम्
(vi) लक्ष्यते

(ग) मूल धातु लिखिए-
Write the root word.

(i) गृहीत
(ii) उपसर्पति
(iii) तिष्ठति
(iv) नेष्यति
(v) संचूर्णयामि
(vi) करोतु

Leave a Comment