वीरोऽभिमन्यु: – त्रयोदश: पाठ:

महाभारतस्य युद्धम् अष्टादश दिनानि यावत् प्राचलत् । आदौ कौरवपक्षे पितामहः भीष्मः सेनापतिः अभवत् । दश दिनानि सः युद्धम् अकरोत् । ततः एकादशे दिवसे द्रोणाचार्यः
सेनापतिः अभवत् । सः पञ्च दिनानि सेनापतिः आसीत् । पञ्चदशे दिवसे सः वीरगतिं प्राप्तवान्। तदनन्तरं कर्णः दिनद्वयपर्यन्तं सेनापतिः अभवत् । तस्मिन् वीरगतिं प्राप्ते अर्ध दिनं मातुलः शल्यः युद्धं कृतवान्। शेषे दिवसार्धे भीमदुर्योधनयोः गदायुद्धम् अभवत् ।

अस्य ऐतिहासिकस्य महायुद्धस्य त्रयोदशे दिने यदा द्रोणाचार्यः कौरवपक्षस्य सेनापतिः आसीत्, तदा दुर्योधनः स्वविजयाय द्रोणाचार्यम् अतितरां प्रार्थितवान् ।
द्रोणाचार्यः अकथयत्– ‘यदि अर्जुनः युद्धे कदाचित् सन्निहितः न भवेत्, तदा नूनं तव जयो भवेत्’ इति श्रुत्वा दुर्योधनपक्षीयाः संशप्तकनामकाः वीरवराः अर्जुनं युद्धाय आहूय अन्यत्र दूरं नीतवन्तः । ‘अयमेव अवसरः’ इति मत्वा द्रोणाचार्यः चक्रव्यूहं रचितवान्, यस्य भेदनं पाण्डवपक्षे कोऽपि अर्जुनादन्यः न अजानात्।

महाराजो युधिष्ठिरः अत्यन्तम् उद्विग्नोऽभवत् । तदानीम् अर्जुनपुत्रः अभिमन्युः युद्धक्षेत्रं प्रति प्रस्थितः, यतः सः चक्रव्यूहभेदनविधिम् अजानात्। किन्तु चक्रव्यूहद्वारे स्वपितृष्वसुः पतिः सिन्धुराजो जयद्रथः युधिष्ठर–भीम-सहदेव-नकुलान् अवरुद्धवान्। अभिमन्युः एकाकी चक्रव्यूहमध्ये प्रविश्य अतीव पराक्रमेण युद्धं कृत्वा बहून् वीरान् हतवान् । हा धिक्! हा धिक् ! अन्ते द्रोणः, कृपः कर्णः, अश्वत्थामा, बृहद्बलः, कृतवर्मा जयद्रथश्च सप्त योद्धारः सम्मिल्य अभिमन्युं निःशस्त्रं कृत्वा एकाकिनं हतवन्तः । अभिमन्युः वीरगतिं लब्ध्वा अमरोऽभवत् ।

शब्दार्था:


अष्टादश दिनानि यावत् = अठारह दिनों तक।

पञ्चदशे दिवसे = पन्द्रहवें दिन ।

मातुलः प्रार्थितवान् = प्रार्थना की।

नीतवन्तः = ले गये ।

मत्वा = मानकर।

अजानात् = जानते थे।

तदानीम् = उस समय।

पितृष्वसुः पतिः = पिता की बहन के पति (फूफा)।

सम्मिल्य = मिलकर |

अभ्यासः


1- उच्चारणं कुरुत पुस्तिकायां च लिखत-
युद्धम् भीमदुर्योधनयोः भीष्मः ऐतिहासिकस्य
स्वपितृष्वसुः उद्विग्नोऽभवत् प्रविश्य ऐतिहासिकस्य स्वपितृष्वसुः दिनद्वयपर्यन्तम् संशप्तकनामकाः

2- एकपदेन उत्तरत-

(क) कौरवपक्षे कः प्रथमः सेनापतिः अभवत् ?

(ख) द्रोणाचार्यः कति दिनानि सेनापतिः आसीत् ?

(ग) एकादशे दिवसे कः सेनापतिः अभवत् ?

(घ) अर्जुनं विहाय चक्रव्यूह-भेदन-विधिं कः अजानात् ?

3- पूर्णवाक्येन उत्तरत-

(क) महाभारतस्य युद्धं कति दिनानि यावत् प्राचलत् ?
(ख) त्रयोदशे दिने कः सेनापतिः आसीत् ?
(ग) द्रोणाचार्यः विजयाय किं रचितवान् ?
(घ) चक्रव्यूहद्वारे पाण्डवान् कः अवरुद्धवान् ?

4- अधोलिखित-पदानां विभक्ति-वचनं लिखत-

पदम्विभक्तिःवचनम्
मोहनम्द्वितीयाएकवचन
ऐतिहासिकस्य………..….…….
विजयाय………..………..
स्वपितृष्वसुः………..………..
पराक्रमेण………..………..
5-अधोलिखितपदानि समानार्थकैः पदैः सह योजयत-
युद्धम्समर:
दिनानिएकलः
सेनापतिःदिवसाः
एकाकीमारितवान्
हतवान्चमूपतिः
6- अधोलिखितवाक्यानि संशोधयत-

(क) द्रोणाचार्यः सेनापतिः आसन् ।
(ख) सः पञ्चदिनम् सेनापतिः आसीत् ।
(ग) तौ वीरगतिं प्राप्तवान् ।
(घ) दुर्योधनः स्वविजयः द्रोणाचार्य प्रार्थितवान् ।
(ङ) अभिमन्युः वीरगतौ लब्धवान् ।

7- संस्कृतभाषायाम् अनुवादं कुरुत-

(क) वीर अभिमन्यु अर्जुन का पुत्र था।
(ख) वह अकेले सात महारथियों से लड़ा।
(ग) जयद्रथ ने अन्याय से अभिमन्यु का वध किया था। (घ) अतः अर्जुन ने जयद्रथ के वध की प्रतिज्ञा की ।

स्मरणीयम्-

1- धीरो भव वीरो भव ।
शिष्टो भव सभ्यो भव ।
हृष्टो भव पुष्टो भव ।
सौम्यो भव शान्तो भव ।


2- स्नानं कुरु ध्यानं कुरु ।
मधुरं जलपानं कुरु ।
पठने अवधानं कुरु ।
हीन-जने मानं कुरु ।
दीन-जने दानं कुरु ।
जन-जन सम्मानं कुरु ।

Leave a Comment